________________
१३८६
• बलायां प्रधानद्रव्यानुष्ठानोपवर्णनम् • द्वात्रिंशिका-२०/२६ (४) दीपा दृष्टिीपप्रभासदृशी, विशिष्टतरा उक्तबोधत्रयात् । अतोऽत्रोदने स्थिति-वीर्ये, तत्पद्व्यपि प्रयोगसमये स्मृतिः । ____ मात्रपदेनेदं सूचितं यदुत वन्दनादिप्रवृत्तौ यथा स्वाभाविकी बलवती च प्रीतिरस्यां दृष्टौ वर्तमानस्य जीवस्योपजायते तथा न वन्दनादिपरिणतौ हेतु-स्वरूपाऽनुबन्धशुद्धायां सोपजायते । प्रीतिपदेनाऽत्र भक्तिव्यवच्छेदः कृतः, तादृशपूज्यत्वबुद्धेरद्याप्यनुदयात् । ‘लेश'पदेन चेदमावेदितं यद् वन्दनादिप्रवृत्तौ बलवत्प्रीतिसत्त्वेऽपि यावती तत्सम्पादनगोचरा स्वकीया शारीर-मानसादिशक्तिः तदनिगृहनेनाऽसौ तत्र न प्रवर्तते किन्तु तन्निगृहनेनैव, उत्थानादिदोषात् यतनावरणलक्षणतथाविधवीर्याऽन्तरायाधुदयाच्च । अर्थप्रयोगमात्रप्रीत्यादिना तथास्मृत्या यदा वन्दनादौ प्रवृत्तिर्जायते तदा बाहुल्येन प्रधानद्रव्यानुष्ठानमस्यां सम्पद्यते। → स्मृतिमूलत्वात् मोक्षसाधनाऽनुष्ठानस्य 6 (प्र.सारो.२१०वृत्ति) इति प्रवचनसारोद्धारवृत्तिकृद्वचनमपीत्थं सङ्गच्छते । ततश्च यतनावरणोदयादिना भावानुष्ठानानुपधायकत्वेऽपि प्रायशः यथावसरं प्रधानद्रव्यानुष्ठानजनकत्वेनास्याः तथाविधस्मृतिजनकस्थिति-वीर्यकलितसमीचीनबोधांशतो प्रबलशुभकर्मबन्धनिरनुबन्धस्वल्पसकामनिर्जरानिमित्तता प्रतीतैव । अत एवाऽत्र प्राक्तनाऽशुभाऽनुबन्धाः अंशतः शिथिलीभवन्ति नवीनाऽशुभाऽनुबन्धाश्च बाहुल्येन न सञ्चीयन्ते, विशुद्धियोगेनाऽभिप्रायगताया विषय-कषायादिरुच्याः अनुत्थानात् । तदुक्तं योगदृष्टिसमुच्चये बलामधिकृत्य → नाऽस्यां सत्यामसत्तृष्णा प्रकृत्यैव प्रवर्तते - (यो.दृ.स.५०) इति भावनीयम् ।
(४) आद्यदृष्टित्रितयाऽभ्यासप्रकर्षवशादुत्पद्यमाना आंशिकशुद्धात्मतत्त्वविषयितांशे दीप्रप्रकाशोपेततया यथार्थाऽभिधाना चतुर्थी दीपा दृष्टिः भवति । यथा दीपप्रभायामखिलस्थूलवस्तूनि समुपलभ्यन्ते न तु सूक्ष्माणि तथैवाऽत्राऽखिलस्थूलहेयोपादेयवस्तूनि बुध्यन्ते, न तु स्वपरिणाम-प्रणिधानादिगतसूक्ष्महेयोपादेयधर्मा इतीयं दीपप्रभासदृशी । तथाविधप्रकाशमात्रादिनेह सर्वत्र साधर्म्यमवसेयम् । प्रकृते → स्वल्पाऽपि दीपकणिका बहुलं नाशयेत् तमः ८ (आ.बो. २८) इति आत्मप्रबोधोपनिषद्वचनमपि यथागममनुयोज्यम् । ततश्च उक्तबोधत्रयात् = आद्यदृष्टित्रितयमपेक्ष्य दीप्रा विशिष्टतरा भवति । अत एव अत्र = दीप्रायां दृष्टौ उदग्रे = सातिशये स्थिति-वीर्ये = समवस्थान-सामर्थ्य भवतः । अत एवेयं सम्यक् प्रयोगकालं यावदवतिष्ठते पटुस्मृतिबीजकुशलसंस्कारांश्चाऽऽदधाति । तत् = तस्मात् कारणात् पटव्यपि = स्वभूमिकोचिताऽनुष्ठानाऽवैकल्यप्रयोजकाऽखिलाऽङ्गोपस्थापकत्वलक्षणपाटवशालिनी अपि प्रयोगसमये = सदनुष्ठानप्रवृत्त्यवसरे स्मृतिः सम्भवति।
(પ્રસ્તુતમાં સાર્થક આરાધના કરવાની પ્રીતિ હોય છે. પરંતુ આરાધકપરિણતિ કેળવવા ઉપર તથાવિધ પ્રીતિ હોતી નથી. આ બાબતને જણાવવા માટે “માત્ર' શબ્દ વપરાયેલ છે. “પ્રીતિ’ શબ્દ દ્વારા અહીં ભક્તિનો નિષેધ કરેલ છે. અર્થાત્ બલાદષ્ટિમાં પ્રીતિ અનુષ્ઠાન હોય છે. પરંતુ ભક્તિ અનુષ્ઠાન નથી હોતું. બલાદષ્ટિથી પ્રીતિ અનુષ્ઠાન શરૂ થાય છે. તથા ચોથી દષ્ટિથી ભક્તિ અનુષ્ઠાન શરૂ થાય છે. આ દૃષ્ટિ પૂર્વની બે દૃષ્ટિ કરતાં બળવાન હોવાથી “બલા' એવું નામ સાર્થક છે.)
(૪) દીપ્રા નામની ચોથી દૃષ્ટિ દીપકની પ્રભા સમાન છે. પૂર્વોક્ત ત્રણ પ્રકારના બોધથી અહીં બોધ અધિક ચઢિયાતો હોય છે. તેથી અહીં બોધની સ્થિતિ અને શક્તિ વધુ પ્રમાણમાં હોય છે. તેથી
પ્રભુવંદનાદિ ધર્મક્રિયા કરવાના અવસરે સ્મૃતિ પણ દઢ બને છે. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org