SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ मिथ्यादृशामप्यहिंसादियमसिद्धसमर्थनम् ।। अथ मित्राद्वात्रिंशिका ।। २१ ।। योगाऽवतारद्वात्रिंशिकायां मित्राद्या दृष्टयोऽप्यवतारितास्तत्र मित्रां दृष्टिमत्र सप्रपञ्चं निरूप • • १४१७ यन्नाह मित्रायां दर्शनं मन्दं योगाङ्गं च यमो भवेत् । अखेदो देवकार्यादावन्यत्राऽद्वेष एव च ॥ १ ॥ मित्रायामिति । मित्रायां दृष्टौ दर्शनं मन्दं स्वल्पो बोधः तृणाग्निकणोद्योतेन सदृशः । योगाङ्गं च यमो भवेद् इच्छादिभेदः । अखेदः = अव्याकुलतालक्षणः (एव) देवकार्यादौ आदिशब्दाद् = * नयलता योगदृष्टिं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छ्रुत्वा च विदित्वा च सर्वपापैः प्रमुच्यते ।।१।। तत्र = तासु मित्राद्याषु दृष्टिषु मध्ये प्रथमां मित्रां दृष्टिं अत्र मित्राद्वात्रिंशिकायां योगदृष्टिसमुच्चयानुसारेण सप्रपञ्चं = सविस्तरं निरूपयन्नाह - 'मित्रायामिति । यमो वक्ष्यमाणलक्षणः (द्वा. द्वा. २१/२-भाग ५, पृ.१४२०) अहिंसादिरूपः पञ्चविधः तदन्यतरो वा भवेद् इच्छादिभेदः = प्राग् ( द्वा. द्वा. १९/ २६-२७-२८ भाग-५, पृ.१३१२-१३१७) व्यावर्णितरूपः । केषाञ्चिदेको द्वौ त्रयः पञ्च वा यमाः इच्छालक्षणाः, केषाञ्चित्तु प्रवृत्तिरूपोऽहिंसादियमः केषाञ्चित्तु स्थैर्याक्रान्तोऽहिंसादियमः केषाञ्चिच्च सिद्धियमरूपोऽहिंसादियमः । न च मित्रायामहिंसादिगोचरसिद्धियमः कथं सम्भवेत् ? मिथ्यात्वगुणस्थानकवर्तित्वात्तदाश्रयस्येति शङ्कनीयम्, भववैराग्य-तपस्त्यागादिशालित्वे मिथ्यात्वोपेतानामपि केषाञ्चिदहिंसादिसिद्धिसम्भवात् । इत्थमेवाऽग्निशर्माभिधानस्य तापसस्य य आर्जवकौण्डिन्याख्यः कुलपतिः तस्य सुपरितोषाभिधं यत्तपोवनं तद्वर्णनाऽवसरे समरादित्यकथायां पसन्तमय-मयाहिवपमुहविरुद्धसावयगणं ← (समभव-१/पृ.११) इति श्रीहरिभद्रसूरिवचनमुपपद्यते । स्थिरादिदृष्टिमतां यदाऽहिंसादिगोचरसिद्धियमो जायते तदा स ततोऽपि विशिष्टतरोऽवसेयः, अतिसूक्ष्मविशदतरत्तत्त्वबोधात् । एवमेवेच्छा - प्रवृत्त्यादियमेष्वप्यवसेयम् । આ મિત્રાદ્વાત્રિંશિકા પ્રકાશ ફ યોગાવતાર નામની ૨૦મી બત્રીસીમાં મિત્રા વગેરે યોગ દૃષ્ટિઓનો પણ સમાવેશ કરેલ હતો. તેમાંથી સૌ પ્રથમ મિત્રા દૃષ્ટિનું ૨૧મી બત્રીસીમાં વિસ્તારથી નિરૂપણ કરતાં ગ્રંથકારશ્રી જણાવે છે કે ♦ મિત્રા દૃષ્ટિનો પરિચય છે ગાથાર્થ :- મિત્રા દૃષ્ટિમાં દર્શન મંદ હોય છે. जेह नथी होतो. तेभ४ अन्यत्र द्वेष ४ होय छे. યોગના અંગ રૂપે યમ હોય છે. દેવના કામમાં (२१/१ ) ટીકાર્થ :- મિત્રા દૃષ્ટિમાં તત્ત્વબોધ અતિ અલ્પ હોય છે. તૃણના અગ્નિકણનો જે પ્રકાશ હોય છે તેના જેવો મંદ તત્ત્વબોધ હોય છે. ઈચ્છા વગેરે ભૂમિકાના અહિંસાદિ યમ, યોગના અંગ રૂપે મિત્રા દૃષ્ટિમાં પ્રાપ્ત થાય છે. ભગવાન અને ગુરુદેવ વગેરેના કામમાં વ્યાકુળતાવિરહ સ્વરૂપ અખેદ હોય છે. તથાવિધ દ્રવ્ય-ક્ષેત્રાદિ રૂપે કર્તવ્ય તરીકે ઉપસ્થિત થયેલા દેવ-ગુરુ વગેરેના કાર્યમાં તેને ખેદ-વ્યાકુળતા १. 'योगांग' इति मुद्रितप्रतावशुद्धः पाठः । हस्तप्रतौ च 'योगायं' इत्यशुद्धः पाठः । २. हस्तादर्शे 'तन्दं' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy