________________
१३८० • स्थिरादिषु वैजात्यकृतभेदाऽभावेऽपि नैर्मल्यकृतभेदस्थापनम् •
द्वात्रिंशिका - २०/२४
प्रवृत्तिरपि अमीषां परार्थं शुद्धबोधभावेन विनिवृत्ताऽऽग्रहतया मैत्र्यादिपारतन्त्र्येण गम्भीरोदाराशयत्वाच्चारिचरकसंजीविन्यचरकचारणनीत्येत्याहुः || २४ ॥
प्रणीततत्त्वव्यवस्थामनुल्लङ्घ्य स्वपरभूमिकौचित्येन नयभेदाऽवबोधात् अनेकान्तवादघटकीभूतसुनयविशेषाऽपेक्षभावनाज्ञानोदयात् । अयमाशयोऽत्र भिन्नग्रन्थयो हि योगिनः सर्वज्ञदर्शनमेव तात्त्विकरुचिगोचरतामापादयन्ति, न त्वसर्वज्ञदर्शनानि । तेष्वप्यवस्थितं यथावस्थितं तु तत्त्वं स्याद्वादघटकीभूततत्तत्सुनयार्पणयाऽङ्गीकुर्वन्तोऽपि न तेषु स्वातन्त्र्येण प्रामाण्यमुद्रां निष्टङ्कयन्ति, षड्दर्शनानां सर्वज्ञदर्शनाऽङ्गतया निश्चितत्वेन सर्वज्ञोपज्ञागमैकदेशतयैव प्रामाण्यात् ।
=
एतेन अन्यथाप्रतिपन्नमूलागमैकदेशगर्भपरदर्शनेषु सम्यग्दृशां द्वेषोत्पादोऽपि निराकृतः, सम्यग्दृशामै - दम्पर्यार्थान्वेषणपरतया परिशुद्धमूलागमार्थ- विरुद्धवाक्यार्थाऽननुप्रवेशेन तत्र यावदुपपन्नं तावद्ग्रहणात् । तदुक्तं षोडशके तत्राऽपि च न द्वेषः कार्यो विषयस्तु यत्नतो मृग्यः । तस्याऽपि न सद्वचनं सर्वं यत् प्रवचनादन्यत्।। ← ( षो. १६ / १३ ) इति । अत एव त एव परमार्थतः शास्त्रवेदिनः । तदुक्तं अध्यात्मोपनिषदि तेन स्याद्वादमालम्ब्य सर्वदर्शनतुल्यताम् । मोक्षोद्देशाऽविशेषेण यः पश्यति स शास्त्रवित् ।। ← (अध्या. उप. १/७० ) । इत्थञ्च स्वपरसिद्धान्तविभागोऽपि तत्त्वतस्तेषां न सम्भवतीति कुतो दर्शनभेदसम्भवोऽमीषाम् ? । तदुक्तं योगबिन्दौ आत्मीयः परकीयो वा कः सिद्धान्तो विपश्चिताम्? ← (यो. बिं. ५२५) इति पूर्वं (पृ.२१४) उक्तमेव । न चैवं योगदृष्टीनां पञ्चधात्वमेव स्यात्, न त्वष्टविधत्वमिति शङ्कनीयम्, स्थिरादिदृष्टिमतां बोधवैजात्यकृतदर्शनभेदोऽसत्त्वेऽपि बोधगतनैर्मल्य-प्राबल्यादितारतम्यतः स्थिरादिदृष्टिष्वपि भेदसम्भवेन योगदृष्टीनामष्टधात्वोपपत्तेरिति भावनीयमाकलितसमयरहस्यैः । प्रवृत्तिः कायिकादिचेष्टा अपि अमीषां स्थिरादिदृष्टिमतां परार्थं दाराशयत्वात् = स्वकीयगुण परकीयदोषाऽप्रकाशनौदासीन्यादिलक्षणगाम्भीर्य-निर्व्याजोदारतागर्भिताऽन्तःकरणशालित्वात्। इदमपि मैत्र्यादिपारतन्त्र्येण = मैत्री - प्रमोद - करुणा-माध्यस्थ्यभावनाऽधीनतया भवति। अत्राऽपि माह विनिवृत्ताऽऽग्रहतया 'मदीयं दर्शनं मुख्यं पाखण्डान्यपराणि तु' इत्येवं यः स्व-परदर्शनविभागगोचराऽभिनिवेशस्तद्रहिततया अत्रापि हेतुमाह- शुद्धबोधभावेन = असंमोहप्रज्ञास्थानीय – विशुद्धभावनाज्ञानसद्भावेन । परोपकारकरणप्रकारमाह- 'चारिचरके 'त्यादि । इदञ्चोदाहरणं प्राग् ( द्वा.द्वा.२/१५ भाग१ पृ.१०५) विभावितमेवेति न तन्यते । अत्र च चारिसञ्जीविनीचारकारकज्ञानतोऽन्तिमे । सर्वत्रैव हिता वृत्तिर्गाम्भीर्यात्तत्त्वदर्शिनः ।। ← (अध्या. उप. १/६९) इति अध्यात्मोपनिषत्कारिकाया भावनाज्ञानप्रतिपादिकाया भावार्थोऽप्यनुसन्धेयः ||२० / २४ ।।
परहितकृते, गम्भीरो
થતો હોય છે. તથા ભિન્નગ્રન્થિવાળા સમકિતી યોગીઓની પ્રવૃત્તિ પણ બીજાના હિત માટે હોય છે. આનું કારણ એ છે કે એમનો બોધ શુદ્ધ હોય છે. તેથી કદાગ્રહની નિવૃત્તિ થાય છે. આ જ કારણસર તે સમકિતી જીવો મૈત્રી વગેરે ભાવનાને આધીન બને છે. તેથી તેમનો આશય ગંભીર અને ઉદાર બને છે. ઘાસ ચરવા છતાં સંવિની ઔષિધને ન ચરનાર બળદને ચરાવવાની પદ્ધતિ મુજબ સ્થિરા વગેરે દૃષ્ટિવાળા જીવો પરોપકારને કરે છે. -આ પ્રમાણે પૂર્વાચાર્યો કહે છે. (૨૦/૨૪)
Jain Education International
For Private & Personal Use Only
=
=
=
=
www.jainelibrary.org