________________
• कान्तायां शुद्धोपयोगानुसारिक्रिया •
१३९३ (६) कान्ता तु ताराऽऽभा, तदवबोधस्ताराभास्समानः । अतः स्थित एव प्रकृत्या । निरतिचारमत्राऽनुष्ठानं शुद्धोपयोगाऽनुसारि विशिष्टाऽप्रमादसचिवं विनियोगप्रधानं गम्भीरोदाराशयमिति । (७) प्रभाऽर्काऽऽभा, तदवबोधस्तरणिभास्समानः, सद्ध्यानहेतुरेव सर्वदा, नेह प्रायो विकल्पावसरः, यदपि गोपेन्द्रेण निवृत्ताधिकारायां प्रकृतौ धृतिः, श्रद्धा, सुखा, विविदिषा, विज्ञप्तिरिति तत्त्वधर्मयोनयः ← (ललितविस्तरा पृ. ४९ ) इत्युक्तं तदपि आद्य दृष्टिपञ्चके ललितविस्तरानुसारेण योज्यम् । तथाहि- मित्रायां निःश्रेयसधर्मभूमिकारूपमार्गबहुमानादिगुणनिबन्धनभूता धृतिः सम्पद्यते भगवतश्च तदा तेषु तत्त्वतोऽभयदातृत्त्वम् । तारायां तत्त्वावबोधनिबन्धना श्रद्धा धृतिजन्या सज्जायते भगवतश्च परमार्थतः तान् प्रति चक्षुर्दातृत्वम् । बलायां दृष्टौ धृति - श्रद्धाजन्या विविदिषादिजननी निर्दोषा सुखासिकाऽऽविर्भवति भगवतश्च वस्तुतो मार्गदातृत्वम् । दीप्रायां दृष्टौ भयार्त्तसमाश्वासस्थानकल्पा तत्त्वचिन्तनरूपाऽध्यवसायात्मिका विविदिषा प्रादुर्भवति भगवतश्चार्थगत्या दीप्रायामवस्थितान् प्रति शरणदातृत्वम् । स्थिरायां च दृष्टौ धृतिश्रद्धा-सुखाद्युपहिता सम्यग्दर्शनात्मिका विज्ञप्तिरुपपद्यते भगवतश्चेह स्थितान् जीवानधिकृत्य भावतो बोधिदातृत्वमिति सूक्ष्ममीक्षणीयम् ।
=
(६) षष्ठी कान्ता दृष्टिः ताराभा । तदवबोधः एतदृष्टिवर्तिजीवबोधः ताराभास्समानो भवति । अतः अस्मात् कारणात् स्थित एव प्रकृत्या = स्वभावतः । निरतिचारं अत्र = कान्तायां दृष्टौ अनुष्ठानं = स्वगुणस्थानकयोग्याऽनुष्ठानाऽऽसेवनं, उदग्रौचित्य - विवेकदृष्टि-यतनावरणकर्मक्षयोपशमादितः। अंशतोऽप्यप्रशस्तकषायराहित्येन शुद्धोपयोगानुसारि केवलनिर्विकल्पाऽसङ्गसाक्षिमात्रशुद्धज्ञायकस्वभावानुसारि तदनुष्ठानं भवति । तदपि विशिष्टाऽप्रमादसचिवं निद्रा-विषय- कषायादिप्रमादरहितशास्त्राज्ञाशुद्धाऽसङ्गप्रयत्नसहायं, विनियोगप्रधानं स्वात्मतुल्यपरफलकर्तृत्वाऽऽशयमुख्यं भवति यतः तद् गम्भीरोदाराशयं = गम्भीरोदाराशयप्रयुक्तमिति। गम्भीरोदाराशयप्रयुक्तत्वादेवेदमनुष्ठानं विनियोगप्रधानमिति भावः । (७) विशदतरविवेकोपेतकान्ताऽभ्यासप्रकर्षवशाज्जायमाना प्रकृष्टचैतन्यप्रकाशशालितया यथार्थाऽभिधाना सप्तमी प्रभा दृष्टिः अर्काऽऽभा भवति । प्रकृते विवेकेनाऽऽत्मनोऽज्ञानं येषां नाशितमात्मना । तेषां विकाशमायाति ज्ञानमादित्पवत्यरम् ।। ← ( ग.गी. ४ / १५ ) इति गणेशगीतावचनमपि योज्यम् । तदवबोधः तरणिभास्समानः = सूर्यप्रकाशतुल्यः सन् सद्ध्यानहेतुरेव सर्वदा भवति, शुद्धात्मद्रव्योत्थितस्य शुद्धात्मद्रव्यग्रहणप्रवणप्रकृष्टस्पर्शज्ञानीयाऽस्खलितप्रवाहस्य शुद्धचैतन्यरूपेण परिणतस्य सदा धर्म-शुक्लध्यानोपनायकत्वात् । तदुक्तं षोडशके स्पर्शस्त्वक्षेपतत्फलः ← ( षो. १२/१५)। अन्तर्मुहूर्त्तात् परतो विवक्षितध्यानोपरमे तु चिन्तन - भावनाऽनुप्रेक्षादौ चित्तं विश्राम्यति, तदनु पुनर्ध्यानान्तराऽऽरोहणे प्रवर्तते । अत एव न इह प्रभायां प्रायो विकल्पाऽवसरः ध्यानाऽनुपयोगिसङ्कल्प-विकल्पाऽवकाशः,
(૬) કાન્તાદૃષ્ટિ તારા સમાન હોય છે. છઠ્ઠી યોગદૃષ્ટિમાં રહેલા યોગીનો બોધ તારાની કાંતિ સમાન કાંત = તેજસ્વી હોય છે. માટે સ્વભાવથી જ તેનો બોધ સ્થિર જ હોય છે. કાંતાદૃષ્ટિમાં અનુષ્ઠાન નિરતિચાર, શુદ્ધ ઉપયોગને અનુસરનારું, વિશિષ્ટ પ્રકારના અપ્રમત્તભાવની સહાયતાવાળું, વિનિયોગની મુખ્યતાવાળું તેમ જ ગંભીર-ઉદાર આશયવાળું હોય છે.
(૭) પ્રભા દૃષ્ટિ સૂર્ય જેવી હોય છે. આ દિષ્ટમાં રહેલા યોગીનો બોધ સૂર્યની પ્રભા સમાન હોય १. 'तु' पदं मुद्रितप्रतौ नास्ति ।
Jain Education International
=
=
=
-
For Private & Personal Use Only
www.jainelibrary.org