SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३६२ • गुणस्थानकानुसारेण बहिरात्मादिप्रतिपादनम् • द्वात्रिंशिका-२०/१८ ___ अन्य इति । अन्ये पुनराहुः- मिथ्यात्व-सम्यक्त्व-केवलज्ञानभागिनो = बाह्यात्माऽन्तरात्मपरमा-त्मानः ते तु मिश्रे च क्षीणमोहे चाऽयोगिनि च गुणस्थाने क्रमेण विश्रान्ताः। तत्र च बाह्यात्मताद-शायाम न्तरात्म-परमात्मनोः शक्तिस्तदेकद्रव्यत्वात् , अन्तरात्मदशायां च परमात्मनः शक्तिः बाह्या-त्मनस्तु भूतपूर्वनयेन योगः, परमात्मतादशायां च बाह्यात्माऽन्तरात्मनोयोरपि क्षीणमोहवीतरागपर्यवसानगुणस्थानकवर्ती त्वन्तरात्मा, ततः परं च परमात्मा । तत्र च = तेषु मध्ये बाह्यात्मतादशायां = आद्यगुणस्थानत्रितयाऽन्यतराऽवस्थायां अन्तरात्म-परमात्मनोः शक्तिः = तथापरिणमनाऽन्तरङ्गसामर्थ्यं वर्तते, तदेकद्रव्यत्वात् = तयोरभिन्नद्रव्योपादानत्वात् । यदेवाऽऽत्मद्रव्यमाद्यगुणस्थानत्रितयोपादानं भवति तदेवाऽन्तरात्म-परमात्मतादशयोरिति तदेकद्रव्यत्वं स्फुटमेव । इत्थमेव अन्तरात्मदशायाञ्च परमात्मनः शक्तिः = परमात्मपरिणमनाऽन्तरङ्गसामर्थ्यं वर्तते, तदेकद्रव्यत्वात् । बाह्यात्मनस्तु भूतपूर्वनयेन = अतीतकालीनाऽर्थग्राहकनयमतेन योगः = अन्तरात्मदशायामस्तित्वम् । परमात्मतादशायाञ्च = केवलज्ञानाऽवस्थायाञ्च बाह्यात्माऽन्तरात्मनोः द्वयोरपि भूतपूर्वनयेनैव योगः = सत्त्वं इति वदन्ति । यथा → जयति नवनलिनकुवलयवियसियवत्तपत्तलदलच्छो। वीरो गयंदमयगलसललियगयविक्कमो भगवं ।। 6 (चं.प्र.१) इति चन्द्रप्रज्ञप्तिसूत्रे जयतिपदार्थस्य वर्तमानकालीन-रागादिपराभवानुकूलकृतिमत्त्वस्य वीरस्वामिनि विरहेऽपि भूतपूर्वनयेनाऽस्तित्वमुपगम्यते तथैवेदमपि द्रष्टव्यम् ।। तदुक्तं अध्यात्ममतपरीक्षावृत्तौ → व्यक्त्या बाह्यात्मा शक्त्या परमात्माऽन्तरात्मा च । व्यक्त्याऽन्तरात्मा तु शक्त्या परमात्मा, अनुभूतपूर्वनयेन च बाह्यात्मा । व्यक्त्या परमात्मा अनुभूतपूर्वनयेनैव बाह्यात्माऽन्तरात्मा चेति । तथा च सङ्ग्रहगाथे → 'वत्तीए बज्झप्पा सत्तीए दो वि अंतरप्पा य । सत्तीए परमप्पा बज्झप्पा भूअपुव्वेणं ।। वत्तीए परमप्पा दो वि पुण णएण भूअपुव्वेणं । मीसे खीणसजोगे सीमन्धरा ते तओ हुंति' ।। ( ( ) यद्यपि शक्तिरत्र न तिर्यक्सामान्यं, मिथ्यादृष्टेः सम्यग्दृष्टितुल्यत्वाऽभावात्, येन केनचिद्धर्मेण तुल्यत्वस्याऽतिप्रसङ्गात् । नाऽप्यूर्ध्वतासामान्यं, पूर्वापरपर्यायसाधारणद्रव्यस्यैव तथात्वेन यत्र बाह्यात्मन्यन्तरात्मादिपर्यायो न भूतो न वा भावी तत्राऽन्तरात्मादिशक्त्यभावप्रसङ्गात्, भूतपूर्वबाह्यात्मन्यन्तरात्मनि बाह्यात्मशक्तिप्रसङ्गाच्च । न च प्राप्यभावानामप्राप्तत्वाऽवस्थैवाऽस्त्वत्र शक्तिरिति वाच्यम्, प्राप्यत्वं हि वर्तमानप्रागभावप्रतियोगिप्राप्तिकत्वम् इति प्राच्यदोषाऽनुद्धारात् । एतेन ‘शक्तिधर्मविशेष एव' इत्यपि परास्तं, थाय छे. (२०/१८) ટીકાર્થ :- અન્ય વિદ્વાનો એમ કહે છે કે મિથ્યાત્વગુણસ્થાનકથી માંડીને મિશ્રગુણસ્થાનક સુધી જીવ બાહ્યાત્મા કહેવાય છે. અવિરત સમકિતદૃષ્ટિથી માંડીને ૧૨મા ક્ષીણમોહગુણસ્થાન સુધી જીવ અંતરાત્મા કહેવાય છે. કેવલજ્ઞાનવાળા જીવો પરમાત્મા કહેવાય છે. ૧૩માં ગુણસ્થાનક અને ૧૪મા ગુણસ્થાનકમાં રહેલા કેવલી પરમાત્મા કહેવાય છે. તેમાં બાહ્યાત્મદશામાં અંતરાત્મા અને પરમાત્માની શક્તિ રહેલી છે. કારણ કે તેનું આત્મદ્રવ્ય એક જ છે. તથા અંતરાત્મદશામાં પરમાત્માની શક્તિ છે અને બાહ્યાભાનો •.... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy