________________
• जटाविच्छेदनिर्देश: •
१३९१
(५) स्थिरा च भिन्नग्रन्थेरेव सा च रत्नाऽऽभा, तदवबोधो हि रत्नभास्समानः, तद्भावोऽप्रतिपाती समरादित्यकथायां तहाभव्वयाए असोयाईण विचित्तयाए कम्मपरिणामस्स, कुमारसन्निहाणसामत्थेण, विसुद्धयाए जोयाण, उक्कडयाए वीरियस्स वियम्भिओ कुसलपरिणामो, वियलिओ किलिट्ठकम्मरासी, अवगया मोहवासणा, तुट्टा असुहाणुबंधा, जाओ कम्मगण्ठिभेओ, खओवसममुवगयं मिच्छत्तं, आविहूओ सम्मत्तपरिणामो ← (स.क.भव / ९ पृ.८७९) इति यदुक्तं तदत्राऽपि योजनीयम् । दर्शितगुणानामसाधारणत्वाद्युज्यत एतत् । अत एवोक्तं धर्मबिन्दो भवन्ति त्वल्पा अप्यसाधारणगुणाः कल्याणोत्कर्षसाधकाः ← (ध. बिं. ४ / २१ ) इति पूर्वोक्तं (पृ. ८३०) भावनीयम् । एतेन अत्यल्पोऽपि यथा दीपः सुमहन्नाशयेत्तमः । योगाभ्यासस्तथाऽल्पोऽपि महापापं विनाशयेत् ।। ← (शि.पु.वायुसंहिता-२६) इति शिवपुराणवचनमपि व्याख्यातम् । यदपि संयुक्तनिकाये देवतासंयुक्ते शक्तिवर्गे जटासूत्रे
सीले पतिट्ठाय नरो सपञ्ञ चित्तं पञ्ञञ्च भावयं । आतापी निपको भिक्खु सो इमं विजटये जटं । । येसं रागो च दोसो च अविज्जा च विराजिता । खीणासवा अरहन्तो तेसं विजटिता जटा ।। यत्थ नामञ्च रूपञ्च असे उपरुज्झति । पटिघं रूपसञ्ञा च एत्थेसा छिज्जते जटा || ← (सं.नि. १ । १ । ३ ।३ । २३ पृ. १६ ) इति सुगतेनोक्तं तदप्यत्राऽतिगम्भीरधियाऽनुयोज्यं ग्रन्थिभेदकामिभिः बहुश्रुतैः । पञ्ञञ्च प्रज्ञां च, आतापी तपस्वी, निपको विवेकशीलः, विजये विघटयेत्, ट जटां ग्रन्थिमिति यावत्, विराजिता विशोषिताः, पटिघं प्रतिहिंसा, शिष्टं स्पष्टम् । एतद्रहस्यं तु द्वाविंशतितमद्वात्रिंशिकायां ( द्वा. २२ / २४ पृ. १५२५) दर्शयिष्यामः ।
=
=
=
=
(५) साम्प्रतं पञ्चमी दृष्टिः स्थिरा उच्यते, हेयोपादेयगोचरसूक्ष्मविवेकस्थैर्यात् । सा च भिन्नग्रन्थेरेव भवति, तस्या ग्रन्थिभेदोपहितत्वात् । इत एवाऽऽरभ्य शुद्धात्मतत्त्वगोचरो व्यक्तः स्वाऽनुभवप्रकाश उपजायते क्रमशो वर्धते विशुध्यति चाऽग्रे । तदुक्तं अध्यात्मगीतायां सम्यग्दृष्टिमनुष्याणां स्वानुभवः प्रकाशते । तदुत्तरे गुणस्थाने विशेषतारतम्यता ।। ← (अध्या. गी. ३०९) इति । अत एव च सा रत्नाभा भवति । तदवबोधः = भिन्नग्रन्थेरवबोधो हि रत्नभास्समानः । यथा स्नेहपरिवर्धिताऽपि दीपप्रभा पवनादिना कम्पते, स्नेहं हरति उत्तपते, मलिनीभवति फुत्कारेण च विलीयते तथा नायमिति रत्नप्रभातुल्यो भवति । प्रकृते → मरुद्भिः पीड्यमानोऽपि संत्यक्तोऽपि दिवानिशम् । विषयस्नेहरहितो रत्नदीपः प्रकाशते ।। ← (सु. नी. ७/७ ) इति सुभाषितनीविवचनं नोत्तपते न स्नेहं हरति न निर्वाति न मलिनो भवति । तस्योज्ज्चलो निशि निशि प्रेमा रत्नप्रदीप इव ।। ← ( आ.श.३१७) इति आर्यासप्तशतीवचनं अपेक्षन्ते न च स्नेहं न पात्रं न दशान्तरम् । सदा लोकहिते रक्ता रत्नदीपा इवोत्तमाः ।। ← ( शां. प . १३/५, सु. ल. पृ.१०६) इति शार्ङ्गधरपद्धति-सुभाषितसुधानन्दलहर्योः वचनं च यथागमं योजनीयम् । एतेन → अपेक्षन्ते न पात्राणि न स्नेहं न दशान्तरम् । सदा लोकहिताऽऽसक्ता रत्नदीपा इवोत्तमाः ।। ( ) ← इत्यपि व्याख्यातम्। तद्भावः = सम्यग्दृष्टिपरिणामो हि अप्रतिपाती, आध्यात्मिकप्रतिपातोपनायकविशिष्टाऽभिनवकर्मबन्धानुपार्जनात् । प्राक्कृतकर्मोदयतः प्रतिपातसम्भवेऽपि सम्यक्त्वोपस्थितिकालीन
=
=
=
(૫) પાંચમી સ્થિરા નામની યોગદૃષ્ટિ ગ્રંથિભેદને કરનારા સમ્યગ્દષ્ટિ જીવોને જ હોય છે. તે રત્ન જેવી છે પાંચમી દૃષ્ટિવાળા યોગીનો બોધ રત્નની પ્રભા જેવો સ્થિર હોવાથી તેનું નામ સ્થિરા દૃષ્ટિ છે. પાંચમી ષ્ટિવાળા યોગીઓનો ભાવ અપ્રતિપાતી હોય છે, વર્ધમાન હોય છે, આધ્યાત્મિકવિઘ્નશૂન્ય
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org