________________
१३७४
• अकरणनियमाऽऽवश्यकताप्रज्ञापनम् • द्वात्रिंशिका-२०/२३ दुःखेति । अन्यथा दुःखाऽत्यन्तविमुक्त्यादि श्रुतोदितं = सिद्धान्तप्रतिपादितं न स्यात् । तदाह-“अन्यथात्यन्तिको मृत्युर्भूयस्तत्राऽगतिस्तथा । न युज्यते हि सन्न्यायादित्यादि समयोदितम् ।।" (योगबिन्दु-४१७) न च तत्त्वज्ञानेनैव दुःखाऽत्यन्तविमुक्त्युपपत्तौ किमकरणनियमेनेति वाच्यं, तस्याऽऽत्यन्तिकमिथ्याज्ञाननाशद्वारा हेतुत्वोपगमे तद्धत्वकरणनियमस्याऽवश्याऽऽश्रयणीयत्वादिति भावः। ____ प्रकृते योगबिन्दुसंवादमाह- ‘अन्यथेति । तवृत्तिस्त्वेवम् → अन्यथा = अकरणनियमाऽनभ्युपगमे आत्यन्तिकः = अपुनर्भावी मृत्युः = नरकादिगोचरः भूयः = पुनरपि तत्र = नरकादिषु अगतिः आत्यन्तिकी तथा इति समुच्चये, न युज्यते हिः = यस्मात् सन्यायात् = सद्युक्तेः किम् ? इत्याह इत्यादि = आत्यन्तिकमृत्य्वादि समयोदितं = सिद्धान्तनिरूपितं वस्तु - (यो.बि.४१७ वृत्ति) इति ।
न च → यथैधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन !। ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा ।। - (भ.गी.४/३७) इति भगवद्गीतावचनात् तत्त्वज्ञानेनैव = षड्विंशतितत्त्वविज्ञानेनैव दुःखाऽत्यन्तविमुक्त्युपपत्तौ सत्यां किं = सृतं अकरणनियमेन इति वाच्यम्, वेदान्तोक्तरीत्या तत्त्वज्ञानस्याऽप्रारब्धकर्मनाशकत्वेऽपि प्रारब्धकर्मनाशकत्वाऽयोगात् । न च तस्य साक्षात् मिथ्याज्ञानीयाऽऽत्यन्तिकनिवृत्तावेव हेतुत्वं, तस्याश्च दुःखाऽत्यन्तमुक्ताविति नाऽकरणनियमाऽऽवश्यकतेति वाच्यम्, तस्य = तत्त्वज्ञानस्य आत्यन्तिकमिथ्याज्ञाननाशद्वारा आत्यन्तिकदुःखविमुक्तिं प्रति हेतुत्वोपगमे = कारणत्वाऽङ्गीकारे तु तद्धत्वकरणनियमस्य = आत्यन्तिकमिथ्याज्ञाननिवृत्तिहेतुभूताऽकरणनियमस्य अवश्याऽऽश्रयणीयत्वात् = नियमेनाऽङ्गीकर्तव्यत्वात् । न हि नरकादिहेतुगोचराऽकरणनियममृते आत्यन्तिकमिथ्याज्ञाननिवृत्तिः कदापि सम्भवति । तत्त्वज्ञानेन मिथ्याज्ञाननिवृत्तावपि विनाऽकरणनियमं तस्या आत्यन्तिकत्वाऽसम्भवात् । इत्थमपुनर्भावेन दुःखविमुक्तयेऽप्यकरणनियमस्य चरणपरिणामाऽपराऽभिधानस्याऽऽवश्यकताऽनपलपनीयैव । तदुक्तं समरादित्यकथायां → नत्थि असझं नाम चरणपरिणामस्स, एसो खलु परमामयं पावविसपरिणईए, वज्जं कम्मपव्वयस्स - (सम.क.भव.४/पृष्ठ-३३४) इति । अत एव ज्ञान-दर्शनाभ्यां चारित्रमुत्कृष्यते । तदुक्तं आवश्यकनियुक्ती श्रीभद्रबाहुस्वामिभिः → जम्हा दंसण-णाणा संपुण्णफलं न दिति पत्तेयं । चारित्तजुया दिति उ विसिस्सए तेण चारित्तं ।। सुट्ठ वि सम्मद्दिट्ठी न सिज्झई चरण-करणपरिहीणो । जं चेव सिद्धिमूलं मूढो तं चेव नासेइ ।।
ટીકાર્ચ - ૨૨મી ગાથામાં જણાવી ગયા તે પ્રકારનો અકરણનિયમ માનવામાં ન આવે તો દુઃખથી અત્યંત વિમુક્તિ મળે છે ઈત્યાદિરૂપે સિદ્ધાન્તમાં બતાવેલ વાત સંગત નહિ થાય. તેથી યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે “અકરણનિયમ ન માનવામાં આવે તો મૃત્યુ ફરીથી ન થવું તથા નરક વગેરેમાં ગમન ન થવું' વગેરે બાબત યુક્તિસંગત નહિ બની શકે. તથા “અત્યન્ત મૃત્યુ વગેરેથી રહિત બને છે' ઈત્યાદિરૂપે શાસ્ત્રમાં બતાવેલ વસ્તુ પણ સાચી યુક્તિથી સંગત નહિ થઈ શકે.”
‘તત્ત્વજ્ઞાનથી જ દુઃખથી અત્યંત છૂટકારો સંગત થઈ શકે છે તો શા માટે અકરણનિયમને માનવો?” આવી શંકા કરવી વ્યાજબી નથી. કારણ કે તત્ત્વજ્ઞાન મિથ્યાજ્ઞાનનો અત્યંત નાશ કરવા દ્વારા દુઃખથી કાયમ છૂટકારો મેળવવાનો હેતુ છે. આવું માનવામાં આવે તો મિથ્યાજ્ઞાનના કાયમી છુટકારાના કારણ તરીકે
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org