SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ १३७० • धर्मसमाधिसमवतारमीमांसा धर्ममेघनाम्नी सम्प्रज्ञातस्य पराकाष्ठा भवतीत्यर्थः । उत्तमं योगजधर्मं (पा.यो.सू. ४ / २९ भा.) इत्याह । मणिप्रभाकृत्तु → षड्विंशतितत्त्वान्त्यालोचयतः सत्त्व - पुरुषाऽन्यताख्यातिर्या जायते सर्वाधिष्ठातृत्वाद्यवान्तरफला तत् प्रसङ्ख्यानम् । तत्राऽप्यकुसीदस्य, कुत्सितेषु विषयेषु सीदतीति कुसीदो = रागः, तद्रहितस्य, सर्वात्मना विवेकख्यातिरेव सन्ततिरूपो धर्ममेघसंज्ञः समाधिर्भवति । स च खल्वशुक्लकृष्णं धर्मं कैवल्यफलं मेहति सिञ्चतीति धर्ममेघ इत्युच्यते । प्रसङ्ख्याने वैराग्याद् धर्ममेघे सति परवैराग्योदयात् प्रसङ्ख्यानस्य निरोधो भवति ← (यो.सू.४ / २९ म.प्र.) इत्याचष्टे । 'विवेकख्यातिरेव विशोकरूपाऽवान्तरफलोन्मुखी सती प्रसङ्ख्यानमित्युच्यते' (यो. सू. ४/२९ यो. सुधा.) इति योगसुधाकरे सदाशिवेन्द्रः । निर्विचारसमाधिस्वरूपसम्प्रज्ञातयोगजन्याया ऋतम्भरायाः धर्ममेघसमाधिरूपता पूर्वं (द्वाद्वा.२०/१२ पृ. १३४४) सदाशिवेन्द्रमतानुसारेणोक्तैव । नागोजीभट्टमते सास्मितसम्प्रज्ञातस्यैव पराकाष्ठा धर्ममेघ इति तु पूर्वं (द्वाद्वा २०/७ पृ. १३३२) दर्शितमेव । इत्थं प्रायः सर्वेषामेव योगसूत्रव्याख्यातॄणां मते धर्ममेघः सम्प्रज्ञातयोगान्तर्गत एव । योगसारसङ्ग्रहे विज्ञानभिक्षुरपि धर्ममेघसमाधिस्तु तदोच्यते यदा सिद्धिकामनात्यागेन निरन्तरोत्पन्नात् सत्त्वपुरुषाऽन्यताख्यातिप्रवाहात् सवासनाऽविद्यानिवृत्त्या प्रयोजनाऽभावेन तस्यामपि ख्यातौ दुःखात्मिकायामलं प्रत्ययरूपं परवैराग्यं जायते यदुत्तरमसम्प्रज्ञातयोग उदेतीति सर्वज्ञतादिजनकं प्रकृष्टं धर्मं मेहति = वर्षतीति व्युत्पत्त्या धर्ममेघः समाधिरुच्यते ← (यो.सा.सं. पृ. १६) इत्येवं वदन् धर्ममेघसमाधेरसम्प्रज्ञातकारणत्वमेवाऽऽविष्करोति न त्वसम्प्रज्ञातयोगरूपता । योगवार्तिके अपि तेन सर्वथा निरन्तरं विवेकख्यात्युदयाद् धर्ममेघनाम्नी सम्प्रज्ञातयोगस्य पराकाष्ठा भवति ← (यो.सू. ४/२९ वा.) इत्येवं स्पष्टमेव धर्ममेघस्य सम्प्रज्ञात एवाऽन्तर्भावः कृत इति ध्येयम् । अत्रान्तरे धृत्यादिलाभोऽप्यवसेयः स्वयंवरः । तदुक्तं ग्रन्थकृतैव वैराग्यकल्पलतायां → शमामृतं परिणतं त्रुटिता भववल्लरी | धर्ममेघसमाधिश्च स्थिरीभूतो महोदयः ।। सन्तोषदा धृतिः पत्नी, श्रद्धा चित्तप्रसादकृत् । सुखासिकाऽऽह्लादकरी हिता विविदिषा सदा । । विज्ञप्तिः पाटवाऽऽधात्री, मेधा सद्बोधकारिणी । नैश्चिन्त्यकृदनुप्रेक्षा, मैत्री चित्तानुवर्तिनी ।। करुणा वत्सलाऽऽकालं, मुदिताऽन्तः प्रसादकृत् । उपेक्षोद्वेगहन्त्री चेत्येष तेषां प्रियागणः ।। = , द्वात्रिंशिका - २०/२१ वर्षतीति धर्ममेघः ← = ← (वै.क.स्त. ६/४६३- ४६६ ) । अयमपि कारिकाप्रबन्धो धर्ममेघस्य सम्प्रज्ञातरूपतां समर्थयति। यद्यपि प्रकृते ध्यातृ-ध्याने विहाय निवातस्थितदीपवद् ध्येयैकगोचरं चित्तं समाधिर्भवति । तदानीमात्मगोचरा वृत्तयः समुत्थिता अज्ञाता भवन्ति । ताः स्मरणादनुमीयन्ते । इहाऽनादिसंसारे सञ्चिताः कर्मकोटयोऽनेनैव विलयं यान्ति । ततोऽभ्यासपाटवात् सहस्रशः सदाऽमृतधारा वर्षन्ति । ततो योगवित्तमाः समाधिं धर्ममेघं प्राहुः । वासनाजाले निःशेषममुना प्रविलापिते कर्मसञ्चये पुण्य-पापे समूलोन्मूलिते प्राक् परोक्षमपि करतलाऽऽमलकवद् वाक्यमप्रतिबद्धाऽपरोक्षसाक्षात्कारं प्रसूते । तदा जीवन्मुक्तो भवति ← (पै.३/२) पैङ्गलोपनिषद्वचनं धर्ममेघसमाधेरसम्प्रज्ञातरूपतामाविर्भावयति, समुत्थि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy