________________
• प्रसङ्ख्यानेऽपि रागाभावे धर्ममेघसमाधिः •
१३६९
=
र्गीयते परैः । निरुद्धाऽशेषवृत्त्यादितत्स्वरूपाऽनुवेधतः । । ” ( योगबिन्दु - ४२१) इति । 'धर्ममेघः ' इत्यप्यस्यैव नाम यावत्तत्त्वभावनेन फलमलिप्सोः सर्वथा विवेकख्यातौ धर्ममशुक्लकृष्णं मेहति सिञ्चतीति व्युत्पत्तेः । तदुक्तं- “ प्रसङ्ख्यानेप्यकुसीदस्य सर्वथा विवेकख्यातौ धर्ममेघसमाधिरिति " ज्ञानरूपाणामत्यन्तोच्छेदात्सम्पद्यते, अन्त्यश्च परिस्पन्दरूपाणाम् । अयञ्च केवलज्ञानस्य फलभूतः ← (यो.विं.२० वृत्ति) इति । इत्थञ्च 'विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः' (यो.सू.१/१८) इति योगसूत्रप्रदर्शिताऽसम्प्रज्ञातयोगलक्षणघटकीभूतं संस्कारशेषत्वञ्चात्र भवोपग्राहिकर्मांशरूपसंस्काराऽपेक्षया व्याख्येयम्, मतिज्ञानभेदस्य संस्कारस्य तदा मूलत एव विनाशादिति (यो.सू.१/१८ विव.) व्यक्तमुक्तमनेन ग्रन्थकृता योगसूत्रविवरणे इति ध्येयम् ।
'धर्ममेघ' इत्यपि अस्यैव सम्प्रज्ञातस्यैव नाम = पर्यायशब्दः सम्भवति । व्युत्पत्तिगर्भहेतुमत्राऽऽहयावत्तत्त्वभावनेन = षड्विंशतितत्त्वाऽऽलोचनेन न किञ्चित् सर्वभावाऽधिष्ठातृत्वादिकं फलं प्रार्थयति प्रत्युत तत्रापि क्लिश्नाति, परिणामित्व - विपाकविरसत्वादिदोषदर्शनेन । इत्थं फलं सर्वभावाऽधिष्ठातृत्वादिकं अलिप्सोः अनिच्छुकस्य सर्वथा = सर्वप्रकारैः निरन्तरं विवेकख्यातौ उत्पन्नायां सत्यां धर्मं उत्तमयोगधर्मं अशुक्लकृष्णं मोक्षपुरुषार्थौपयिकं मेहति सिञ्चतीति व्युत्पत्तेः । अत्र योगसूत्रसंवादमाह - 'प्रसङ्ख्यान' इति । अस्य व्यासकृतं योगसूत्रभाष्यम् यदापि ब्राह्मणः प्रसङ्ख्यानेऽप्यकुसीदः' ततोऽपि न किञ्चित् प्रार्थयते । तत्राऽपि विरक्तस्य सर्वथा विवेकख्यातिरेव भवतीति संस्कारबीजक्षयान्नाऽस्य प्रत्ययान्तराण्युत्पद्यन्ते। तदाऽस्य धर्ममेघो नाम समाधिर्भवति ← (यो.सू.४/२९ भा.) इत्येवं वर्तते। भोजकृता राजमार्तण्डवृत्तिः प्रसङ्ख्यानं यावतां तत्त्वानां यथाक्रमं व्यवस्थितानां परस्परविलक्षणस्वरूपविभावनम्। तस्मिन् सत्यप्यकुसीदस्य फलमलिप्सोः प्रत्ययान्तराणामनुदये सर्वप्रकारविवेकख्यातेः परिशेषाद् धर्ममेघः समाधिर्भवति । प्रकृष्टमशुक्लकृष्णं धर्मं परमपुरुषार्थसाधकं मेहति = सिञ्चतीत धर्ममेघः । अनेन प्रकृष्टधर्मस्यैव ज्ञानहेतुत्वमित्युपपादितं भवति ← (यो.सू.४/२९ रा.मा. पृ. २०७ ) इत्येवं वर्तते । चन्द्रिकाकारस्याऽप्येवमेवाभिप्रायः ।
=
=
=
=
भावागणेशस्तु प्रसङ्ख्यानं = विवेकसाक्षात्कारः, तत्रापि योऽकुसीदः वार्धुषिकवत् सर्वभावाऽधिष्ठातृत्वादिरूपां सिद्धिं न प्रार्थयते तस्य योगविघ्नाऽभावेन सर्वथा = निरन्तरं विवेकख्यात्युदयाद् છે કે → “કૈવલ્ય અવસ્થા અન્ય ધર્મીઓ વડે અસંપ્રજ્ઞાત સમાધિ કહેવાય છે. કારણ કે તમામ વૃત્તિ વગેરેનો ઉચ્છેદ થવાથી અસંપ્રજ્ઞાતયોગના સ્વરૂપથી તે અનુવિદ્ધ છે." -
* ધર્મમઘસમાધિનો સંપ્રજ્ઞાતયોગમાં સમવતાર હ
धर्म. । धर्ममेध समाधि पर संप्रज्ञातयोगनं ४ नाम छे. अरा हे तमाम तत्त्वोनुं लावन ४२वा વડે ફલની કામનાથી રહિત એવા સાધકમાં સર્વ પ્રકારે વિવેકખ્યાતિ ઉત્પન્ન થતાં અશુક્લકૃષ્ણ ધર્મનું સિંચન કરે તે ધર્મમેઘ સમાધિ - આવી વ્યુત્પત્તિ છે. યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે ‘પ્રસંખ્યાનને
१. मुद्रितप्रतौ ‘ऽपरैः' इत्यशुद्धः पाठः ं । २. 'ख्यातो' इत्यशुद्धः पाठो मुद्रितप्रतौ । ३. मुद्रितप्रतौ ' संप्र....' इत्यशुद्धः पाठ: । ४. हस्तादर्शे 'कुशीद...' इति पाठः । ५. अकुसीदः विरक्तः ।
=
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org