________________
• दीप्रायां शुभानुबन्धिसकामनिर्जरासिद्धिः
प्रथमगुणस्थानकप्रकर्ष' एतावानिति समयविदः ।
प्रत्यक्षत्वात् कुतीर्थिकैर्गृहस्थैश्च कार्यत्वाच्चेति (यो . शा. ४ / ८९ वृत्ति) । तथा- 'लोकप्रतीतत्वात्कुतीर्थिकैश्च स्वाभिप्रायेणाऽऽसेव्यत्वाद् बाह्यत्वमिति (उत्त. ३० / ७ बृ.वृ.) त्रिंशत्तमोत्तराध्ययनचतुर्दशसहस्त्रीवृत्तौ । एतदनुसारेण षड्विधबाह्यतपसः कुतीर्थिकाऽऽ सेव्यत्वमुक्तं परं सम्यग्दृष्टिसकामनिर्ज्जरापेक्षया तेषां स्तोका भवति, यदुक्तं भगवत्यष्टमशतकदशमोद्देशके 'देसाराहए' (भ.सू. ८/१० / ३५३ ) इति । 'बालतपस्वी स्तोकमंशं मोक्षमार्गस्याऽऽराधयतीत्यर्थः, सम्यग्बोधरहितत्वात्क्रियापरत्वाच्चेति ( भगवतीवृत्ति-८/१०/३५३) तया च मोक्षप्राप्तिर्न भवति, स्तोककर्म्माशनिर्ज्जरणात्, भवत्यपि च भावविशेषाद् वल्कलचीर्यादिवत् । यदुक्तं “आसंबरो अ सेयंबरो अ बुद्धो य अहवा अन्नो वा । समभावभाविअप्पा, लहेइ मुक्खं न संदेह ।।” ( सम्बोधप्रकरण - २ ) ← इति (से. प्र. उल्लास ४ / प्रश्न - १०५ ) ।
प्रकृते दीप्रायां दृष्टौ शुभाऽनुबन्धशालिप्रबलसकामनिर्जराऽनभ्युपगमे से णं तेणं विब्भंगनाणेणं समुप्पन्नेणं जीवे वि जाणइ, अजीवे वि जाणइ, पासंडत्थे सारंभे सपरिग्गहे संकिलेसमाणे विजा विसुज्झमाणे वि जाणइ । से णं पुव्वामेव सम्मत्तं पडिवज्जइ, सम्मत्तं पडिवज्जित्ता समणधम्मं रोएति, समणधम्मं रोएत्ता चरित्तं पडिवज्जइ, चरित्तं पडिवज्जित्ता लिंगं पडिवज्जइ । तस्स णं तेहिं मिच्छत्तपज्जवेहिं परिहायमाणेहिं परिहायमाणेहिं, सम्मद्दंसणपज्जवेहिं परिवड्ढमाणेहिं परिवड्ढमाणेहिं से विब्भंगे अन्नाणे सम्मत्तपरिग्गहिए ओही परावत्तइ ← ( भग. ९ / ४ / ३६६ ) इति भगवतीसूत्रवचनप्रबन्धोऽपि अश्रुत्वा केवलिप्रकरणगतो नोपपद्येत । ततश्चैतत्सर्वं काव्यप्रकाश-ध्वन्यालोकादिदर्शितेन 'सोऽयमिषोरिव दीर्घ-दीर्घतरो व्यापारः' (का.प्र.५/४७, ध्व . १ / ४ ) इतिन्यायेन गम्भीरधियाऽऽद्ययोगदृष्टिचतुष्टये यथागममनुसन्धेयम् ।
इत्थञ्च प्रधानद्रव्याऽऽज्ञायोगप्रकर्षोऽप्यत्रैव विश्राम्यति, प्रथमगुणस्थानकलभ्यप्रकृष्टबोधभावादिति प्रथमगुणस्थानकप्रकर्ष एतावानिति समयविदः = जिनागमवेदिनो व्याचक्षते । प्रकृते गुणा ज्ञानदर्शन-चारित्ररूपा जीवस्वभावविशेषाः, स्थानं पुनरेतेषां शुद्धयशुद्धिप्रकर्षाऽपकर्षकृतः स्वरूपभेदः, तिष्ठन्ति अस्मिन् गुणा इति कृत्वा । गुणानां स्थानं गुणस्थानम् । मिथ्यादृष्टेः गुणस्थानं मिथ्यादृष्टिगुणस्थानम् ← (पं.सं.भा-१/ पृ. ४१ - वृत्ति ) इति पञ्चसङ्ग्रहवृत्तिकृदुत्तिरप्यवधेया । सूत्रकृताङ्गवृत्तिकृतामप्येवमेवाभिप्रायः (सू.कृ.२ ।२ ।२ । ३२ वृ.) । तदुक्तं प्रवचनसारोद्धारवृत्तौ श्रीसिद्धसेनसूरिभिः कर्मस्तववृत्तौ च देवेन्द्रसूरिभिः प्रबलमिथ्यात्वोदयेऽपि काचिदविपर्यस्ताऽपि दृष्टिर्भवतीति तदपेक्षया मिथ्यादृष्टेरपि गुणस्थानसम्भवः ← (प्र. सारो. १३०२ वृत्ति, क. स्त. २ वृत्ति ) इति । विनयविजयोपाध्यायेन काचिन्मनुजपरवादिवस्तुगोचरा तेषामप्यविपर्यस्ता प्रतिपत्तिर्भवेत् ← ( द्र. लो. प्र. पृष्ठ- ४८२ ) इत्येवं लोकप्रकाशे द्रव्यविभागे मिथ्यादृष्टीनां गुणस्थानकसम्भवः सामान्यतो दर्शितः ।
હોય છે. એમ આગમવેત્તાઓ કહે છે.
(ભાવ અનુષ્ઠાનમાં વંદનીય વગેરે પ્રત્યે જેવા પ્રકારનો અહોભાવ, આદરભાવ, રુચિ, શ્રદ્ધા વગેરે હોય છે તેવા પ્રકારનો અહોભાવ વગેરે ચોથી દૃષ્ટિવાળા જીવોને નથી હોતો. આથી ભાવ અનુષ્ઠાનમાં જેવા પ્રકારના અહોભાવ વગેરેથી વંદનાદિ ધર્મપ્રવૃત્તિ થાય તેવા પ્રકારના અહોભાવ વગેરેથી વંદનાદિ ધર્મપ્રવૃત્તિ ચોથી દૃષ્ટિમાં નથી થતી. તેથી ચોથી દૃષ્ટિમાં દ્રવ્યઅનુષ્ઠાન હોય છે, ભાવઅનુષ્ઠાન નહિ.
१. हस्तादर्शे '... स्थानप्रकर्ष' इति पाठः ।
Jain Education International
=
१३८९
For Private & Personal Use Only
=
www.jainelibrary.org