________________
१३५२
• सम्प्रज्ञातावस्थाफलश्रुतिः • द्वात्रिंशिका-२०/१५ तस्तथा ।।" (यो.बि.४१९) इति । एष एवाऽध्यात्मादियोगः ।। काष्ठाप्राप्तः सम्प्रज्ञातयोग एव । तदुक्तं क्षपकश्रेणिमुद्दिश्य योगविंशिकावृत्तौ → सा ह्यध्यात्मादियोगप्रकर्षगर्भिताशयविशेषरूपा । एष एव सम्प्रज्ञातः समाधिः तीर्थान्तरीयैः गीयते । एतदपि सम्यग् = यथावत् प्रकर्षेण = सवितर्कनिश्चयात्मकत्वेनाऽऽत्मपर्यायाणामर्थानाञ्च द्वीपादीनामिह ज्ञायमानत्वादर्थतो नाऽनुपपन्नम् - (यो.बि.२० वृ.) इति ।
यद्यपि योगबिन्दौ → एवमासाद्य चरमं जन्माऽजन्मत्वकारणम् । श्रेणिमाप्य ततः क्षिप्रं केवलं लभते क्रमात् ।। (यो.बि.४२०) इत्येवमुक्त्या क्षपकश्रेणेः सम्प्रज्ञातकार्यत्वमावेदितं तथापि व्यवहारतः कार्ये कारणत्वोपचारात् क्षपक श्रेणेः सम्प्रज्ञातत्वं योगविंशिकावृत्त्युक्तं न विरुध्यत इति ध्येयम् । → ऐक्यबुद्धिस्तु बुद्धिः स्यात् सम्प्रदायेष्वपि भृशम्। मित्रे शत्रौ सुखे दुःखे स्त्रियां पुंसि तथैव च।। स्वर्णे लोष्ठे चैषु साम्यं द्वन्द्वेष्वन्येष्वपि ध्रुवम् । समाधिः कथितः तस्य महामहिमशालिनः ।।
6 (सं.गी.८/१६-१७) इत्येवं संन्यासगीतायां सम्प्रज्ञातसमाधिस्थानीयः यः समाधिः दर्शितः स तु ध्यानफले समतायोगेऽन्तर्भावयितुमर्हति, 'सम्प्रज्ञातः तत्त्वतो ध्यानभेदेऽवतरति' इत्यत्र ध्यानस्य समतोपलक्षकत्वात्, नानासम्प्रदायेषु नानाविधत्वाच्च सम्प्रज्ञातसमाधेरिति भावनीयम् । एवमेव दृश्यानुविद्धशब्दानुविद्धनिर्विकल्प-निःसङ्कल्प-निवृत्तिक-निर्वासनभेदेन षड्विधाः रामगीतायां (रा.गी.८/२६-२८) दर्शिताः समाधयोऽपि यथागममत्र समवतार्याः स्व-परतन्त्रसमवतारनिष्णातैः ।
तात्त्विकसम्प्रज्ञातयोगावस्थितस्य हि प्रणष्टं मोहतिमिरं, विनिवृत्तः सर्वत्राऽभिनिवेशाऽतिरेकः, व्यपगता दुष्टक्रिया, त्रुटितप्राया भववल्लरी, परिणमति चानुकूलचारिणी मैत्री, अकारणवत्सला करुणा, सदानन्दविधायिनी मुदिता, सर्वोद्वेगविघातिनी उपेक्षा, चित्तप्रसादहेतुः श्रद्धा, सद्बोधकारिणी मेधा, सन्तोषदायिनी धृतिः, परमात्मस्वरूपोपनायिका धारणा, सम्प्रहर्षनिमित्तं अनुप्रेक्षा, आह्लादकारिणी सुखासिका, निर्वाणकारणं विविदिषा, निरुपाधिकप्रमोदविधायिनी विज्ञप्तिः, भावाऽऽरोग्यकारिणी च सन्तुष्टिसुधेति यथागममवस्थाविशेषमाश्रित्याऽत्र योज्यम् ।
ननु पातञ्जलैस्तु पञ्चमहाभूतेन्द्रियात्मकभाव्येषु सवितर्कनिर्वितर्कसम्प्रज्ञातसमाधिः, तन्मात्राऽन्तःकरणस्वरूपभाव्ययोः सविचार-निर्विचारसमापत्तिः, रजस्तमोलेशानुविद्धमनःस्वरूपभाव्ये सानन्दसम्प्रज्ञातयोगः, तदननुविद्धे च तत्र सास्मितसम्प्रज्ञातः स्वीक्रियते । तत्किं जैनैरपि अध्यात्म-भावना-ध्यानेषु तादृशीनामेव समापत्तीनां समवतार इष्यते यदुतान्यादृशीनाम् ? अत्रोच्यते, निश्चयेन मुख्यतया शुद्धाऽऽत्मनो गौणरूपेण च तत्पर्यायाणामाश्रव-संवर-बन्ध-निर्जरादिरूपाणां व्यवहारेण तु मुख्यतयाऽऽत्मनः तत्पर्यायाणां च नर-नारकादिरूपाणां कर्मविपाकाद्यापादितानां गौणरूपेण चोर्ध्वादिलोकाऽलोकाकाश-धर्मास्तिकायाऽधर्मास्तिकाय-सुषमादिलक्षणकाल-सूर्यादिमण्डल-विमान-भवन-द्वीप-सागर-पर्वत-नदी-ह्रद-परमाणु-द्वयणुलोष थाय छे.' प्रस्तुत योगबिंदु अंथनी थामा 'एष एव' मा प्रभासे हेद छ तेनो अर्थ छ અધ્યાત્માદિ યોગ જ આ અર્થ અમે જણાવેલ જ છે.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org