________________
• मिथ्यादृशां सकामनिर्जरामीमांसा •
एवं भावतोऽप्यत्र द्रव्यप्रयोगो वन्दनादौ तथाभक्तितो यत्नभेदप्रवृत्तेरिति
एवं निरुक्तप्रकारेण भावतोऽपि व्यावहारिकसत्प्रणिधानादिभावतोऽपि, अत्र = दीप्रायां दृष्टौ द्रव्यप्रयोगः = द्रव्यप्रवृत्तिः वन्दनादौ = वन्दनादिविषयिणी, तथाभक्तितः = नमस्कार्यादिगोचरस्वकीयबोधाद्युपस्थापितामर्थप्रयोगमात्रगोचरां भक्तिमवलम्ब्य, न तु जिनवचनादितः, यत्नभेदप्रवृत्तेः = अनुष्ठानोचिताऽन्तःकरणपरिणामप्रवाहहेतुप्रयत्नविशेषोदयात् । अपिशब्देन द्रव्यसमुच्चयः कृतः । बलायामर्थप्रयोगमात्रप्रीत्या वन्दनादौ यत्नलेशोदयो दीप्रायान्त्वर्थप्रयोगमात्रभक्त्या तत्रैव यत्नविशेषोदय इत्येतावान् प्रकर्षोऽत्र विद्यत एव तथापि भ्रान्त्यादिदोषसद्भावेन जिनवचनतो यत्नविशेषानुदयादत्र 'द्रव्यप्रयोग' इत्यभिधानं सङ्गच्छत एव । परमार्थतो वचोऽसङ्गाऽनुष्ठाने एव भावाऽनुष्ठाने भवतः, प्रीति भक्त्यनुष्ठाने तु द्रव्याऽनुष्ठाने । कारणे कार्यत्वोपचारेण त्वत्र तात्त्विकाऽध्यात्म-भावनासीमाऽऽक्रान्तो वन्दनादिप्रयोग इष्यत एव सूक्ष्मबोधविरहेऽपि विवेकबाहुल्येन स्थूलहेयोपादेयगोचरबोधोत्कर्षात् । अत एवाऽस्याः पूर्वाऽपेक्षया प्रशस्तविपाकिप्रबलतर शुभकर्मबन्ध-शुभानुबन्धशालिप्रबलसकामनिर्जरानिमित्तता गीयते योगज्ञैः ।
ननु मिथ्यादृष्टेः सकामनिर्जरा कथं सम्भवेत् स्वल्पीयस्यपीति चेत् ? तत्कारणसद्भावादित्यवेहि । तथाहि- भगवत्यां (व्या.प्र.शत. १ उद्दे. १) औपपातिकसूत्रादी (औ.सू.७३) अकामनिर्जरया व्यन्तरेष्वेवोत्पादस्य पाखण्ड्यादीनां भणितत्वेऽपि 'चरग-परिव्वायग बंभलोगो जा' (बृ.सं. १५२ ) इत्यादिना बृहत्सङ्गहण्यादी ब्रह्मलोके तदुत्पादकथनस्य, भगवत्यां ईशानेन्द्रजीवतामली- चमरेन्द्रजीवपूरण- (भग. ३/१-२) तापसादीनाञ्चेन्द्रत्वादिपदप्राप्तेः कथनस्य सकामनिर्जरां विनाऽनुपपत्तेः । न हि कुशलमूलां बुद्धिपूर्विकां सकामनिजरां विनेन्द्रादिपदोपलब्धिः सम्भवति । तदुक्तं सिद्धसेनगणिभिः तत्त्वार्थभाष्यवृत्ती यः पुनः कुशलमूलो विपाकः (=कर्मविपाकः कर्मनिर्जरा) तपसा द्वादशविधेन परिषहजयेन वा कृतः सोऽवश्यन्तयैव बुद्धिपूर्वकः ( = सकाम : ) । तं एवंविधं गुणतः इति गुणं उपकारकं एव चिन्तयेत् यस्मात् स तादृशो विपाकः शुभमनुबध्नाति, अमरेषु तावदिन्द्र- सामानिकादिस्थानानि अवाप्नोति, मनुष्येषु च चक्रवर्ति-बलदेवमहामण्डलिकादिपदानि लब्ध्वा ततः सुखपरम्परया मुक्तिमवाप्स्यतीति शुभाऽनुबन्धः ← (त.सू. ९/ ७भा.वृ.) ।
=
=
=
9
१३८७
अथ पूरण-तामल्यादीनामिन्द्रपदप्राप्तिरकामनिर्जरयैव, तेषां बालतपस्वित्वेन निर्देशात्, तदुक्तं भगवत्यां पूरणाधिकारे तए णं से पूरणे बालतवस्सी तेणं ओरालेणं विउलेणं पयत्तेणं पग्गहिएणं, बालतवोकम्मेणं... ← (भग.३/२/१४३) इत्यादि, तामल्यधिकारे चतए णं से तामली बालतवस्सी बहुपडिपुण्णाई सट्ठि वाससहस्साइं परियागं पाउणित्ता... ← (भग.३/१/१३५ ) इत्यादि । तदुक्तं त्रिषष्टिशलाकापुरुषचरित्रे अपि मासं सोऽनशनं कृत्वा मृत्वा बालतपोवशात् । अभूच्चमरचञ्चायां चमरेन्द्रोऽर्णवस्थितिः ।। ← (त्रि.स. पु. १० / ४ / ३८६ ) इति । इत्थञ्च तेषां तपसो बालत्वाऽनुपपत्त्या सकाम - निर्जरात्वमपोद्यते इति चेत् ? मैवम्, अकामनिर्जरा- बालतपसोरैक्ये चउहिं ठाणेहिं जीवा देवत्ताए कम्मं पकरेंति, देवत्ताए कम्मं पकरेत्ता देवेसु उववज्जंति । तं जहा - (१) सरागसंजमेणं, (२)
આ રીતે ભાવથી પણ ચોથી દૃષ્ટિમાં પ્રભુવંદનાદિ આરાધનામાં દ્રવ્યપ્રવૃત્તિ હોય છે. કારણ કે તથાવિધ ભક્તિથી વિશેષ પ્રકારના પ્રયત્ન દ્વારા પ્રવૃત્તિ થાય છે. આમ પહેલા ગુણઠાણાનો પ્રકર્ષ આટલો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org