SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ • द्रव्य-गुण-पर्यायस्वरूपाऽऽलोचनम् • द्वात्रिंशिका-२०/२० महर्षिभिरुक्तं । यतः पठ्यते- “जो जाणइ अरहन्ते दव्वत्त-गुणत्त-पज्जयत्तेहिं । सो जाणइ अप्पाणं मोहो खलु जाइ तस्स लयं ।।” (प्रवचनसार-१/८०) । ___अत्र प्रवचनसारसंवादमाह- 'जो' इति । अत्र अमृतचन्द्रकृता तत्त्वप्रदीपिकावृत्तिरेवम् → यो हि नामाऽर्हन्तं द्रव्यत्व-गुणत्व-पर्ययत्वैः परिच्छिनत्ति स खल्वात्मानं परिच्छिनत्ति, उभयोरपि निश्चयेनाऽविशेषात् । अर्हतोऽपि पाककाष्ठागतकार्तस्वरस्येव परिस्पष्टमात्मरूपं, ततस्तत्परिच्छेदे सर्वात्मपरिच्छेदः । तत्राऽन्वयो द्रव्यं, अन्वयविशेषणं गुणः, अन्वयव्यतिरेकाः पर्यायाः । तत्र भगवत्यर्हति सर्वतो विशुद्धे त्रिभूमिकमपि स्वमनसा समयमुत्पश्यति । यश्चेतनोऽयमित्यन्वयस्तद्र्व्यं, यच्चान्वयाश्रितं चैतन्यमिति विशेषणं स गुणः, ये चैकसमयमात्राऽवधृतकालपरिमाणतया परस्परपरावृत्ता अन्वयव्यतिरेकास्ते पर्यायाश्चिद्विवर्तनग्रन्थय इति यावत् । अथैवमस्य त्रिकालमप्येककालमाकलयतो मुक्ताफलानीव प्रालम्बे प्रालम्बे चिद्विवर्ताश्चेतन एव संक्षिप्य विशेषणविशेष्यत्ववासनाऽन्तर्धानाद्धवलिमानमिव प्रालम्बे चेतन एव चैतन्यमन्तर्हितं विधाय केवलं प्रालम्बमिव केवलमात्मानं परिच्छिन्दतस्तदुत्तरोत्तरक्षणक्षीयमाणकर्तृकर्मक्रियाविभागतया निष्क्रियं चिन्मात्रं भावमधिगतस्य जातस्य मणेरिवाऽकम्पप्रवृत्तनिर्मलाऽऽलोकस्याऽवश्यमेव निराश्रयतया मोहतमः प्रलीयते। यद्येवं लब्धो मया मोहवाहिनीविजयोपायः - (प्र.सा.१/८० त.प्रदी.) इति । प्रकृते जयसेनकृता तात्पर्यवृत्तिस्त्वेवम् → जो जाणदि अरहंतं = यः कर्ता जानाति, कं = अरहन्तं, कैः कृत्वा दव्वत्त-गुणत्त-पज्जयत्तेहिं = द्रव्यत्व-गुणत्व-पर्यायत्वैः, सो जाणदि अप्पाणं स पुरुषोऽर्हत्परिज्ञानात्पश्चादात्मानं जानाति, मोहो खलु जादि तस्स लयं तत आत्मपरिज्ञानात्तस्य मोहो = दर्शनमोहो लयं = विनाशं = क्षयं यातीति । तद्यथा- केवलज्ञानादयो विशेषगुणा, अस्तित्वादयः सामान्यगुणाः, परमौदारिकशरीराऽऽकारेण यदात्मप्रदेशानामवस्थानं स व्यञ्जनपर्यायः, अगुरुलघुकगुणषड्वृद्धिहानिरूपेण प्रतिक्षणं प्रवर्तमाना अर्थपर्यायाः, एवंलक्षणगुणपर्यायाधारभूतममूर्तमसंख्यातप्रदेशं शुद्धचैतन्याऽन्वयरूपं द्रव्यं चेति । इत्थम्भूतं द्रव्य-गुण-पर्यायस्वरूपं पूर्वमर्हदभिधाने परमात्मनि ज्ञात्वा पश्चान्निश्चयनयेन तदेवाऽऽगमसारपदभूतयाऽध्यात्मभाषया निजशुद्धात्मभावनाभिमुखरूपेण सविकल्पस्वसंवेदनज्ञानेन तथैवाऽऽगमभाषयाऽधःप्रवृत्तिकरणापूर्वकरणानिवृत्तिकरणसंज्ञदर्शनमोहक्षपणसमर्थपरिणामविशेषबलेन पश्चादात्मनि योजयति । तदनन्तरमविकल्पस्वरूपे प्राप्ते यथा पर्यायस्थानीयमुक्ताफलानि गुणस्थानीयं धवलत्वं चाभेदनयेन हार एव, तथा पूर्वोक्तद्रव्य-गुण-पर्याया अभेदनयेनात्मैवेति भावयतो दर्शनमोहाऽन्धकारः प्रलीयते इति भावार्थः - (ता.वृ.१/८०) इति । अभिनवकर्मबन्धनिवारकाऽर्हद्ध्यानोत्तरं शुद्धात्मस्वरूपाऽवधान एव तत्त्वतः सकलशास्त्रज्ञातृत्व-मोक्षलाभयोः सम्भवः । तदुक्तं कार्तिकेयानुप्रेक्षायां → जो अप्पाणं जाणदि असुइसरीरादु तच्चदो भिन्नं । जाणगरूवसरूवं सो सत्थं जाणदे सव्वं ।। 6 (का.अनु.४६५) इति । तदुक्तं मोक्षप्राभृते अपि → परमपयं झायंतो जोई मुच्चय मलदलोहेण । णाऽऽदयदि णवं कम्मं णिद्दिटुं जिणवरिंदेहिं ।। કે પ્રવચનસાર ગ્રંથમાં મહર્ષિ કુંદકુંદ આચાર્ય દ્વારા કહેવાયેલ છે કે “જે દ્રવ્યત્વ, ગુણત્વ અને પર્યાયત્વ દ્વારા અરિહંતને જાણે છે તે પોતાના આત્માને જાણે છે. ખરેખર તેનો મોહ વિલીન થાય છે.” Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy