SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ १३५४ • चतस्रो दर्शनसमापत्तयः । द्वात्रिंशिका-२०/१५ ओळारिका सञ्जा न उप्पज्जन्ति । सो निरोधं फुसति । एवं खो, पोट्ठपाद ! अनुपुब्बाभिसञ्जानिरोधसम्पजान-समापत्ति होति - (दी.नि. १/९/ पोठ्ठपादसुत्त ४१४, पृ.१६४) इति । सकसञी = स्वकसंज्ञी, स्वकसंज्ञाग्राहीति यावत् । सञ्जग्गं = संज्ञाऽग्रं, श्रेष्ठसंज्ञामिति यावत् । चेतयमानस्स = चिन्तयतः, पापियो = पापं, सेय्यो = श्रेयः । अभिसङ्खरेय्यं = अभिसंस्कुर्यां, निरुज्झेय्युं = निरुध्येरन्, ओळारिका = उदाराः, शिष्टं स्पष्टम् ।। ___अयमाशयः प्रथमध्यानचिन्तने कामसंज्ञा निरुध्यते, विवेकजप्रीतिसुखसंज्ञा उत्पद्यते । द्वितीयध्यानचिन्तने विवेकजप्रीतिसुखसंज्ञा निरुध्यते परं समाधिजप्रीतिसुखसंज्ञोत्पद्यते । तृतीयध्यानचिन्तने समाधिजप्रीतिसुखसंज्ञा निरुध्यते किन्तु उपेक्षासुखसंज्ञोत्पद्यते । चतुर्थध्यानचिन्तने उपेक्षासुखसंज्ञा निरुध्यते परन्तु अदुःखाऽसुखसंज्ञोत्पद्यते । तच्चिन्तने शील-समाधि-प्रज्ञादिसम्पबलेन रूप-प्रतिहिंसादिसंज्ञा निरुध्यते परं आकाशाऽऽनन्त्यायतनसंज्ञोत्पद्यते । तदुपेक्षाचिन्तने सा निरुध्यते परं विज्ञानानन्त्यायतनसंज्ञोपजायते । तदुपेक्षाचिन्तने सा विलीयते परन्तु आकिञ्चन्यायतनसंज्ञा सजायते । अतः 'नैव चिन्तनं नैव वाऽभिसंस्कारं करोमी'ति प्रणिधानसमेतः आर्येन्द्रियसंवरोपेतः प्रागुक्तसंज्ञानिरोधात् अभिनवोदारसंज्ञानुदयाच्च संज्ञाचेतनाप्रतिरोधशालिनी अभिसंज्ञानिरोधसम्प्रज्ञातसमापत्तिमापद्यत इति बुद्धाशयः । अयमपि समाधिः परमार्थत आत्मनो भाव्यतां विना नैव युज्यत इत्यवधेयम् । अयञ्चाऽभिसंज्ञानिरोधसम्प्रज्ञातसमाधिः ध्यानादौ नयविशेषाभिप्रायेण समवतारणीयः स्व-परतन्त्रपदार्थसमवतारनिपुणैः ।। ___इदमप्यत्रावधेयम्- बौद्धदर्शने चतस्रो दर्शनसमापत्तयः स्वीक्रियन्ते । तदुक्तं दीघनिकाये पाथिकवर्गे → एकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय पधानमन्वाय अनुयोगमन्वाय अप्पमादमन्वाय सम्मामनसिकारमन्वाय तथारूपं चेतोसमाधिं फुसति । यथासमाहिते चित्ते इममेव कायं उद्धं पादतला अधो केस-मत्थका तचपरियन्तं पूरं नानप्पकारस्स असुचिनो पच्चवेक्खति- ‘अत्थि इमस्मिं काये केसा लोमा नखा दन्ता तचो मंसं न्हारु अट्ठि अट्ठिमिजं वक्कं हदयं यकतं किलोमकं पिहकं पप्फासं अन्तं अन्तगुणं उदरियं करीसं पित्तं सेम्हं पुब्बो लोहितं सेदो मेदो अस्सु वसा खेलो सिचानिका लसिका मुत्त'न्ति । अयं पठमा दस्सनसमापत्ति । 'पुन चपरं, भन्ते, इधेकच्चो समणो वा, ब्राह्मणो वा आतप्पमन्वाय.... तथारूपं चेतोसमाधिं फुसति ।.... लसिका मुत्तन्ति । अतिक्कम्म च पुरिसस्स छविमंसलोहितं अष्टुिं पच्चवेक्खति । अयं दुतिया दस्सनसमापत्ति । इधेकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय... तथारूपं चेतोसमाधिं फुसति ।... लसिका मुत्तन्ति । अतिक्कम्म च पुरिसस्स छविमंसलोहितं अद्धिं पच्चवेक्खति । पुरिसस्स च विज्ञाणसोतं पजानाति, उभयतो अब्बोच्छिन्नं इध लोके पतिठितञ्च परलोके पतिद्वितञ्च । अयं ततिया दस्सनसमापत्ति । इधेकच्चो समणो वा ब्राह्मणो वा आतप्पमन्वाय.. तथारूपं चेतोसमाधिं फुसति ।.. लसिका मुत्त'न्ति ।.अढि पच्चवेक्खति । पुरिसस्स च विज्ञाणसोतं पजानाति, उभयतो अब्बोच्छिन्नं इध लोके अप्पतिहितञ्च परलोके अप्पतिहितञ्च । अयं चतुत्था दस्सनसमापत्ति - (दी.नि.३ ।५।१४९/ पृ.७७) इति । तत्राऽऽद्ये द्वे देहवैराग्योत्पादाय तृतीया देहाद्यतिरिक्तचैतन्याऽवबोधाय चतुर्थी च वक्ष्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy