________________
• स्थिरादिदृष्टिषु दर्शनभेदाऽभावसमर्थनम् •
१३७९
लोचनयोश्च दोष - गुणाभ्यां ग्राहकयोरपि । तथा प्रकृतेऽपि योगदृष्टिभेद इति भावनीयम् । एतन्निबन्धनोऽयं दर्शनभेद इति योगाचार्याः । न खल्वयं स्थिरादिदृष्टिमतां भिन्नग्रन्थीनां योगिनां, यथाविषयं नयभेदाऽवबोधात् ।
तलोचनयोश्च
काचकामलाद्युपहताऽनुपहतनयनयोश्च यथाक्रमं दोष-गुणाभ्यां = निर्मलदृष्टिप्रतिबन्धकसहकारिभ्यां विपर्यस्ताऽविपर्यस्तग्रहणलक्षणो दृष्टिभेदो भवति । एवमेव निम्नोन्नत - दूराSSसन्न - व्यवहिताऽव्यवहितादिक्षेत्रभेदादपि विशदाऽ विशदबोधात्मको दृष्टिभेदः सम्भवति । तथा = तेनैव प्रकारेण प्रकृतेऽपि पारलौकिकेऽपि प्रमेये योगदृष्टिभेदः भव्याभव्यादिग्राहकद्रव्य-कर्मभूम्यकर्मभूम्यार्याऽनार्यदेशलक्षणक्षेत्रचरमावर्ताऽचरमावर्तादिकाल-ज्ञानावरणादिक्षयोपशमतदुदयलक्षणभाव- नरनारकादिभवलक्षणसामग्रीभेदात् क्षयोपशमवैचित्र्यादिहेतुकः अयं दर्शनभेदः
=
सम्भवतीति भावनीयम् । एतन्निबन्धनः प्रतिपत्तिभेद इति योगाचार्याः प्रचक्षते । तदुक्तं बालरामायणे अपि वस्त्वन्तरमतिशयानो हि प्रज्ञाप्रकर्षः ← (बा. रा.१/७) इति । ज्ञानावरणादिक्षयोपशमवैचित्र्यप्रयुक्तवैचित्र्यापन्नानामोघदृष्टीनां प्राथमिक योगदृष्टीनाञ्च मिथ्यात्वोदयसहकृतानां दर्शनभेदप्रयोजकत्वमिति यावत् तात्पर्यम् ।
एतेनाऽऽत्मनः सच्चिदानन्दैकस्वरूपत्वे कथं दृष्टिभेदः ? इति प्रत्यस्तम्, यथा जात्यस्य मरकतमणेः मलोपदिग्धस्य यावन्नाऽद्यापि समूलमलाऽपगमः तावद् यथा यथा देशतो मलविलयस्तथा तथा देशतो जायमानाऽभिव्यक्तिः नानाविधा तथैव सच्चिदानन्दैकपारमार्थिकस्वभावस्याऽप्यात्मन आवरणमलपटलतिरोहितस्य यावन्नाऽखिलकर्ममलाऽपगमः तावद् यथा यथा देशतः कर्ममलोच्छेदः तथा तथा तस्योपजायमाना दृष्टिरपि नानाविधा भवति । तदुक्तं → मलविद्धमणेर्व्यक्तिर्व्यथाऽनेकप्रकारतः । कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः।। ( जीवाभिगम १ । ४९ वृत्तौ उद्धृतः ) यथा जात्यस्य रत्नस्य निःशेषमलहानितः । स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः । । ( जीवा. १।४९ वृत्तौ उद्धृतः ) ← इति विभावनीयम् । न खलु = नैव अयं = छद्मस्थप्रणीतनानादर्शनगोचररुचिविशेषलक्षणो नानाकुदर्शनविशेष्यकस्वतन्त्रप्रामाण्याभ्युपगमलक्षणो वा दर्शनभेदः स्थिरादिदृष्टिमतां वक्ष्यमाणस्थिरा - कान्ता-प्रभा - पराऽभिधानदृष्टिशालिनां भिन्नग्रन्थीनां योगिनां सम्भवति, यथाविषयं पारमार्थिकहेयोपादेयविषयमनतिक्रम्य यद्वा सर्वज्ञ
=
=
=
Jain Education International
=
છે. કારણ કે બાળક મુગ્ધ હોય છે જ્યારે યુવાન વિવેકી હોય છે. મુગ્ધતાથી જે દર્શન થાય તેના કરતાં વિવેકથી જે દર્શન થાય તે જુદું જ હોય. તે જ રીતે જેની આંખમાં કમળો, વધુ પડતા નંબર વગેરે હોય તે તથા તેજસ્વી આંખવાળો માણસ તે જ વસ્તુને જુએ તો તેના દર્શનમાં પણ ઘણો તફાવત પડી જાય છે. કારણ કે પ્રથમ વ્યક્તિની આંખમાં દોષ છે જ્યારે બીજી વ્યક્તિની આંખમાં તેજસ્વિતા વગેરે ગુણ રહેલ છે. જેમ એક જ વસ્તુનું ઓઘદર્શન ઉપરોક્ત વિભિન્ન પરિસ્થિતિમાં બદલાઈ જાય છે તેમ પ્રસ્તુતમાં યોગદર્શન યોગદિષ્ટ પણ ક્ષયોપશમ બદલાતાં બદલાઈ જાય છે. આ વાતની વિચારણા શાંતચિત્તે કરવી. ક્ષયોપશમના તફાવતના કારણે યોગદર્શનમાં = યોગદૃષ્ટિમાં ભેદ પડી જાય છે- એમ યોગાચાર્યો કહે છે. પરંતુ આ દર્શનભેદ યોગદિષ્ટભેદ પાંચમી સ્થિરા વગેરે દૃષ્ટિવાળા સમ્યગદૃષ્ટિ યોગીઓને હોતો નથી. કારણકે એમને પોતપોતાના વિષય મુજબ નયવિશેષનો સાચો બોધ
=
-
For Private & Personal Use Only
www.jainelibrary.org
=