________________
१३५८
• ध्यानविहीनस्य बहिरात्मत्वम् • द्वात्रिंशिका-२०/१७ बाह्यात्मा चान्तरात्मा च परमात्मेति च त्रयः। कायाऽधिष्ठायक-ध्येयाः प्रसिद्धा योगवाङ्मये ।।१७।।
बाह्यात्मा चेति । कायः = स्वात्मधिया प्रतीयमानः 'अहं स्थूलोऽहं कृश' इत्याद्युल्लेखेन, अधिष्ठायकः = कायचेष्टाजनकप्रयत्नवान् ध्येयश्च ध्यानभाव्यः (=कायाधिष्ठायकध्येयाः)। एते त्रयो बाह्यात्मा चान्तरात्मा च परमात्मा चेति योगवाङ्मये = योगशास्त्रे प्रसिद्धाः । एतेषां ज्ञानलक्षणप्रत्यासत्त्या प्रसङ्गसङ्गत्या वा सन्निहितं उपदर्शयति- 'बाह्येति । काय इति उपलक्षणाद् इन्द्रियाऽन्तःकरणानां काञ्चन-कामिनी-कुटुम्बादीनाञ्च ग्रहः । 'स्वात्मधिया' इति उपलक्षणात् स्वकीयत्वधिया च । ततश्च देहेन्द्रियादिषु स्वत्व-स्वीयत्वाध्यासेन निरतो बाह्यात्मेति फलितम् । तदुक्तं रत्नसारे → अप्पणाण-ज्झाण-ज्झयणसुहामियरसायजप्पाणं । मोत्तूणऽक्खाण सुहं भुंजइ सो हु बहिरप्पा ।। - (र.सा.१३५) इति । प्रकृते → बहिरत्थे फुरियमणो इंदियदारेण णिअसरूवचुओ । णियदेहं अप्पाणं अज्झवसदि मूढदिट्ठिओ ।। - (मो.प्रा.८) इति मोक्षप्राभृतवचनमपि स्मर्तव्यम् । उपयुक्तप्रतिक्रमण-प्रतिलेखनादिक्रियाणां ध्यानत्वाऽभ्युपगमे → झाणविहीणो समणो बहिरप्पा इदि विजाणाहि 6 (नि.सा.१५१) इति नियमसारवचनमपि सम्यग् ज्ञेयम् ।
कायचेष्टाजनकप्रयत्नवान् = देहाद्यात्मभेदविज्ञानोत्तरं प्रयोजनवशतो देहेन्द्रियान्तःकरणादिप्रवृत्तिहेतुयत्नाऽऽश्रयो हि अधिष्ठायको भवति । “देहादिभिन्नोऽहमात्मा न चलामि परं प्रयोजनवशतो देहं चालयामि, यद्वा मदीयकर्मवशचेतनानिःसृतप्रयत्नवशतो देहः स्वयमेव चलति, अहं तु तत्साक्षिमात्रः स्थिरैकस्वरूपः शुद्धात्मा” इत्येवं भेदविज्ञान-साक्षिभावाऽन्यतरभावितः व्यवहारतः कायादिषु तिष्ठन् निश्चयतस्तु स्वात्मन्येव सर्वदाऽवस्थितो हि परमार्थतोऽन्तरात्मोच्यत इत्याशयः। तदुक्तं योगशास्त्रे → पृथगात्मानं कायात् पृथक् च विद्यात् सदाऽऽत्मनः कायम् । उभयो दज्ञाताऽऽत्मनिश्चये न स्खलेद योगी।। अन्तःपिहितज्योतिः सन्तुष्यत्यात्मनोऽन्यतो मूढः । तुष्यत्यात्मन्येव हि बहिर्निवृत्तभ्रमो ज्ञानी ।।
(यो.शा.१२/९-१०) इति । परमात्मशब्दवाच्यस्तु ध्यानभाव्यः निरुपाधिक आत्मा । तदुक्तं अध्यात्मसारे → कायादिर्बहिरात्मा, तदधिष्ठाताऽन्तरात्मतामेति । गतनिःशेषोपाधिः परमात्मा कीर्तितः तज्ज्ञैः ।। . (अ.सा.२०/२१) इति । तदुक्तं योगशास्त्रेऽपि → शवि छ.
ગાથાર્થ :- યોગશાસ્ત્રમાં કાયાસ્વરૂપ બાહ્યાત્મા, અધિષ્ઠાયકસ્વરૂપ અંતરાત્મા અને ધ્યેયસ્વરૂપ ५२मात्मा - प्रभारी मात्मा प्रसिद्ध छे. (२०/१७)
હ બાહાત્મા - અંતરાત્મા - પરમાત્માની ઓળખાણ હ ટીકાર્થ:- “હું સ્કૂલ છું. હું દૂબળો છું.” ઈત્યાદિ ઉલ્લેખથી સ્વાત્મબુદ્ધિથી પ્રતીત થતી કાયા બાહ્યાત્મા છે. કાયામાં પ્રવૃત્તિને ઉત્પન્ન કરનાર એવા પ્રયત્નનો આધાર = અધિષ્ઠાયક એટલે અત્તરાત્મા. તથા ધ્યાનથી જેને ભાવિત કરવાના છે તે પરમાત્મા કહેવાય. આ રીતે બાહ્યાત્મા, અત્તરાત્મા અને પરમાત્માએમ ત્રણ પ્રકારના આત્મા યોગશાસ્ત્રમાં પ્રસિદ્ધ છે. આ ત્રણેયનો ધ્યાનમાં = સમાપત્તિમાં ઉપયોગ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org