________________
१३८५
• तारायां स्मृतिमूलमोक्षानुष्ठानाऽयोगः अतोऽपि प्रयोगकाले स्मृतिपाटवाऽसिद्धेः, तदभावे प्रयोगवैकल्यात्, ततः तथातत्कार्याऽभावादिति । (३) बला दृष्टिः काष्ठाऽग्निकणतुल्या, ईषद्विशिष्टा उक्तबोधद्वयात्, तद्भावेनाऽत्र मनाक् स्थिति-वीर्ये। अतः पटुप्राया स्मृतिः, इह प्रयोगसमये तद्भावे चाऽर्थप्रयोगमात्रप्रीत्या यत्नलेशभावादिति । वीर्यविकलत्वात् = प्रयोगकालावधिकस्थिति-साङ्गसदनुष्ठानप्रयोजकसामर्थ्यशून्यत्वात् । अतोऽपि = तारातोऽपि प्रयोगकाले = चिकीर्षितानुष्ठानकरणाऽवसरे स्मृतिपाटवाऽसिद्धेः = अनुष्ठानगताऽवैकल्यप्रयोजकविशिष्टप्रणिधानविधि-यतना-श्रद्धाद्यखिलाऽङ्गोपस्थापकत्वलक्षणपटुतोपेतस्मरणाऽनुदयात् । तदभावे = निरुक्तस्मृतिपाटवाऽभावे सति कायादिना कथञ्चित्करणेऽपि क्षेपादिदोषेण प्रयोगवैकल्यात् = विकलप्रयोगभावात् । सम्यक्स्मृतिमूलं ह्यनुष्ठानं प्रोक्तं जिनेश्वरैः । अत एव धर्मबिन्दौ श्रीहरिभद्रसूरिभिः उपयोग धानता ← (ध.बि. ५/२५), → आज्ञानुस्मृतिः ← (ध. बिं. ५ / ७४) महागुणत्वाद् वचनोपयोगस्य (ध. बिं. ६/४० ) ←
इत्यादिकमुक्तम्। तदुक्तं तैरेव श्रावकप्रज्ञप्तिवृत्तौ स्मृतिमूलो धर्मः ← ( श्रा. प्र. १०८ ) इति । → स्मृतिमूलं नियमानुष्ठानम् ← (आ.नि. भाग-४/पृ. ८२७, प्रथमगुणव्रतनिरूपणे) इति हारिभद्रीयाऽऽवश्यकनिर्युक्तिवृत्तिवचनमप्यत्राऽवश्यमनुस्मर्तव्यम् । यथोक्तं प्रवचनसारोद्धारवृत्तौ सिद्धसेनसूरिभिरपि → स्मृतिमूलं हि सर्वमनुष्ठानम् ← (प्र.सारो. २८० वृ.) । ततः = तस्मात् कारणात् तथातत्कार्याऽभावात् = भावतो वन्दनादिकार्याऽयोगात् । कदाचिद् व्यवहारतो विधि-यतनाद्युपेतसदनुष्ठानकरणेऽपि अज्ञानाऽनाभोगमिथ्यात्वादितो विषयकषायादिगोचरव्यक्ताऽव्यक्तपक्षपात जननेन निश्चयतः प्रयोगवैकल्यमेवात्र । यस्य कस्यचिदनुष्ठानस्य स्वल्पतमकालसाध्यस्य मानसिकनमस्कारादिलक्षणस्य विषयकषायाऽऽवेशाद्यनुपरक्तचित्ततया सम्पादनेऽपि स्वाऽभिप्रायगताया अव्यक्ततद्रुच्या अनपगमेन प्रयोगवैकल्यमत्राऽपरिहार्यमेव । अस्तु वा प्रधानद्रव्यानुष्ठानं दशाविशेषे । भाववन्दनाद्यनुपधायकत्वेऽप्यंशतः समीचीनबोधरूपत्वेनाऽवस्थाविशेषे अंशतः प्रधानद्रव्यानुष्ठानसम्पादकत्वेन चास्याः शुभकर्मबन्ध-स्वल्पतरसकामनिर्जरानिमित्तताऽनपलपनीयेति ध्येयम्।
(३) आद्यदृष्टिद्वयापेक्षया आंशिक शुद्धात्मस्वरूपविषयितांशे बलवत्प्रकाशोपेतत्वाद् वन्दनादिकार्ये बलाधायकत्वाच्च यथार्थाभिधाना तृतीया बला दृष्टिः हि काष्ठाऽग्निकणतुल्या भवति । इयं उक्तबोधद्वयात्
=
आद्यदृष्टिद्वितयमपेक्ष्य ईषद्विशिष्टा भवति । तद्भावेन = मनाग्वैशिष्ट्यसद्भावेन अत्र = बलायां दृष्टौ मनाक् स्थिति-वीर्ये आद्यबोधद्वयापेक्षयाऽधिके भवतः | अतः = अस्मादेव कारणात् पटुप्राया स्मृतिः भवति, इह बलायां दृष्टौ प्रयोगसमये = वन्दनादिप्रयोगकाले तद्भावे च = पटुप्रायःस्मृतिसद्भावे च अर्थप्रयोगमात्रप्रीत्या केवलं सार्थकवन्दनादिसदनुष्ठानकरणप्रेम्णा यत्नलेशभावात् प्रणिधानादिगर्भप्रयत्नलेशसद्भावात् ।
वन्दनादौ
કરવા સ્વરૂપ બોધનું કાર્ય થતું નથી.
(૩) બલાદિષ્ટ કાષ્ઠના અગ્નિકણ સમાન છે. પૂર્વોક્ત બે બોધ કરતાં અહીં કાંઈક વિશિષ્ટ બોધ હોય છે. પૂર્વોક્ત બે બોધની અપેક્ષાએ અહીં વિશિષ્ટતા હોવાના કારણે બલા દૃષ્ટિમાં વર્તમાન એવા જીવના શ્રદ્ધાસંપન્ન બોધની સ્થિતિ અને શક્તિ થોડી વધારે હોય છે. આથી અહીં સ્મૃતિ લગભગ મજબૂત હોય છે. બલા દૃષ્ટિમાં પ્રભુવંદનાદિ આરાધનાના સમયે પટ્ટુપ્રાયઃ સ્મૃતિ હોવાથી માત્ર સાર્થક ધર્મારાધના વિશે પ્રીતિ હોય છે. તેથી ભાવથી પ્રભુવંદનાદિ આરાધના કરવાનો આંશિક પ્રયત્ન કરે છે.
Jain Education International
For Private & Personal Use Only
=
•
=
www.jainelibrary.org