________________
१३८८
• अकामनिर्जरा - बालतपसोः भेदस्थापनम् ·
द्वात्रिंशिका-२०/२६
संजमाऽसंजमेणं, (३) अकामनिज्जराए, (४) बालतवोकम्मेणं ← ( औपपा. ७३ ) इति औपपातिकसूत्रे, → चउहिं ठाणेहिं जीवा देवाउयत्ताए कम्मं पकरेंति । तं जहा ( १ ) सरागसंजमेणं, (२) संजमाऽसंजमेणं, (३) बालतवोकम्मेणं, (४) अकामणिज्जराए ← (स्था. ४ । ४ । ३७३ ) इति स्थानाङ्गसूत्रे, सरागसंयमसंयमासंयमाऽकामनिर्जरा-बालतपांसि दैवस्य ← (त.सू. ६/२० ) इति तत्त्वार्थसूत्रे, सर्वभूतानुकम्पा, अगारिष्वनगारिषु च व्रतिषु अनुकम्पाविशेषः, दानं, सरागसंयमः, संयमाऽसंयमः, अकामनिर्जरा, बालतपोयोगः, क्षान्तिः शौचमिति सवेद्यस्याऽऽस्रवाः ← (त.सू. ६ । १३ - भा.) इति तत्त्वार्थभाष्ये च तयोः पार्थक्येन निर्देशाऽनुपपत्तेः, बालतपः पदे कर्मधारयसमासानङ्गीकाराच्च । तदुक्तं स्थानाङ्गवृत्तौ बाला इव बालाः मिथ्यादृशः, तेषां तपःकर्म- तपःक्रिया बालतपःकर्म ← (स्था. ४/४ / ३७३ वृत्ति) ← इति । तत्त्वार्थभाष्ये अपि बालो मूढ इत्यनर्थान्तरम्, तस्य तपः = बालतपः ← ( त.भा. ६।२०) इत्युक्तम् । ततश्च बालतपसः सकामनिर्जरात्मकत्वसम्भवेन न मिथ्यादृशामपि सकामनिर्जराऽनुपपत्तिः । सा च सानुबन्धा निरनुबन्धा वेत्यन्यदेतत् ।
तदुक्तं सेनप्रश्नोत्तरे अपि प्रथमोल्लासे सम्यग्दृष्टिव्यतिरिक्तानां जीवानां सर्व्वथा निर्जरा नास्ति एव इति वक्तुं न शक्यते । “अणुकंपऽकामनिज्जर, बालतवो दाण-विणय-विब्भंगे। संजोगविप्पओगे वसणूसवइड्डि-सक्कारे।।” ( आ. नि. ८४५ ) इति आवश्यक निर्युक्तौ मिथ्यादृशां सम्यक्त्वप्राप्तिहेतुष्वकामनिर्ज्जराया उक्तत्वात् केषाञ्चिच्चरकपरिव्राजकादीनां स्वाभिलाषपूर्व्वकं ब्रह्मचर्यपालनादत्तादानपरिहारादिभिब्रह्मलोकं यावद् गच्छतां सकामनिर्ज्जराया अपि सम्भवाच्चेति ← (से .प्र. उल्लास- १/प्रश्न- १७- पृ. ३) इति । सेनप्रश्नोत्तर एव तृतीयोल्लासे अपि क्रियावादिनामक्रियावादिनां च केषाञ्चित् सकामनिर्जरापि भवतीत्यवसीयते यतोऽकामनिर्जराणामुत्कर्षतो व्यन्तरेष्वेव, बालतपस्विनां चरकादीनां तु ब्रह्मलोकं यावदुपपातः प्रथमोपाङ्गादावुक्तोऽस्तीति, तदनुसारेण पूर्वोक्तानां सकामनिर्जरेति तत्त्वम् ← (से .प्र.उ.३) इति कथितम्।
आसन्नमुक्तिगामिनो मिथ्यादृष्टेरपि चरमावर्तकाले मिथ्यात्वमन्दतायां ग्रन्थिदेशसमीपे कर्मक्षयोद्देशेन तपश्चर्यादिसम्भवात् सकामनिर्जराऽनपलपनीयैव, तल्लक्षणसाम्राज्यात् । तदुक्तं प्रवचनसारोद्धारवृत्तौ → 'कर्मणां नः क्षयो भूयादित्याशयवतां सताम् । वितन्वतां तपस्यादि सकामा शमिनां मता ।। ← (प्र.सारो.द्वार-६७/गा.५७३/निर्जराभावना-श्लो. ३-पृष्ठ- ४६१ ) इति ।
→ निरासक्त्या कृतं कर्म निर्जरार्थं प्रजायते ← ( म.गी. ३ / २८) इति महावीरगीतावचनादपि स्वात्मशुद्ध्युद्देशेन निर्निदानानुष्ठानप्रवणानां मिथ्यादृशामपि सकामनिर्जराऽनाविलैव । चरमावर्तकालशुक्लपाक्षिकत्वाऽपुनर्बन्धकत्व-मित्रादियोगदृष्टिसद्योगावञ्चकादियोग-कुलयोगित्वादीच्छादियम-शमदमादिगुणगणबलेन मिथ्यादृशां सकामनिर्जराऽनपलपनीयैव । प्रकृते गुणनिबन्धना हि विशिष्टनिर्जरा ← ( श्रा. प्र. ३५ ) इति श्रावकप्रज्ञप्तिवृत्तौ श्रीहरिभद्राचार्योक्तिरपि सुसंवादिनी वर्तते ।
तदुक्तं सेनप्रश्नोत्तरे चतुर्थोल्लासे अपि ये चरक परिव्राजकादिमिथ्यादृष्टयोऽस्माकं कर्म्मक्षयो भवत्विति धिया तपश्चरणाद्यज्ञानकष्टं कुर्वन्ति तेषां तत्त्वार्थभाष्यवृत्ति - समयसारसूत्रवृत्ति-योगशास्त्रवृत्त्यादिग्रन्थानुसारेण सकामनिर्ज्जरा भवतीति सम्भाव्यते, यतो योगशास्त्रचतुर्थप्रकाशवृत्तौ सकामनिर्जराया हेतुर्बाह्याऽभ्यन्तरभेदेन द्विविधं तपः प्रोक्तं, तत्र ' षट्प्रकारं बाह्यं तपो, बाह्यत्वं च बाह्यद्रव्यापेक्षत्वात्पर
Jain Education International
For Private & Personal Use Only
=
=
www.jainelibrary.org