________________
• समाहितस्योच्छृङ्खलप्रवृत्त्ययोगः •
१३९७ ___ तथा क्रमेण मित्राद्यनुक्रमेणेक्ष्वादिसन्निभा, दृष्टिः, इक्षु-रस-कक्कब-गुडकल्पाः खल्वाद्याश्चतस्रः कृतेनाऽर्थो न श्रुति-स्मृति-विभ्रमैः । निर्मन्दर इवाऽम्भोधिः स तिष्ठति यथास्थितः ।। - (महो.४/ ४१) इति च महोपनिषद्वचनं, → व्यवहारमिदं सर्वं मा करोतु करोतु वा । अकुर्वन् वाऽपि कुर्वन् वा जीवः स्वात्मरतिक्रियः ।। (अन्न.२/१०) इति → अध्यात्मरतिराशान्तः पूर्णपावनमानसः । प्राप्तानुत्तमविश्रान्तिर्न किञ्चिदिह वाञ्छति ।। - (अन्न.२/२६) इति च अन्नपूर्णोपनिषद्वचनं, → कृतं कृत्यं प्राप्तं प्रापणीयमित्येव नित्यशः । व्यवहारो लौकिको वा शास्त्रीयो वाऽन्यथाऽपि वा ।। ममाऽकर्तुरलेपस्य यथारब्धं प्रवर्तताम् । अथवा कृतकृत्योऽपि लोकाऽनुग्रहकाम्यया ।। शास्त्रीयेणैव मार्गेण वर्तेऽहं मम का क्षतिः ?। - (अवधू.२२/२३/२४) इति च अवधूतोपनिषद्वचनमपि परमार्थत इहैव लब्धाऽधिकारमवसेयम् ।
तथा आयुषि तथाविधकर्मक्षपणादिप्रयोजने च सति धर्मदेशनादिना परोपकारित्वं यथाभव्यं = सम्यग्दर्शन-विरत्यादिपरिणामयोग्यजीवमनुसृत्य भवति । अत एवाऽस्य इषुलक्ष्यक्रियोपमा अवन्ध्या = स्वपरगतफलोपधायिका क्रिया धर्मदेशनादिका केवलिसमुद्घाताऽऽयोज्यकरण-योगनिरोधादिका वा विज्ञेया। → शून्या दृष्टिवृथा चेष्टा विकलानीन्द्रियाणि च । न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरः ।। ___ न जागर्ति न निद्राति नोन्मीलति न मीलति । अहो परदशा क्वापि वर्तते मुक्तचेतसः ।। - (अ.गी.१७/९-१०) इति अष्टावक्रगीतोक्तिरप्यत्रानुयोज्या यथागममागमनिष्णातैः । प्रकृते च → मित्रादृशो लक्षणमस्ति मैत्री, तारादृशो मानसिको विकासः । बलादृशः साधनशक्तिमत्त्वं दीप्रादृशोऽन्तःकरणस्य दीप्तिः।। स्थिरा स्थिरायाः खलु तत्त्वभूमिः, कान्तादृशः साम्यसमुज्ज्वलत्वम् । ध्यानप्रभाभासुरता प्रभायाः, समाधियोगश्च परः परायाः ।। तृण-गोमय-काष्ठहव्यभुक्कणदीपप्रभयोपमीयते । इह रत्न-भ-भानु-चन्द्रमःप्रभया दृष्टिषु दर्शनं क्रमात् ।। खेदादिदोषा इह निर्गतास्तथाऽद्वेषादिका अष्ट गुणाः श्रिताः क्रमात् ।
इत्येवमष्टाङ्गाष्टकमष्टकं दृशां सक्षेपतोऽदीत योगिसम्मतम् ।। (अ.तत्त्वा.३/१३३-१३६) इति न्यायविजयकृता अध्यात्मतत्त्वालोककारिका अप्यनुसन्धेयाः सङ्क्षिप्तरुचिभिः । मिथःषट्स्थानपतितत्वेन सूक्ष्मभेदतोऽनन्तप्रकारा अपि सामान्येन निरुक्तरीत्या योगिनामष्टधा दृष्टिः सम्भवति । तदुक्तं योगदृष्टिसमुच्चये → इयञ्चाऽऽवरणाऽपायभेदादष्टविधा स्मृता । सामान्येन विशेषास्तु भूयांसः सूक्ष्मभेदतः ।। - (यो.दृ.स.१८) इति ।
__ अत्रैव दृष्टिगतसंवेगादिमाधुर्यलक्षणं विशेषमाह- तथा इक्षु-रस-कक्कब-गुडकल्पा यथाक्रमं मधुरतरा आद्याः चतस्रः = मित्रा-तारा-बला-दीपा दृष्टयः भवन्ति । ततोऽपि माधुर्यविशेषोपेता यथाक्रम स्वादुतराः खण्ड-शर्करा-मत्स्यण्ड-वर्षोलकसमाः च अग्रिमाः चतस्रः = स्थिरा-कान्ता-प्रभा-परा दृष्टयो भवन्ति इत्याचार्याः = योगाचार्या वदन्ति, इक्ष्वादीनामेव तथाभवनादिति । रुच्यादिगोचरा एवैता भवन्ति,
ઈક્ષ વગેરે તુલ્ય આઠ દૃષ્ટિઓ છે તથા મિત્રા, તારા વગેરે ક્રમ મુજબ આ યોગદષ્ટિઓ ઈસુ વગેરે તુલ્ય હોય છે. પ્રથમ ચાર યોગદષ્ટિ ક્રમશઃ શેરડી, શેરડીનો રસ, ઈશુરસનો ઉકાળો અને ગોળ સમાન હોય છે. તથા છેલ્લી ચાર દષ્ટિઓ
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org