SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ • अन्तरात्माद्यवान्तरप्रकारप्रतिपादनम् . १३५९ आत्मधिया समुपात्तः कायादिः कीर्त्यतेऽत्र बहिरात्मा । कायादेः समधिष्ठायको भवत्यन्तरात्मा तु ।। चिद्रूपानन्दमयो निःशेषोपाधिवर्जितः शुद्धः । अप्रत्यक्षोऽनन्तगुणः परमात्मा कीर्तितः तज्ज्ञैः ।। - (यो.शा.१२/७-८) इति । प्रकृतेऽन्तरात्माऽविरतसम्यग्दृष्टि-देश-सर्वविरतभेदेन त्रिविधः, परमात्मा चाऽर्हत्सिद्धभेदेन द्विविधः । तदुक्तं कार्तिकेयाऽनुप्रेक्षायां → जीवा हवंति तिविहा बहिरप्पा तह य अंतरप्पा य । परमप्पा वि य दुविहा अरहंता तह य सिद्धा मिच्छत्तपरिणदप्पा तिव्वकसाएण सुट्ट आविट्ठो । जीवं देहं एक्कं मण्णंतो होवि बहिरप्पा ।। जे जिणवयणे कुसला भेयं जाणंति जीव-देहाणं । णिज्जियदुट्ठट्ठमया अंतरप्पा य ते तिविहा ।। पंचमहव्वयजुत्ता धम्मे सुक्के वि संठिदा णिच् । णिज्जियसयलपमाया उक्किट्ठा अंतरा होति ।। सावयगुणेहिं जुत्ता पमत्त-विरदा य मज्झिमा होति । जिणवयणे अणुरत्ता उवसमसीला महासत्ता ।। अविरय सम्मादिट्ठी होति जहण्णा जिणिंदपयभत्ता । अप्पाणं जिंदंता गुणगहणे सुट्ठ अणुरत्ता ।। ससरीरा अरहंता केवलणाणेण मुणियसयलत्था । णाणसरीरा सिद्धा सव्वुत्तमसुक्खसंपत्ता ।। 6 (का.अ.१९२-१९८) इति । उद्योतनसूरिभिः कुवलयमालायां परमात्मस्वरूपं → तित्थयरो लोयगुरू सव्वण्णू केवली जिणो अरहा। सुगओ सिद्धो बुद्धो पारगओ वीयरागो य ।। सो अप्पा परमप्पा सुहुमो य निरंजणो य सो चेव । अव्वत्तो अच्छेज्जो अब्भेज्जो अक्खओ परमो ।। (कुव.मा.पृ. २०२) इत्येवमुपदर्शितं तदप्यत्राऽनुसन्धेयम् । शुभचन्द्रेणाऽपि ज्ञानार्णवे → आत्मबुद्धिः शरीरादौ यस्य स्यादात्मविभ्रमात् । बहिरात्मा स विज्ञेयो मोहनिद्राऽस्तचेतनः ।। बहिर्भावानतिक्रम्य यस्याऽऽत्मन्यात्मनिश्चयः । सोऽन्तरात्मा मतस्तज्ज्ञैर्विज्ञभ्रमध्वान्तभास्करैः ।। निर्लेपो निष्कलः शुद्धो निष्पन्नोऽत्यन्तनिवृत्तः । निर्विकल्पश्च शुद्धात्मा परमात्मेति वर्णितः ।। - (ज्ञाना. ३२/६-७-८) इति गदितम् । समाधिशतकापराभिधाने समाधितन्त्रे च → बहिरन्तःपरश्चेति त्रिधात्मा सर्वदेहिषु । उपेयात् तत्र परमं मध्योपायाद् बहिस्त्यजेत् ।। बहिरात्मा शरीरादौ जाताऽऽत्मभ्रान्तिरान्तरः । चित्तदोषात्मविभ्रान्तिः परमात्माऽतिनिर्मलः ।। निर्मलः केवलः शुद्धो विविक्तः प्रभुरव्ययः । परमेष्ठी परात्मेति परमात्मेश्वरो जिनः ।। - (स.तं.४-६) इत्युक्त्या त्रयो ह्यात्मानः देवनन्द्याचार्येणोक्ताः । मोक्षप्राभृते कुन्दकुन्दस्वामिनाऽपि → अक्खाणि बाहिरप्पा अंतरअप्पा हु अप्पसंकप्पो । कम्मकलंकविमुक्को परमप्पा भण्णए देवो - (मो.प्रा.५) इत्युक्तम् । → त्रिविधः पुरुषः । तद्यथा- (१) बाह्यात्मा, (२) अन्तरात्मा, (३) परमात्मा च - (आत्म.१) इत्यादिनोपक्रम्य आत्मोपनिषदि यद् बाह्यात्मादिस्वरूपं विस्तरेणोक्तं तत्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy