________________
द्वात्रिंशिका - २०/२६
• प्रभायां शास्त्रभारापगमः •
१३९४
प्रशमसारं सुखमिह, अकिञ्चित्कराण्यत्राऽन्यशास्त्राणि, समाधिनिष्ठमनुष्ठानं, तत्सन्निधौ वैरादिपरानुग्रहकर्तृता,
नाशः,
निर्विकल्पदशाऽऽरोहणेन विकल्पदशायाः क्षीयमाणत्वात् । प्रकृते नाऽध्येतव्यं न वक्तव्यं न श्रोतव्यं कदाचन । एवं ज्ञानपरो योगी ब्रह्मभूयाय कल्पते ।। ← ( सं . गी. ६ /१०१) इति संन्यासगीतावचनमपि यथागममनुयोज्यम् । → शास्त्रसंज्ञां तथा लोकसंज्ञां कीर्त्यादिवासनाम् । नाम-रूपादिमोहं च त्यक्त्वाऽऽत्मनि तो भव ।। ← (अध्या.गी. ५६ ) इति अध्यात्मगीतावचनमप्यस्यां लब्धाऽधिकारं भवति । प्रशमसारं प्रकृष्टोपशमरसप्रधानं परिशुद्धनैश्चयिकाऽखण्डरत्नत्रयगोचराऽपरोक्षाऽनुभवोपस्थापितं सुखं इह प्रभायां वर्तते, रागादिविभावदशायाः क्षीणत्वात् ।
अत एव अत्र दृष्टौ अन्यशास्त्राणि अकिञ्चित्कराणि तल्लभ्यस्योपलब्धत्वात्, तत्सीमाऽतिक्रान्तप्रायत्वाच्च । → न तर्कं पठेत्, न शब्दमपि, बृहच्छब्दान्नाऽध्यापयेत् ← ( ना. परि. ५ / ९) इति नारदपरिव्राजकोपनिषद्वचनं, → अमृतेन तृप्तस्य पयसा किं प्रयोजनम् ? । एवं स्वात्मानं ज्ञात्वा वेदैः प्रयोजनं किं भवति ? ← (पै.४/९) इति पैङ्गलोपनिषद्वचनं, भारो विवेकिनः शास्त्रं ← (महो. ३/१५) इति च महोपनिषद्वचनं, पतिताः शास्त्रजालेषु प्रज्ञया तेन मोहिताः । स्वात्मप्रकाशरूपं तत् किं शास्त्रेण प्रकाश्यते ? ।। ← (यो . शि. ५ ) इति योगशिखोपनिषद्वचनं, स्वरूपाऽनुसन्धानव्यतिरिक्ताऽन्यशास्त्राऽभ्यास उष्ट्रकुङ्कुमभारवद् व्यर्थः । न योगशास्त्रप्रवृत्तिः । न साङ्ख्यशास्त्राभ्यासः । न मन्त्रतन्त्रव्यापारः । नेतरशास्त्रप्रवृत्तिर्यतेरस्ति ← ( सं . उप. १/५९) इति संन्यासोपनिषद्वचनं, लोकाऽनुवर्तनं त्यक्त्वा त्यक्त्वा देहाऽनुवर्तनम् । शास्त्राऽनुवर्तनं त्यक्त्वा स्वाऽध्यासाऽपनयं कुरु ।। ← (अक्ष्यु. ४३/ अध्या.३) इति अक्ष्युपनिषदऽध्यात्मोपनिषदोः वचनं शास्त्रेण न स्यात् परमार्थदृष्टिः कार्यक्षमं पश्यति चाऽपरोक्षम् ← (वरा.२/६९) इति पूर्वोक्तं (पृ.११३९) वराहोपनिषद्वचनं, ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः । पलालमिव धान्यार्थी त्यजेद् ग्रन्थमशेषतः ।। ← ( त्रिपु . ५ / १८) इति च त्रिपुरातापिन्युपनिषद्वचनं नाऽनुध्यायाद् बहून् शब्दान् वाचो विग्लापनं हि तत् ← (शा. २३, वरा.४/३३) इति शाट्यायनीयोपनिषद्-वराहोपनिषदोश्च वचनं परमार्थत इहैवाऽधिकृतमित्यवगन्तव्यम् । प्रकृते → तथा दानं तपो वेदाऽध्ययनं चाऽन्यकर्म वा । सहस्रांशं तु नाऽर्हन्ति सर्वदा ध्यानकर्मणः ।। ← (शि.गी. १६/ १३) इति शिवगीतावचनमप्यनुयोज्यं यथातन्त्रम् ।
केवलं समाधिनिष्ठं प्रकृष्टसम्प्रज्ञातसमाधिविश्रान्तं स्वभूमिकोचितं कायोत्सर्गादिलक्षणं अनुष्ठानं भवति । भिक्षाटनादिक्रियाऽपि नाऽत्र समाधिभङ्क्त्री भवति, परिपक्वध्यानयोगाऽऽरूढत्वात् । तदुक्तं अध्यात्मसारे → देहनिर्वाहमात्रार्था याऽपि भिक्षाटनादिका । क्रिया सा ज्ञानिनोऽसङ्गान्नैव ध्यानविघातिनी । । ← ( अ.सा. १५/११ ) इति । अत एव तत्सन्निधौ = प्रकृतदृष्टिसम्पन्नस्य योगिनः सन्निधाने वैरादिनाशः इत्थं पराऽनुग्रहकर्तृता कर्तृत्व-भोक्तृत्वदशाशून्यत्वेऽप्यसङ्गभावेनैव यथोचितपरहितार्थसम्पादनमपि
=
=
=
છે. તે બોધ સર્ધ્યાનનો જ સર્વદા હેતુ હોય છે. અહીં પ્રાયઃ વિકલ્પને અવસર નથી હોતો. અહીં પ્રશમભાવની મુખ્યતાવાળું સુખ હોય છે. આ દિષ્ટમાં અન્ય શાસ્ત્રો અકિંચિત્કર હોય છે. તેમનું અનુષ્ઠાન સમાધિનિષ્ઠ હોય છે. તેમના સાન્નિધ્યમાં વૈરાદિનો નાશ થાય છે. તેઓ બીજા જીવો ઉપર અનુગ્રહ કરે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org