________________
• क्षपकश्रेण्यां धर्ममेघसमाधिस्थापनम् •
१३७१
(यो.सू.४-२९)। एवमन्येषामपि तत्तत्तन्त्रसिद्धानां शब्दानामर्थोऽत्र यथायोगं भावनीयः । तदाह" धर्ममेघोऽमृतात्मा च भवशत्रुः शिवोदयः । सत्त्वानन्दः २ परश्चेति योज्योऽत्रैवाऽर्थयोगतः ।।” ( योगबिन्दु - ४२२) अस्माद् = वृत्तिसङ्क्षयात् फलीभूतात् सर्वतः सर्वैः प्रकारैः पापगोचरः तवृत्तीनामज्ञातत्वात् । तन्त्रान्तरीयाऽध्यात्मोपनिषत्कृतोऽपि ( अध्या. ३५-४० कारिकाः) एतादृश एवाभिप्रायो लक्ष्यते । इदमेवोपजीव्य वेदान्तिना विद्यारण्येन पञ्चदश्यां →
।।
धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः । वर्षत्येष यतो धर्माऽमृतधाराः सहस्रशः ।। अमुना वासनाजाले निःशेषं प्रविलापिते । समूलोन्मूलिते पुण्य-पापाख्ये कर्म वाक्यमप्रतिबद्धं सत् प्राक्परोक्षाऽवभासिते । कराऽऽमलकवद् बोधमपरोक्षं प्रसूयते ।। ← (पं.द.१/६०-६१-६२) इत्येवं धर्ममेघस्याऽपरोक्षबोधहेतुतयाऽसम्प्रज्ञातसमाधावन्तर्भावो द्योतितः । तथापि तस्य प्रकृतकारिकाप्रदर्शितो वृत्तिसङ्क्षयाऽन्तर्भावस्तु जैनतन्त्रानुसारेण न सम्भवति, पैङ्गलोपनिषत्कारमतानुसारेणाऽज्ञातानामपि चित्तवृत्तीनां तदोत्पादाऽभ्युपगमात्, सयोग्ययोगिकेवलिकाले तु तादृशवृत्त्युत्पादाऽसम्भवादिति ।
वस्तुतस्तु क्षपकश्रेणिकालीनो धर्ममेघसमाधिः सम्भाव्यते, तत्समाप्त्युत्तरकालं कैवल्योपलम्भेन जीवन्मुक्तदशोपपत्तेः, पैङ्गलानुसारेण तदानीं जायमानानामात्मगोचरान्तःकरणवृत्तीनामज्ञाततयाऽसम्प्रज्ञातत्वोपपत्तेः, क्षपकश्रेणिकालीनस्य धर्ममेघस्याऽसम्प्रज्ञातसमाधिस्थानीयस्य 'क्षीयमाणं क्षीणमिति न्यायेन वृत्ति - सङ्क्षयाऽन्तर्भावसङ्गतेश्चेति विभावनीयं स्व-परसमयसिद्धान्तैदम्पर्यार्थवेदिभिः । एवं यथोक्तप्रकारेण अन्येषामपि तत्तत्तन्त्रसिद्धानां पातञ्जलादितन्त्रप्रसिद्धानां शब्दानां अर्थः अत्र = अध्यात्मादियोगेषु यथायोगं यथासङ्गतिकं भावनीयः । अत्र योगबिन्दुसंवादमाह - 'धर्ममेघ' इति । तद्वृत्तिस्त्वेवम् धर्ममेघः धर्ममेघनामा समाधिविशेषः । अमृतात्मा च, अमृतभावकारणत्वात् । भवशत्रुः, शिवोदयः, सत्त्वानन्दः
=
परश्चेति एवं समाधिविशेषः तत्तत्तीर्थान्तरीयशास्त्रसिद्धः योज्यः = योजनीयः अत्रैव
= अध्यात्मा
= नर
दियोगे अर्थयोगतः अर्थसाङ्गत्यात्। विचित्राऽवस्थो हि योगः, ततस्तदवस्थामपेक्ष्य को नाम समाधिविशेषः तत्राऽन्तर्भावं न लभते ? ← ( यो बिं. ४२१ वृत्ति ) इति । योगबिन्दुवृत्तिकृताऽपि धर्ममेघादेरध्यात्मादियोगेऽन्तर्भावः प्रतिपादितः, न त्वसम्प्रज्ञातसमाधावेव, न वा वृत्तिसङ्क्षय एवेति तु ध्येयम् । वृत्तिसङ्क्षयात् फलीभूतात् अध्यात्म-भावनादिफलरूपात् सर्वैः एव प्रकारैः पापविषयः વિશે – વિવેકખ્યાતિને વિશે પણ રાગરહિત વ્યક્તિને વિવેકખ્યાતિ થતાં ધર્મમેઘ સમાધિ પ્રગટે છે.’ આ રીતે વિભિન્ન દર્શનોમાં પ્રસિદ્ધ એવા અન્યયોગપ્રતિપાદક શબ્દોના અર્થનો યથાયોગ્ય રીતે અધ્યાત્મ વગેરે યોગોમાં સમાવેશ વિચારી લેવો. તેથી જ શ્રીહરિભદ્રસૂરિજી મહારાજે યોગબિંદુ ગ્રંથમાં જણાવેલ छे 'धर्ममेध, अमृतात्मा भवशत्रु, शिवोध्य, सत्त्वानंह जने पर खा नामे विशिष्ट प्रहारनी સમાધિઓનો અધ્યાત્મ વગેરે યોગમાં જ અર્થઘટન કરીને સમવતાર સમાવેશ કરવો.’
=
=
=
=
=
=
અધ્યાત્મ વગેરે યોગોના ફળસ્વરૂપ વૃત્તિસંક્ષયના કારણે સર્વ પ્રકારે પાપસંબંધી અકરણનિયમનું १. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'भवशक्रशि' इत्यशुद्धः पाठः । योगबिन्दुग्रन्थानुसारेण योगविंशिकावृत्त्यनुसारेण च 'भवशत्रुः ' इति पाठो योजितोऽस्माभिः । २ मुद्रितप्रतौ हस्तप्रतौ च ' ... नन्दपर...' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org