________________
ग्रन्थकृद्वचनविरोधपरिहारः •
१३५३
तात्त्विकी = निरुपचरिता च समापत्तिरात्मनो भाव्यतां = भावनाविषयतां विना न घटते । कादीनां ध्यानादिस्थानीयसमापत्तिभाव्यता जैनदर्शनेऽभिमता, यतो निरुपचरिता च = स्वभूमिकाऽऽनुगुण्येन पारमार्थिकी हि समापत्तिः आत्मनो मुख्यतया गौणतया वा स्वभूमिकोचितां भाव्यां कर्मनिर्जराद्यर्थित्वगर्भितभावनाविषयतां विना कदापि न घटते, निरुक्तनिश्चय-व्यवहारनयाऽभिप्रेतगौण-मुख्यविषयताऽऽ लिङ्गितस्थूल सूक्ष्माऽऽभोगाऽपकर्षोत्कर्षशालितया सवितर्क -निर्वितर्क-सविचार-निर्विचारादिसमापत्तीनामध्यात्म-भावना-ध्यानसमवतारे कृते जैनराद्धान्तव्याघातो लेशतोऽपि नास्तीत्याशयः ।
यद्यपि सम्प्रज्ञाताऽसम्प्रज्ञातयोः वृत्तिसङ्क्षये समवतारो व्यवहारनयेन सम्भवति । यथोक्तं ग्रन्थकृतैव योगसूत्रविवरणे द्विविधोऽप्ययं अध्यात्म - भावना - ध्यान-समता - वृत्तिक्षयभेदेन पञ्चधोक्तस्य योगस्य पञ्चमभेदेऽवतरति । 'वृत्तिक्षयो ह्यात्मनः कर्मसंयोगयोग्यतापगमः', स्थूल सूक्ष्मा ह्यात्मनश्चेष्टा वृत्तयः, तासां मूलहेतुः कर्मसंयोगयोग्यता, सा चाऽकरणनियमेन ग्रन्थिभेदे उत्कृष्टमोहनीयबन्धव्यवच्छेदेन तत्तद्गुणस्थाने तत्तत्प्रकृत्यात्यन्तिकबन्धव्यवच्छेदस्य हेतुता क्रमशो निवर्तते तत्र पृथकत्ववितर्कसविचारैकत्ववितर्काऽविचाराऽऽख्यशुक्लध्यानभेदद्वये सम्प्रज्ञातः समाधिर्वृत्त्यर्थानां सम्यग्ज्ञानात् । तदुक्तम्- 'समाधिरेष एवान्यैः, सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण, वृत्त्यर्थज्ञानतस्तथा ।। ( योगबिंदु. ४१९) निर्वितर्कविचारानन्दास्मितानिर्भासस्तु पर्यायविनिर्मुक्तशुद्धद्रव्यध्यानाभिप्रायेण व्याख्येयः, यन्नयमालम्ब्योक्तम् ' का अरइ के आणंदे ? इत्थं पि अग्गहे चरे' (आचाराङ्ग श्रुत. १ अ. ३ उद्देश ३ सूत्र ११७ ) इत्यादि । क्षपकश्रेणिपरिसमाप्तौ केवलज्ञानलाभस्त्वसम्प्रज्ञातः समाधिः, भावमनोवृत्तीनां ग्राह्य-ग्रहणाऽऽकारशालिनीनामवग्रहादिक्रमेण तत्र सम्यक्परिज्ञानाऽभावात्। अत एव भावमनसा संज्ञाऽभावाद् द्रव्यमनसा च तत्सद्भावात् केवली नोसंज्ञीत्युच्यते ← (यो.सू.१/१७-१८ वि . ) इति तथापि प्रकृते निश्चयनयाऽपेक्षया अध्यात्मादित्रितये सम्प्रज्ञातसमवतारोऽपि न विरुध्यत इति विभावनीयं विमुक्ताभिनिवेशैर्नयविशारदैः । अनन्तनयसङ्कुले जिनप्रवचने परतन्त्रोक्तः सदर्थः प्रयोजनानुसारेण समुचितनयविवक्षयाऽन्तर्भावनीय इति तु स्याद्वादसमयस्थितिः ।
=
बौद्धैः चतुर्विधध्यानलाभोत्तरकालं रूपसंज्ञाद्यतिक्रमेण क्रमश आकाशाऽऽनन्त्याऽऽयतन-विज्ञानानन्त्यायतनाऽऽकिञ्चन्याऽऽयतनसंज्ञासमाधिलाभोत्तरं अभिसंज्ञानिरोधसम्प्रज्ञातसमाधिरुत्पद्यत इत्यङ्गीक्रियते । तदुक्तं दीघनिकाये शीलस्कन्धवर्गे भिक्खु इध सकसञ्जी होति, सो ततो अमुत्र ततो अमुत्र अनुपुब्बेन सञ्ञग्गं फुसति । तस्स सञ्ञग्गे ठितस्स एवं होति - “ चेतयमानस्स मे पापियो, अचेतय-मानस्स मे सेय्यो । अहञ्चेव खो पन चेतेय्यं, अभिसखरेय्यं, इमा च मे सञ्ञ निरुज्झेय्युं, अञ्ञा च ओळारिका सञ्ञ उप्पज्जेय्युं; यंनूनाहं न चेव चेतेय्यं न च अभिसखरेय्यन्ति । सो न चेव चेतेति, न च अभिसखरोति । तस्स अचेतयतो अनभिसखरोतो ता चेव सञ्ञा निरुज्झन्ति, अञ्ञा च
તા. । વળી બીજી મહત્ત્વની વાત એ છે કે પાતંજલ વિદ્વાનો આત્માને ભાવ્ય નથી માનતા તે વ્યાજબી નથી. કારણ કે આત્માને ભાવ્ય = ભાવનાવિષય માનવામાં ન આવે તો ઉપચારશૂન્ય તાત્ત્વિક સમાપત્તિ સંગત થઈ શકતી નથી.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org