________________
• परायां सङ्कल्प-विकल्पोच्छेदः
१३९५
औचित्ययोगो विनेयेषु तथाऽवन्ध्या सत्क्रियेति ।
( ८ ) परा तु दृष्टिश्चन्द्राऽऽभा', तदवबोधश्चन्द्रचन्द्रिकाभास्समानः, सद्ध्यानरूप एव सर्वदा, सम्भवति, चरमतीर्थकरस्य चण्डकौशिकानुग्राहकत्वमिव । एतेन आत्मशक्तिप्रकाशार्थं योगिना यद् विधीयते । परार्थं तत् प्रबोद्धव्यं गताः स्वार्थाः परार्थताम् ।। ← ( म.गी. ३ ।६८) इति महावीरगीतावचनमपि व्याख्यातम् ।
यदि विनेयास्सन्ति तर्हि औचित्ययोगो वाचनाप्रदानादिलक्षणो विनेयेषु । एतावता च जिनकल्पिकपरिहारविशुद्धि-यथालन्द-प्रतिमाप्रतिपन्नमुनीनामिव स्थविरकल्पिनामपि केषाञ्चित् परिपक्वज्ञानयोगानामियं प्रभा दृष्टिस्सम्भवतीति सूचितम् । तथा अवन्ध्या = परिपूर्णफलोपधायिका स्वभूमिकोचिता शक्त्यनिगूहनेनाऽसङ्गभावेन च प्रतिलेखन- प्रमार्जनेर्यासमिति - गुप्त्यादिलक्षणा सत्क्रिया भवति । इतिः समाप्त्यर्थे।
(८) प्रभाऽभ्यासप्रकर्षोत्तरकालीना काष्ठाप्राप्तप्रकर्षान्विततया यथार्थाभिधानाऽष्टमी दृष्टिः परा भवति । चरमा हि सा तु दृष्टिः चन्द्राभा भवति, सौम्यत्वाऽऽह्लादकत्व-परिपूर्णत्व-शैत्यादिसाधर्म्यात् । तदवबोधः काष्ठाप्राप्तशान्त-स्थिर-ध्रुव-शुद्धा सङ्गचैतन्यमयतया सद्ध्यानरूप एव सर्वदा भवति । → ग्राह्य-ग्राहकसम्बन्धे क्षीणे शान्तिरुदेत्यलम् । स्थितिमभ्यागता शान्तिर्मोक्षनाम्नाऽभिधीयते ।। ← (बृ.सं. २ / ४२ ) इति बृहत्संन्यासोपनिषत्प्रतिपादितमोक्षाऽऽ सन्नवर्तित्वेन → सर्वेच्छारोधनाच्छान्तहृदि सुखं प्रकाशते । शुभाऽशुभमनोवृत्ते रोधादात्मा भवेत् प्रभुः ।। ← ( अध्या.गी. ४९ ) सर्वजातीयसङ्कल्प-विकल्पस्य निरोधतः । आत्मशान्तिर्भवेत्पूर्णा नाऽन्यथा कोटियत्नतः ।। ← ( अ.गी. ३९४ ) यत्र तर्का न गच्छन्ति यत्र नैव मनोगतिः । रागद्वेषलयो यत्र तत्राऽऽत्मा जायते प्रभुः ।। ← (अ.गी. ३७८) इति अध्यात्मगीतावचनतात्पर्यपरिणमनेन च कृत्स्ननिर्विकल्पदशाऽऽरूढतयैतद्दृष्टिशालिनो विकल्परहितं मनो भवति । → मनोऽपि जायते नूनं सम्यग् भर्जितबीजवत् ← (शं.गी.६ / १५५ ) इति शम्भुगीतावचनमप्यत्रैव लब्धाऽवकाशं परमार्थतो द्रष्टव्यम् । प्रकृते यस्य सङ्कल्पनाशः स्यात् तस्य मुक्तिः करे स्थिता ← (मं. बा. २ / ३ ) इति मण्डलब्राह्मणोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।
इत्थञ्च → स्वरूपाऽनुसन्धानं विनाऽन्यथाऽऽचारपरो न भवेत्, तदाचारवशात् तत्तल्लोकप्राप्तिर्ज्ञानवैराग्यसम्पन्नस्य स्वस्मिन्नेव मुक्तिरिति न सर्वत्राऽऽचारप्रसक्तिः ← (ना. परि. ५/१०) इति नारदपरिव्राजकोपनिषद्-वचनमप्यत्रैव परमार्थतो लब्धाऽधिकारमवगन्तव्यम् । संसारमुक्तिगोचरविकल्पस्यापि विरहे तत्कामना तु सुतरां न वर्ततेऽत्र, मोक्षे भवे च सर्वत्र निस्पृहोऽयं सदाशयः ← ( ) इति वचनात् । एतेन मोक्षेऽपि मोहादभिलाषदोषो विशेषतो मोक्षनिषेधकारी ← (पद्म. पं. १/५५) इति पद्मनन्दिपञ्चविंशिकावचनमपि व्याख्यातम् । प्रकृते कार्योदये नैति मुदं कार्यनाशे न खिद्यते । आमूलान्मनसि છે. શિષ્યો ઉપર ઔચિત્ય મુજબ પ્રવૃત્તિ કરે છે. તથા તેમની સુંદર ક્રિયા અમોઘ હોય છે.
(૮) પરાષ્ટિ ચંદ્રસમાન છે. પરા ષ્ટિમાં રહેલા યોગીનો બોધ ચંદ્રની ચાંદની સમાન હોય છે. તે બોધ સર્વદા સધ્યાન સ્વરૂપ જ છે. તેમનું મન વિકલ્પરહિત હોય છે.
१. मुद्रितप्रतौ ‘विनयेषु' इत्यशुद्धः पाठः । २. हस्तादर्शे '...चभा' इति त्रुटितोऽशुद्धश्च पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org