________________
• सप्तविधसमाध्यङ्गसमवतारः
१३५५
शुद्धस्याऽभाव्यत्वे विशिष्टस्याऽपि तत्त्वाऽयोगात्, विशेषणसम्बन्धं विना वैशिष्ट्यस्याऽपि दुर्वचत्वाच्चेति । तथा च ग्रहीतृसमापत्तिर्वाङ्मात्रमेवेति भावः ।। १५ ।।
माणा(द्वा.द्वा.२४/४ भाग-६ पृ. १६२५ ) ऽबाह्याऽनाबाधपरज्योतिः साक्षात्कारायोपयुज्यत इत्यस्माकं प्रतिभाति। तत्राऽऽद्ययोः द्वयोः दर्शनसमापत्त्योः अपुनर्बन्धकलब्धयोरध्यात्मयोगे, तृतीयायाश्च भावनायोगे चतुर्थ्याश्च ध्यानयोगे समवतारः कार्यो यथाऽऽगमं समाकलितस्व - परतन्त्रसिद्धान्तरहस्यैः ।
एवमेव दीघनिकाये मज्झिमनिकाये च (१) सतिसम्बोज्झङ्गो, (२) धम्मविचयसम्बोज्झङ्गो, (३) वीरियसम्बोज्झङ्गो, (४) पीतिसम्बोज्झङ्गो, (५) पस्सद्धिसम्बोज्झङ्गो, (६) समाधिसम्बोज्झङ्गो, (७) उपेक्खासम्बोज्झङ्गो ← ( दी . नि . ३ ।५ । १५१ -पृष्ठ ७८ + म.नि. भा. १ ) इत्येवं यानि सम्बोध्यङ्गानि दर्शितानि तत्राद्यानां चतुर्णामध्यात्म-भावनायोगयोः शान्त्यपराऽभिधानप्रश्रब्धिप्रभृतिसम्बोध्यङ्गानां चत्रयाणां ध्यानादियोगे समवतारो यथागमं अधिकारि - प्रयोजन - शुद्ध्यादिभेदेन कार्यो नानातन्त्रविशारदैः । ननु शुद्धस्याऽऽत्मनः चिद्रूपस्य भावनाविषयतैव न सम्भवति, सूक्ष्मत्वेन अदृष्टत्वात् । अतः पञ्चमहाभूतास्मितादेस्तदुपहितपुरुषस्य वा भाव्यता पारमार्थिक्यां समापत्तौ स्वीकर्तव्येति चेत् ? मैवम्, शुद्धस्य पुरुषस्य अभाव्यत्वे भावनाविषयत्वाऽनङ्गीकारे तु विशिष्टस्यापि = भूतेन्द्रियान्तःकरणाद्युपहितस्यापि पुरुषस्य तत्त्वाऽयोगात् भावनाविषयत्वाऽसम्भवात् परमार्थतः स्वस्वभावाऽविशिष्टस्य हेतुसहस्रेणाऽपि विशेषयितुमशक्यत्वात् । न हि पिशाचस्याऽदृश्यत्वे घटविशिष्टस्य तस्य दृश्यत्वं सम्भवति, सम्भवे वा विशेषणमात्रे तत्पर्यवसानात् ।
वस्तुतः साङ्ख्यदर्शने योगदर्शने वा पुरुषस्य सर्वदाऽविशिष्टत्वमेव । तत्र परिणामित्वापत्तिभिया ज्ञानवैशिष्ट्यमपि नाभ्युपगम्यते पातञ्जलैः किमुत अस्मिता- भूतेन्द्रियाऽन्तःकरणादिवैशिष्ट्यम् ? ज्ञानसम्बन्धस्याऽनुपचरितस्य पुरुषे सत्त्वे परिणामित्वापत्तौ अस्मिता - भूतेन्द्रियाऽन्तःकरणादिसम्बन्धस्य पारमार्थिकस्य तत्राऽभ्युपगमे सुतरां परिणामित्वापत्तिर्बाधिकेति पुरुषे विशेषणसम्बन्धोऽपि पातञ्जलैर्नाभ्युपगम्यते । इत्थं विशेषणसम्बन्धं = अस्मिताऽन्तःकरणादिसम्बन्धं विना वैशिष्ट्यस्यापि = अस्मिताऽन्तःकरणादिवैशिष्ट्यस्यापि पुरुषे दुर्वचत्वात् । उपचरितं तु वैशिष्ट्यं न स्वप्रयोजनं साधयितुमलम् । न हि गोत्वेनोपचरितः षण्ढः पयसा पात्रीं प्रपूरयति । तथा च = शुद्धपुरुषाऽभाव्यत्वनिरूपणप्रकारेण च गृहीतृसमापत्तिः पातञ्जलाभिमता वाङ्मात्रमेव अर्थशून्योक्तिरेव केवला इति भावः । आत्मनो हि सर्वथैवाऽभाव्यत्वे तु → आत्मानं परमात्मानमन्तरात्मानमेव च । ज्ञात्वा त्रिविधमात्मानं परमात्मानमाश्रयेत् ।। ← (रु.द्र. १२) इति रुद्रहृदयोपनिषद्वचनमपि व्यर्थमेव प्रसज्येत ।
किञ्चाऽदृष्टत्वेन पुरुषस्याऽभाव्यत्वेऽन्तःकरणादीनामप्यभाव्यत्वापत्तौ ग्रहणसमापत्तिरप्युच्छिद्येत ।
=
=
તથા ‘શુદ્ધ આત્મા ભાવ્ય ન હોવા છતાં અસ્મિતાના ઉપરાગથી વિશિષ્ટ આત્માને ભાવનાનો વિષય બનાવી શકાય છે'- આવું પણ કહેવું વ્યાજબી નથી. કારણ કે શુદ્ધ આત્મા ભાવનાનો વિષય ન બની શકે તો અસ્મિતાદિવિશિષ્ટ આત્મા પણ ભાવનાનો વિષય બની ન શકે. તથા વિશેષણ સ્વરૂપ અસ્મિતાદિનો સંબંધ આત્મામાં ન હોવાના કારણે પાતંજલમતાનુસાર અસ્મિતાદિનું વૈશિષ્ટ્ય પણ આત્મામાં
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org