________________
• क्रमिकमोक्षमार्गयात्राविवरणम् •
१४११ प्रकृत्या भद्रकः शान्तो विनीतो मृदुरुत्तमः । सूत्रे मिथ्यादृगप्युक्तः परमानन्दभागतः ।।३२।।
प्रकृत्येति । अतः = उक्तहेतोः सूत्रे = जिनप्रवचने प्रकृत्या = निसर्गेण भद्रको = निरुपमकल्याणमूर्तिः, शान्तः = क्रोधविकाररहितः, विनीतः = अनुद्धतप्रकृतिः, मृदुः = निर्दम्भः, उत्तमः = सन्तोष___ उपसंहरति- 'प्रकृत्येति । भद्रकविशेषणेन विशिष्टपुण्यसम्पन्नत्वमाविष्कृतम् । शान्तः = क्रोधादिविकाररहित इति । प्रकृते → अन्धवत् पश्य रूपाणि, शृणु शब्दमकर्णवत् । काष्ठवत्पश्य ते देहं प्रशान्तस्येति लक्षणम् ।। - (अमृ.ना.१५) इति अमृतनादोपनिषदर्शितं प्रशान्तलक्षणमपि यथातन्त्रमनुयोज्यम् । शान्तादिविशेषणचतुष्टयेनाऽनन्ताऽनुबन्धिकषायचतुष्कहासातिशयो द्योतितः । प्रकृतविशेषणपञ्चकविशिष्टो मिथ्यादृगपि = मिथ्यात्वमोहनीयकर्मपुद्गलसाचिव्यविशेषोपहिताऽऽत्मपरिणामवानपि मित्रादिदृष्टिषु वर्तमानः निरतिशययोगसुखभाजनं = स्वभूमिकोचित-परमकाष्ठाप्राप्त-बन्धुरयोगोपासनाऽऽनन्दभुग् उक्तः । अनादौ संसारे पर्यटयतो जीवस्याऽस्यामवस्थायामागतायां सत्यां परिपक्वप्राया भवितव्यता, क्षीणप्रायमतिक्लिष्टकर्मजालं, अत एव तदा कर्मविवरलभ्यं सर्वज्ञशासनं, सञ्जायते च तत्र चारुताबुद्धिः, प्रवर्तते मनाक्पदार्थजिज्ञासा, प्रवचनलवेऽप्यधिगते विकसितवदनः सम्पद्यते, समुत्पद्यते कुशलकर्मलेशबुद्धिः, हीयते च पौद्गलिकसुखास्था, विमुञ्चति ह्ययं रौद्रतां, रहयति मदाऽन्धता, परित्यजति स्वार्थप्रकर्ष, विजहाति गाढकदर्यतां, शिथिलयति कौटिल्यातिरेकं, न विधत्ते रागोत्कर्ष, अपहस्तयति द्वेषप्रकर्ष, अपाकरोति महामोहदोषम् । ततोऽस्य जीवस्य प्रसीदति मानसं, विमलीभवत्यन्तःकरणं, समुच्छलति प्रज्ञापाटवं, निवर्तते काय-कुटुम्ब-कलत्र-कनकादिभ्यः परमार्थबुद्धिः, समुपजायते चाऽध्यात्मप्रकर्षापयिकतत्त्वाऽभिनिवेशः । एतेन → संनिरुध्येन्द्रियग्रामं राग-द्वेषौ प्रहाय च । भयं हित्वा च भूतानाममृतीभवति द्विजः ।। - (या.स्मृ.३।४।६१) इति याज्ञवल्क्यस्मृतिवचनमपि व्याख्यातम् । प्रकृते च → मार्गानुसारिताया भद्रकभावे प्रवर्तमानस्य । भगवद्दर्शनमेतद् भगवद्बहुमानभावेन ।। भगवदवलोकनेयं प्रोक्ता मार्गप्रणालिका सद्भिः । द्रव्यश्रुताद् विनैनां स्थूलज्ञानं न चाऽऽन्ध्यहरम् ।।
(वै.क.ल. २/६३-६४, वै.रति. १/६३-६४) इति वैराग्यरति-वैराग्यकल्पलताकारिकायुगलमप्यनुसन्धेयम् ।
प्रकृते च → मिथ्यादृष्टयोऽपि परमार्थगवेषणपराः सन्तः पक्षपातं परित्यज्याद्वेषादिगुणस्थाः કરે છે. મોક્ષમાર્ગને અભિમુખ કરવા દ્વારા યોગદષ્ટિઓ યોગીનો મોક્ષની સાથે યોગ કરી આપે છે. કારણ કે ચરમ પુદ્ગલપરાવર્ત કાળમાં જીવની અંદર મોક્ષ માટેની સમુચિત યોગ્યતા હોય છે. અચરમાવર્ત કાળમાં તો ભવ્ય જીવમાં પણ મોક્ષની ફક્ત સ્વરૂપયોગ્યતા જ હોય છે, સમુચિત યોગ્યતા નથી હોતી.(૨૦/૩૧)
હ મિથ્યાષ્ટિ પણ પરમાનંદ પામે છે. ગાથાર્થ :- માટે જ પ્રકૃતિથી ભદ્રક, શાંત, વિનીત, મૂદુ, ઉત્તમ, એવા મિથ્યાદષ્ટિ જીવ પણ પરમાનંદનું ભાન બને છે- એમ આગમમાં જણાવેલ છે. (૨૦/૩૨)
ટીકાર્ય - મિત્રાદિ દષ્ટિઓ પણ જીવને મોક્ષની સાથે જોડી આપે છે. તે કારણે (૧) જે સ્વભાવથી ભદ્રક એટલે કે અદ્વિતીય કલ્યાણમૂર્તિ હોય, (૨) ક્રોધાદિના વિકારથી રહિત હોવાના લીધે શાંત હોય, (3) स्वभावमi Brus डोवाना २९ विनीत डोय, (४) महित डोवाथी भू डोय, (५)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org