________________
• मित्रायां बोधाऽस्थैर्य-प्रयोगवैकल्यमीमांसा •
१३८३ तृणेति । (१) मित्रा दृष्टिस्तृणाग्निकणोपमा, न तत्त्वतोऽभीष्टकार्यक्षमा, सम्यक्प्रयोगकालं यावदनवस्थानात्। अल्पवीर्यतया ततः पटुस्मृतिबीजसंस्काराऽऽधानाऽनुपपत्तेः, विकलप्रयोगभावाद् भावतो वन्दनादिकार्याऽयोगादिति । मित्रा दृष्टिः काल-भवितव्यतापरिपाकादिसहकारेणाऽऽविर्भवति । सा च प्रथमा सच्छ्रद्धासङ्गतशुद्धात्मतत्त्वगोचरांऽऽशिकानुभूतिलक्षणा दृष्टिर्हि तृणाग्निकणोपमा भवति । सा च न = नैव तत्त्वतः = परमार्थतः अभीष्टकार्यक्षमा = दीर्घकालसाध्यं यत् श्रोतव्यश्रवण-कर्तव्यकरण-सकलहेयहानोपादेयोपादानप्रबलतरसानुबन्धसकामनिर्जरादिलक्षणमभिमतं स्वकार्य तत्कर्तुं समर्था भवति; स्वल्पस्थितिकतया सम्यक्प्रयोगकालं = श्रुत-ज्ञातार्थविषयकसमुचितयत्ननिर्वर्तनकालं यावत् अनवस्थानात् = सम्यगवस्थानविरहात् । महत्तृणाग्निस्तु कदाचित् स्वेष्टं कार्यमल्पकालसाध्यं कुर्यादपि । परं तृणाग्निकणस्य तु नेष्टकार्योपधायकता स्यादिति प्रकृते बोधस्य तृणाग्निकणोपमाऽऽविष्कृता ग्रन्थकृता। न चाऽभव्य-दूरभव्यादिबोधस्य देशोनपूर्वकोटिकालस्थितिकत्वे शास्त्रसिद्ध कथं न मित्रोपेतयोगिबोधस्य सम्यक्प्रयोगकालं यावदनवस्थानमिति शङ्कनीयम्, केवलस्य बोधस्य चिरस्थितिकत्वसम्भवेऽप्यात्मकल्याणरुचि-श्रद्धाधुपेतस्याऽसगशुद्धात्मगोचरस्य बोधस्य मित्रायां दृष्टौ चिरतरकालाऽवस्थानसम्भवविरहात्, अद्यापि कर्ममलबलाऽपगमविशेषविरहात् । अत एव न प्रबलतरक्लिष्टकर्मनिर्जरा निरन्तरमस्यामुपजायते । सम्मतश्चाऽयमर्थः परेषामपि । तदुक्तं रामगीतायां → आदावुत्पद्यमानस्य ज्ञानस्याऽवीर्यवत्तया । शक्तिर्नाशयितुं न स्याद् वीर्यवत् सञ्चितव्रजम् ।। - (रा.गी.१०/१७) इति । न च तादृशबोधस्याऽल्पकालीनत्वेऽपि तज्जन्यसंस्कारद्वारा स्मृत्युपधानादभीष्टकार्यक्षमत्वं भविष्यतीति वाच्यम्, तादृशबोधस्य अल्पवीर्यतया = स्वल्पशक्तिकतया ततः = तादृशबोधलक्षणमित्रादृष्टितः पटुस्मृतिबीजसंस्काराऽऽधानाऽनुपपत्तेः = सम्यक्प्रयोगोपधायकस्मरणकारणीभूतकुशलसंस्कारोपस्थापनाऽसम्भवात् । मोक्षानुष्ठानन्तु स्मृतिमूलमेव भवति, 'स्मृतिमूलं च मोक्षसाधनानुष्ठानम्' (आ.नि. प्रथमशिक्षाव्रत-भा. ४/पृ.८३४) इति हारिभद्रीयावश्यकवृत्तिवचनात् । न चैवं तद्बोधस्याऽल्पवीर्यत्वे विकलप्रयोगस्याप्यनुपपत्तिरेव स्यादिति वाच्यम्, तादृशबोधाद् विकलप्रयोगनिमित्तभूतस्मृतिबीजरूपमन्दसंस्काराऽऽधानसम्भवात् ।
ततश्च विकलप्रयोगभावात् = 'सम्यक्प्रणिधान-२यथावस्थितविधि-सूक्ष्मयतना- तीव्रश्रद्धा- सदनुष्ठानकालव्याप्युपयोग-निरन्तरनिर्व्याजबहुमानभाव- प्रबलसंवेगोत्कट धृतिप्रभृतिशून्याऽनुष्ठानसद्भावाद् भावतः वन्दनादिकार्याऽयोगात् । तत्त्वतो मोघीभूतमेव द्रव्यतो वन्दनादिकं विकलानुष्ठानं, परमार्थतोऽ
टीst :- (१) मित्रानामनी हष्टि (= सत् श्रद्धासंपन्न लो५) तृएन। अनि समान छ. ४ ते ઘાસનો અગ્નિકણ વિશિષ્ટ પ્રકાશ આપવા વગેરે સ્વરૂપ સ્વકાર્ય કરવા સમર્થ નથી તેમ મિત્રા નામની દૃષ્ટિ પણ પરમાર્થથી પોતાનું ઈષ્ટ કાર્ય કરવા સમર્થ નથી. કારણ કે સમ્યફ રીતે શુભ અનુષ્ઠાનના પ્રવૃત્તિકાળ સુધી તેવો બોધ ટકતો નથી. આનું કારણ એ છે મિત્રાદષ્ટિવાળા યોગીના બોધની શક્તિ અલ્પ હોવાથી તેનાથી તેવા સંસ્કારનું આધાન થઈ શકતું નથી કે જેનાથી કાલાંતરમાં પટુ સ્મૃતિ ઉત્પન્ન થઈ શકે. માટે તે જીવ ધર્મક્રિયા કરે તો ખોડખાંપણવાળી હોય. તેથી પ્રભુવંદનાદિ ધર્મકાર્યને ભાવથી કરી શકતો નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org