________________
• व्यास-पतञ्जलि-कपिलादेः महर्षित्वाद्यभिधानसमर्थनम् • १३६७ न चैतद्गाथाकर्तुः दिगम्बरत्वेन महर्षित्वाऽभिधानं न निरवद्यमिति मूढधिया शङ्कनीयं, सत्यार्थकथनगुणेन व्यासादीनामपि हरिभद्राचार्यैस्तथाभिधानादिति द्रष्टव्यम् ।।२०।। होउण दिढचरित्तो दिढसमत्तेण भावियमईओ । झायंतो अप्पाणं परमपयं पावए जोई ।। जे झायंति सदव्वं परदव्वपरम्मुहा हु सुचरित्ता । ते जिणवराण मग्गे अणुलग्गा लहदि णिव्वाणं ।।
- (मो.प्रा.४८,४९,१९) इति भावनीयमतिगम्भीरबुद्ध्या यथावस्थितनयविभागविज्ञानाऽनुविद्धध्यानविशारदैः । प्रकृते → यं यं भावं स्मरन् भक्तो भजते तं प्रपद्यते । यादृशी भावना यस्य तादृक्सिद्धिं ददाम्यहम् ।। - (म.गी.२/१२६) इति महावीरगीतावचनमप्यनुयोज्यं यथातन्त्रम् ।
सत्यार्थकथनगुणेन = यथावस्थिततत्त्वप्रतिपादनगुणेन हेतुना व्यासादीनामपि आदिपदेन पतञ्जलिप्रभृतीनां ग्रहणं, हरिभद्राचार्यः तथाभिधानात् = मुनि-महर्षि-भगवदादिपदैरभिधानात् । ____तदुक्तं योगदृष्टिसमुच्चयवृत्तौ → मुनीनां = भगवत्पतञ्जलि-भदन्तभास्कर-बन्धुभगवद्दत्तादीनां योगिनाम् + (यो.दृ.स.१६) इति । तत्रैव चाग्रे ‘महामतिः पतञ्जलिः' (यो.दृ.स.१०० वृत्ति) इत्युक्तम् । तदुक्तं शास्त्रवार्तासमुच्चयेऽपि → एवं प्रकृतिवादोऽपि विज्ञेयः सत्य एव हि । कपिलोक्तत्वतश्चैव दिव्यो हि स महामुनिः ।। - (शा.वा.३/४४), → बुद्धो महामुनिः + (शा.वा.६/५३) इति । योगबिन्दुवृत्तौ अपि → योगमार्गज्ञैः = अध्यात्मविद्भिः पतञ्जलिप्रभृतिभिः तपोनिधूतकल्मषैः 6 (यो.बि.६६ वृ.) इत्युक्तम् । तत्रैवाग्रे → भगवद्गोपेन्द्रोक्तम् + (यो.बि.१०० वृत्ति) इत्युक्तम् । तत्रैव चाग्रे → अन्यैः = नेपथ्यमात्रभेदतोऽस्मद्विलक्षणैः मुख्ययोगिभिः = शुद्धमार्गदर्शितया तत्त्वरूपै
र्धार्मिकैः + (यो. बि.२३७ वृ.) इत्युक्तम् । ___सत्यार्थप्रतिपादकत्वेऽपि तेषां तथात्वाऽनभ्युपगमो दृष्टिसंमोहदोषविलासमात्रम् । तदुक्तं षोडशके श्रीहरिभद्रसूरिभिरेव → गुणतः तुल्ये तत्त्वे संज्ञाभेदाऽऽगमाऽन्यथादृष्टिः । भवति यतोऽसावधमो दोषः खलु दृष्टिसंमोहः ।। 6 (षो.४/११) इति । न च दिगम्बरत्वादेव मोक्षानुपपत्तिरिति वाच्यम्, समभावभावितत्वे मोक्षाऽनुपपत्तिविरहात् । तदुक्तं सम्बोधप्रकरणे → सेयंबरो य आसंबरो य बुद्धो य अहव अन्नो वा। समभावभाविअप्पा लहेइ मुक्खं न संदेहो ।। - (सं.प्र.३) इति। प्रकृते → न श्वेताम्बरत्वे न दिगम्बरत्वे न तत्त्ववादे न च तर्कवादे । न नैयायिके न मीमांसके च कषायमुक्तिरेव किल मुक्तिः ।। - ( ) इत्यपि विभावनीयं मोक्षमार्गस्थक्षयोपशमवद्भिः ।।२०/२०॥
“આ ગાથા કરનાર દિગંબર હોવાથી તેમને મહર્ષિ તરીકે નવાજેલ છે તે નિર્દોષ નથી, પણ દોષગ્રસ્ત = અસત્ય છે'- આ પ્રમાણે મૂઢ બુદ્ધિથી શંકા ન કરવી. કારણકે સાચા પદાર્થને કહેવા સ્વરૂપ ગુણના લીધે વ્યાસ વગેરેને પણ શ્રીહરિભદ્રસૂરિજીએ મહાત્મા, મહર્ષિ, ભગવાન વગેરે શબ્દોથી નવાજેલ छ. म पात ध्यानमा रामवी. (२०/२०) ।
विशेषार्थ :- " ध्यान भरित हो सोही सातमध्यान. मेहमा धुं मोर नरि" -2 स्ति અહીં અનાયાસે યાદ આવી જાય છે. નવપદપૂજામાં જણાવેલ છે કે “અરિહંત પદ ધ્યાતો થકો દ્રવ્યગુણ-પક્ઝાય રે, ભેદ-છેદ કરી આતમા, અરિહંતરૂપી થાય રે.” મૂળભૂત સ્વભાવે અરિહંતના શુદ્ધ અસંગ ચૈતન્યસ્વરૂપમાં અને આપણા આત્માના સ્વરૂપમાં કોઈ જ ફરક નથી. આપણો આત્મા જ
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International