________________
१४१२
• मार्गप्रवेशाय मिथ्यादृशां चारित्रदानम् • द्वात्रिंशिका - २०/३२ सुखप्रधानः, मिथ्यादृगपि परमानन्दभाक् = निरतिशययोगसुखभाजनं उक्तः शिवराजर्षिवदिति।। ३२।। खेदादिदोषपरिहाराद्यदा संवेगतारतम्यमाप्नुवन्ति, तदा मार्गाभिमुख्यात्तेषामिक्षु-रस- कक्कब-गुडकल्या मित्रा तारा बला दीप्रा चेति चतस्रो योगदृष्टय उल्लसन्ति, भगवत्पतञ्जलि भदन्तभास्करादीनां तदभ्युपगमात् ← (ध.सं.गा.१९/पृ. ४२) इति धर्मसङ्ग्रहवृत्तिकृदुक्तिः स्मर्तव्या ।
इदञ्चात्राऽवधेयम्- चरमावर्तकाले प्रथमं तावत् सहजमलह्रासविशेषः सम्पद्यते, ततश्च कदाग्रहभोगतृष्णादिह्रासाद् भवाभिनन्दिता हीयते, तदनन्तरं अपुनर्बन्धकता प्राप्यते, तत्पश्चात् धर्मबीजानि लभ्यन्ते ततः मित्रादिदृष्टिलाभः इत्येवं क्रमेण मिथ्यादृशां विकासः शास्त्रकृतां सम्मतः । इत्थञ्च मिथ्यादृगपि तत्त्वाऽद्वेष-जिज्ञासा-शुश्रूषा-श्रवण- प्रज्ञापनीयत्व-गुणवत्पारतन्त्र्याऽघभीरुत्वादिगुणगणोपेतः योगगोचर-खेदोद्वेग-क्षेपोत्थानलक्षणचित्तदोषपरिहारेण स्वभूमिकोचितयम-नियमाऽऽसनप्राणायामप्रवृत्तः सन् कुतर्कग्रहनिवृत्तिपरायणतया स्वान्तःकरणे विशुद्धतथाविधमोक्षमार्गं सृजतीत्याशयः । तदुक्तं अध्यात्मतत्त्वालोके → दृशश्चतस्रः प्रथमाः सृजन्ति मार्गाभिमुख्येन विमुक्तियोगम् । मिथ्यात्ववत्योऽपि तदल्पभावात् योग्यत्वभाजोऽन्तिमपुद्गलस्था: ।। ( अ. त. ३ / ११६ ) शान्तो विनीतश्च मृदुः प्रकृत्या भद्रस्तथा चारुचरित्रशाली। मिथ्यादृगप्युच्यत एव सूत्रे निर्वाणभाग् धर्मितया प्रशस्तः ।। ← ( अ.त. ३ / ११७) इति । → गंठिगसत्ताऽपुणबंधगाइयाणं पि दव्वतो आणा ← (उप.प. २५३ ) इति उपदेशपददर्शितः प्रधानद्रव्याज्ञायोगोऽपि प्रकृतयोगिनि वर्तते, उपदेशपदोक्तानां (गा. २५७) आज्ञार्थपर्यालोचन-गुणरागसमुपलब्धजिनाज्ञाविस्मय- भवभयानां तल्लिङ्गानामुपलब्धेः । इत्थमेव प्रशमादिगुणान्वितसम्यग्दर्शनाऽऽक्षेपकग्रन्थिभेदसामर्थ्यलाभोपपत्तेः । तदुक्तं अध्यात्मसारे शान्तो दान्तो भवेदीदृगात्मारामतया स्थितः । सिद्धस्य हि स्वभावो यः सैव साधकयोग्यता ।। ← (अ.सा. १६ / ६८) इति । अत एव एतादृशस्य व्रतपालने धीरस्य विरक्तस्य मिथ्यादृशोऽपि चारित्रं गीताथैर्दीयते । तदुक्तं अध्यात्मसारे अतो मार्गप्रवेशाय व्रतं मिथ्यादृशामपि । द्रव्यसम्यक्त्वमारोप्य ददते धीरबुद्धयः ।। ← ( अ.सा. २/१७) इति
प्रकृतिभद्रकत्वादयो मिथ्यादृशां परमानन्दभाक्त्वे हेतुत्वेनोक्ताः द्रष्टव्याः । परं ताव पइण्णाओ उणा वि सह गोवलब्भते अत्थो । जाव य लोगपसिद्धो दिट्ठतो न पयासति ।। ← ( ) इति वचनाद् अत्र दृष्टान्तमाह- शिवराजर्षिवदिति । तदुदाहरणं आवश्यकनियुक्तिवृत्तौ वृद्धविवरणानुवादरूपेण श्रीहरिभद्रसूरिभिः सामायिकोपलम्भकनिरूपणाऽवसरे अत्थि मगधा जणवए सिवो राया, तस्स धणસંતોષસુખને મુખ્ય કરનાર હોવાથી ઉત્તમ હોય તેવો મિથ્યાદૅષ્ટિ જીવ પણ શિવરાજર્ષિની જેમ પરમાનંદનું અજોડ યોગના સુખનું ભાજન બને છે એવું આગમમાં બતાવેલ છે. (૨૦/૩૨)
વિશેષાર્થ :- જેનો સ્વભાવ જ આત્મોન્નતિને સાધવાનો હોય તેવા જીવો પ્રકૃતિથી ભદ્રક કહેવાય. આ સિવાયના બીજા ચાર વિશેષણો ચારેય કષાયની મંદતાને સૂચિત કરે છે. મિથ્યાત્વ ઘટે, કષાય ઘટે, પ્રકૃતિ ભદ્રક બને - એટલે જીવ યોગષ્ટિઓને સાધતો - સાધતો પરમાનંદને પામે તેમાં કોઈ આશ્ચર્ય નથી. તપસ્વી, વૈરાગી અને ભદ્રક એવા શિવરાજર્ષિને સાત દ્વીપ-સમુદ્રનું વિભંગ જ્ઞાન ઉત્પન્ન થયું હતું. મિથ્યાર્દષ્ટિ હોવા છતાં પણ તેમનું મિથ્યાત્વ મંદ હતું, કષાય પાતળા હતા, પ્રકૃતિ ભદ્રક
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
=
-