________________
• तात्त्विकाऽतात्त्विकैकत्वपरिणामविचारः . द्वात्रिंशिका-२०/१७ च स्वेतरभेदप्रतियोगित्व-ध्यातृत्व-ध्येयत्वैानोपयोगस्तात्त्विकाऽतात्त्विकैकत्वपरिणामतश्च सन्निवेदान्तिनयानुसारेणाऽवगन्तव्यम् ।
- नन्वेतेषां कथं समापत्तिस्वरूपे ध्याने उपयोगः सम्भवति ? इत्याशङ्कायामाह- एतेषां च = निरुक्तस्वरूपाणाञ्च बाह्याऽत्मान्तरात्म-परमात्मनां यथाक्रमं स्वेतरभेदप्रतियोगित्व-ध्यातृत्व-ध्येयत्चैः ध्यानोपयोगः = समापत्त्युपकारकत्वं सम्भवति । तथाहि स्वपदेन बाह्यात्मनो ग्रहणं, तदितरश्चान्तरात्मा, तस्मिन् यो भेदो वर्तते तत्प्रतियोगित्वं बाह्यात्मनः। ततश्चाऽऽत्मत्वेन गृह्यमाणे कायादौ बाह्यात्मनि स्वेतराऽन्तरात्मनिष्ठभेदप्रतियोगित्वमिति फलितम् । 'नाहं कायेन्द्रियाऽन्तःकरण-शब्द-विकल्प-कर्म-पुद्गलादिः' इत्येवं ध्यातुः ध्यानकालीनपरामर्श सति ध्यातृनिष्ठभेदनिरूपितप्रतियोगित्वं कायादेवर्तते । इत्थं मिथ्याज्ञाननिवर्तकविधया भेदीयप्रतियोगित्वरूपेण कायादिः बहिरात्मा ध्याने उपयुज्यते, अन्तरात्मा तु ध्यातृत्वेन रूपेण परमात्मा च ध्येयत्वरूपेण । तदुक्तं अध्यात्ममतपरीक्षावृत्तौ → अन्तरात्मनो ध्यातृत्वेन, बाह्यात्मनः स्वान्तरात्मनि स्वभेदज्ञानेन मिथ्याज्ञाननिवृत्तिप्रयोजकतया ध्यानोपयोगित्वात् (अ.परी. १२५ वृत्ति) इति ।
तदुक्तं आत्मदर्शनगीतायामपि → पौद्गलिकेषु भावेषु, राग-द्वेषौ परित्यजन् । अन्तरात्मनि यो मग्नः परमात्मानं स पश्यति ।। (आ.द.गी.३१) 6 इति । प्रकृते → आत्मनि परमात्मानं पश्यन्ति ज्ञानयोगिनः । शून्यमिव जगत् सर्वं न च पश्यन्ति पण्डिताः ।। - (कृ.गी.९३) इति कृष्णगीतावचनमप्यनुयोज्यमागमाऽनुसारेण । शुभचन्द्रेणापि ज्ञानार्णवे → अपास्य बहिरात्मानं सुस्थिरेणान्तरात्मना । ध्यायेद् विशुद्धमत्यन्तं परमात्मानमव्ययम् ।। 6 (ज्ञाना. ३२/१०) इत्युक्तम् । मोक्षप्राभृतेऽपि → आरुहवि अंतरप्पा बहिरप्पा छंडिऊण तिविहेण । झाइज्जइ परमप्पा उवइटुं जिणवरिंदेहिं ।। - (मो.प्रा.७) इत्युक्तं कुन्दकुन्दस्वामिना। ध्येय-परमात्मादीनामेकार्थत्वमेव, तदुक्तं नयचक्रे → धेयं सुद्धं परमं एयट्ठा हुंति अभिहाणा 6 (न.च.४) इति ।
ननु बहिरात्मादीनामसनिहितानां कथं ध्यानोपयोगिता स्याद् इति चेत् ? अत्रोच्यते- एतेषां मध्ये बाह्यात्म-परमात्मनोः यथाक्रम तात्त्विकाऽतात्त्विकैकत्वपरिणामतश्च अन्तरात्मनि सन्निधानं = समवधानं सम्भवति । तथाहि- कायादेः बाह्यात्मनोऽतात्त्विकैकत्वपरिणामतः ध्येयस्वरूपस्य च परमात्मनः तात्त्विकैकत्वपरिणामतोऽन्तरात्मनि सन्निधानं सम्भवति । ध्यातुः कायादिना साकमेकत्वपरिणामः तादात्म्याऽध्यासलक्षणो ह्यतात्त्विको भवति, परमात्मना साकञ्च अंशतः कात्स्न्र्येन वा तादात्म्यानुभवलक्षण एकत्वपरिणामः तात्त्विकः, शक्त्या तस्य तत्राऽवस्थितत्वात् । अध्यात्म-भावना-ध्यानादिलक्षणाया अताજુદી-જુદી રીતે થાય છે. પરમાત્મા ધ્યેય તરીકે અને અન્તરાત્મા ધ્યાતા તરીકે ઉપયોગી છે.જ્યારે બાહ્યાત્માનો અન્તરાત્મામાં રહેલ ભેદના પ્રતિયોગી તરીકે ધ્યાનમાં ઉપયોગ થાય છે. પરમાર્થથી અંતરાત્મા બાહ્યાત્માથી = કાયાથી ભિન્ન છે. માટે અંતરાત્મામાં બાહ્યાત્માનો એકત્વપરિણામ અતાત્ત્વિક છે. જ્યારે અંતરાત્મામાં પરમાત્માનો એકત્વપરિણામ તાત્ત્વિક છે. માટે અંતરાત્મામાં બાહ્યાત્માનું સન્નિધાન = હાજરી १. मुद्रितप्रतौ 'तात्त्विकैकत्व.....' इति त्रुटितः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org