________________
१३९०
• सम्यग्दर्शनान्तरङ्गोपायदर्शनम् • द्वात्रिंशिका-२०/२६ वस्तुतस्तु व्यक्तगुणस्थानमपुनर्बन्धकदशायां तादृशकुशलाऽनुष्ठानयुक्तत्व एवाऽङ्गीक्रियते नयविशेषाभिप्रायेण । इदमेवाभिप्रेत्य हरिभद्रसूरिभिः ब्रह्मसिद्धान्तसमुच्चये → अपुनर्बन्धको यस्माद् गुणस्थानकमेव हि । मिथ्यादृष्टिरपि ह्युक्तः स च तादृक्रियान्वितः ।। (ब्र.सि.स. ५४) इत्युक्तम् । एतेन → मिथ्यादृष्टीनामपि माध्यस्थ्यादिगुणमूलकमित्रादिदृष्टियोगेन गुणस्थानकत्वसिद्धेः - (ध.सं.१८/ पृ.४५) इति धर्मसङ्ग्रहवृत्तिकृद्वचनमपि व्याख्यातम् ।
दीप्रायां दृष्टाववस्थितेन योगिना → 'भासा-मइ-बुद्धि-'विवेग-"विणयकुसलो 'जियक्ख गंभीरो । 'उवसमगुणेहिं जुत्तो निच्छय-ववहारनयनिउणो ।। १°जिण-गुरु-सुयभत्तिरओ ११हिय-मियपियवयणपिरो धीरो१२ । संकाइदोसरहिओ१३ अरिहो सम्मत्तरयणस्स ।। ८ (द.शु. २५०/२५१) इति दर्शनशुद्धिप्रकरणप्रदर्शितानि त्रयोदशगुणरत्नानि समुपादीय, सिद्धर्षिगणिदर्शितरीत्या सततं → अवधीरणीयो भवप्रपञ्चः, आराधनीयो विलीनरागद्वेषमोहोऽनन्तज्ञानदर्शनवीर्यानन्दपरिपूर्णः परमात्मा, वन्दनीयास्तदुपदिष्टमार्गवर्तिनो भगवन्तः साधवः, प्रतिपत्तव्यानि जीवाऽजीव-पुण्य-पापाऽऽश्रव-संवर-निर्जरा-बन्ध-मोक्षलक्षणानि नवतत्त्वानि, सर्वथा पेयं जिनवचनाऽमृतं, नेयं तदङ्गाऽङ्गीभावेन, अनुष्ठेयमात्महितं, उपचेयं कुशलं, विधेयं निष्कलङ्कमन्तःकरणं, हेयं कुविकल्पजल्पजालं, अवसेयं भगवद्वचनसारं, विज्ञेयं रागादिदोषवृन्दं, लेयं सुगुरुसदुपदेशभेषजं, देयं सततं सदाचरणे मानसं, अवगेयं दुर्जनप्रणीतकुमतवचनं, निमेयं महापुरुषवर्गमध्ये स्वरूपं, स्थेयं निष्पकम्पचित्तेन - (उपमितिभव. भा.२/प्रस्ताव-७/पृ.२२०) इति ।
इत्थञ्च चतुर्दशपूर्वधरसमरादित्यवाचकोक्तरीत्या (हरिभद्रसूरिकृत समरादित्यकथाभव ९/पृ.९४७) वीतरागादिदर्शनेन, विशुद्धधर्मश्रवणेन, गुणाधिकसङ्गमेन, पक्षपातेन गुणेषु, तथाभव्यतानियोगेन, अनुकम्पादिभावनया, पूर्वोक्तेभ्यः (पृ.१७८,६२६,१३८८) → अणुकंपऽकामणिज्जर-बालतवे दाण-विणय-विब्भंगे। संयोग-विप्पओगे वसणुसवइड्ढि-सक्कारे ।। अब्भुट्ठाणे विणए, परक्कमे साहुसेवणाए य । संमद्दसणलंभो, विरयाविरईइ विरइए।। - (आ.नि.८४५,८४८) इति आवश्यकनियुक्तिदर्शितेभ्यः यस्य कस्यचिदपि निमित्तस्य सम्यक्परिणमने, → आदे हि कम्मगंठी जा बद्धा विसयरागरागेहिं । तं छिन्दन्ति कयत्था तव-संजम-सीलगुणेन ।। - (शी.प्रा. २७) इति शीलप्राभृतदर्शितरीत्या तपश्चर्यादिसचिवस्य, → दिढे सुएऽणुभूए कम्माण खए कए उवसमे अ । मण-वयण-कायजोगे अ पसत्थे लब्भए बोही ।। 6 (आ.नि.८४४) इति आवश्यकनियुक्त्यनुसारेण प्रशस्तयोगादौ प्रवृत्तस्य, कर्मप्रकृतिवृत्त्यनुसारेण जघन्येन तेजोलेश्यायां, मध्यमपरिणामेन पद्मलेश्यायां, उत्कृष्टपरिणामेन च शुक्ललेश्यायां वर्तमानस्य, (क प्रकृति. उपशमनाकरण-गा.४ मलय.वृ.) यद्वा अवस्थितकृष्णादिद्रव्यरूपां द्रव्यलेश्यामधिकृत्य तु → सम्मत्तसुयं सव्वासु लहइ (आ.नि.८२२) इति आवश्यकनियुक्तिवचनात् सर्वासु लेश्यासु वर्तमानस्य, सूक्ष्मेषु आत्मपरिणामविशेषरूपेषु (आचाराङ्ग ११२ वृत्ति) अध्यवसायेषु अनुभागबन्धस्थानाऽपराभिधानेषु (पञ्चसङ्ग्रह द्वार-२) प्रशस्तेषु समवस्थितस्य, विशिष्टकर्मक्षयोपशमतो दुर्भेदभावकर्मग्रन्थिभेदद्वारेण वक्ष्यमाणा स्थिरा दृष्टिः सम्पद्यते।
समरादित्यराजकुमारोपदेशश्रवणे तन्मित्राणामशोकादीनां सम्यक्त्वोत्पादावसरे श्रीहरिभद्रसूरिभिः પરંતુ આ દ્રવ્યઅનુષ્ઠાન પ્રધાન હોય છે, અપ્રધાન નહિ. વચનાનુષ્ઠાનની ભૂમિકા ન હોવાથી આ દૃષ્ટિમાં ભાવઅનુષ્ઠાન માન્ય નહિ હોય એમ જણાય છે. પ્રથમ ગુણસ્થાનકે રહેલા જીવના આધ્યાત્મિક ગુણવિકાસની પરાકાષ્ઠા ચોથી દીપ્રા દૃષ્ટિમાં હોય છે. એવું શાસ્ત્રજ્ઞોનું કથન છે.)
Jain Education International
For Private & Personal use only
www.jainelibrary.org