SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १३९६ • समाधिमग्नस्यानुष्ठानाऽऽवश्यकत्वाऽभावः • द्वात्रिंशिका-२०/२६ विकल्प-रहितं मनः, 'तदभावेनोत्तमं सुखं, आरूढाऽऽरोहेणवन्नाऽनुष्ठानं प्रतिक्रमणादि, परोपकारित्वं, यथाभव्यमवन्ध्या क्रियेति । क्षीणे सङ्कल्पस्य कथा च का ? ।। ← (सं.गी. १० / ७६ ) इति संन्यासगीतावचनमप्यनुयोज्यम् । → लोकसंज्ञामपाकृत्य शास्त्रसंज्ञां तथा पराम् । शुद्धप्रेमणि संलीनः प्रेमवान् राजते सदा ।। ← (प्रे.गी. ३४) इति प्रेमगीतावचनमप्यत्र चरितार्थं भवति । = तदभावेन मयध्रुवात्मस्वभावनिमज्जनलक्षणं सुखं भवति, बृहत्कल्पभाष्यवचनप्रामाण्यात् । प्रकृते वासनासम्परित्यागाच्चित्तं गच्छत्यचित्तताम् । अवासनत्वात् सततं यदा न मनुते मनः || अमनस्ता तदोदेति परमोपशमप्रदा । विज्ञानञ्च प्रवर्धेत सद्यः कैवल्यकारणम् ।। ← ( रा.गी. ६/५३-५४) इति रामगीताकारिके अपि स्मर्तव्ये । मनोनाशी महोदयः ← (मु.२/ ३९, महो.५/९७) इति मुक्तिकोपनिषद् -महोपनिषद्वचनमप्यत्राऽनुसन्धेयम् । तदुक्तं मैत्रायण्युपनिषदि अपि → मानसे च विलीने तु यत् सुखं चाऽऽत्मसाक्षिकम् । तद् ब्रह्म चाऽमृतं ← (मैत्रा. ६ / २४ ) इति, → समाधिनिर्धोतमलस्य चेतसो निवेशितस्याऽऽत्मनि यत् सुखं भवेत् । न शक्यते वर्णयितुं गिरा तदा स्वयं तदन्तःकरणेन गृह्यते । । ← (मैत्रा. ६ / ३४ ) इति च । आनन्दसमुद्रमग्ना योगिनो भवन्ति, तदपेक्षया इन्द्रादयः स्वल्पानन्दाः ← (मं. बा. २ / ५) इति मण्डलब्राह्मणोपनिषद्वचनमपीहैव लब्धाऽधिकारम् । आरूढISS रोहणवद् नाऽनुष्ठानं प्रतिक्रमणादि । पर्वताऽग्रमारूढस्य यथाऽऽरोहणं न शक्यं सप्रयोजनं वा तथाऽस्य प्रतिक्रमणादि विज्ञेयमित्यर्थः । कृतं कर्म परित्यज्य सततं जनवर्जितः । शून्याऽशून्यमयो भूत्वा न किञ्चिदपि चिन्तयेत् ।। ← (शि.गी. १८/३० ) इति शिवगीतावचनं यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च सन्तुष्टः तस्य कार्यं न विद्यते ।। ← (भ.गी. ३ / १७) इति भगवद्गीतावचनम्, तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति । न मुञ्चति न गृह्णाति न हृष्यति न कुप्यति ।। ← ( अ.गी. ८ / २) इति च अष्टावक्रगीतावचनमपि अस्यां दशायां तात्पर्यवृत्त्या परिणतं भवति । प्रकृते फलतृष्णां विहाय स्यात् सदा तृप्तो विसाधनः । उद्युक्तोऽपि क्रियां कर्तुं किञ्चिन्नैव करोति सः ।। ← ( ग.गी. ३ / २६ ) इति गणेशगीतावचनमपि यथातन्त्रमनुयोज्यम् । → ज्ञानामृततृप्तयोगिनो न किञ्चित्कर्तव्यमस्ति । तदस्ति चेत् ? न स तत्त्वविद् भवति ← (पै.४/ ९) इति पैङ्गलोपनिषद्वचनं ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । न चाऽस्ति किञ्चित् कर्तव्यमस्ति चेत् ? न स तत्त्ववित् ।। ← (जा.द.१/२३) इति जाबालदर्शनोपनिषद्वचनं नाऽकृतेन = अनुभूयमाननिरुपाधिकपूर्णानन्द विकल्पत्वावच्छिन्नप्रतियोगिताकाऽभावेन हेतुना उत्तमं निव्विकप्पसुहं सुहं ← (बृह. भा. ५७१७ ) इति વિકલ્પ ન હોવાના કારણે તેમને ઉત્તમ સુખ હોય છે. જેમ કોઈ પર્વત વગેરે ઉપર ચઢી ગયો હોય તેને તે પર્વત વગેરે ઉપર ફરીથી ચઢવાનું નથી હોતું. તેમ અતિચાર વગેરે દોષોની શુદ્ધિ થઈ ગયેલી હોવાના કારણે તેને પ્રતિક્રમણાદિ કરવાની જરૂર નથી હોતી. આ દૃષ્ટિમાં રહેલા યોગીઓ યોગ્યતા મુજબ પરોપકારની પ્રવૃત્તિ કરે છે. તથા એમની ક્રિયા અમોઘ હોય છે. १. प्राचीनमुद्रितप्रतौ तदा भावेनो...' इत्यशुद्धः पाठः । हस्तादर्शे तु 'तदभावैनो' इत्यशुद्धः पाठः । २. प्राचीन '...णवभा (तोऽ) नुष्ठानं' इत्यशुद्धः पाठः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy