SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ • दृश्य - शब्दानुविद्धसविकल्पसमाधिनिरूपणम् १३५१ सम्प्रज्ञात' इति । अत्र = सम्प्रज्ञाताऽसम्प्रज्ञातयोर्योगभेदयोर्मध्ये सम्प्रज्ञातस्तत्त्वतो ध्यानभेदेऽवतरति, स्थिराध्यवसानरूपत्वात्, अध्यात्मादिकमारभ्य ध्यानपर्यन्तं यथाप्रकर्षं सम्प्रज्ञातो विश्राम्यतीत्यर्थः। यदाह योगबिन्दुकृत्– “समाधिरेष एवाऽन्यैः सम्प्रज्ञातोऽभिधीयते । सम्यक्प्रकर्षरूपेण वृत्त्यर्थज्ञानसूक्ष्माऽऽभोगरूपत्वात् । अध्यात्मादिकमारभ्य ध्यानपर्यन्तं अध्यात्म-भावना-ध्यानेषु यथाप्रकर्षं प्रकृष्टतामापन्नः सम्प्रज्ञातः यथाक्रमं विश्राम्यति = पर्यवस्यति । प्राथमिकभावाऽऽपन्नः सम्प्रज्ञातोऽध्यात्मयोगे, मध्यमप्रकर्षोपेतश्च भावनायां, काष्ठाप्राप्तश्च ध्याने समवतरति इत्यर्थः । एतेन सविकल्पो निर्विकल्पस्समाधिर्द्विविधो हृदि । दृश्यशब्दाऽनुविद्धोऽयं सविकल्पः पुनर्द्विधा ।। कामाद्याश्चित्तगा दृश्यास्तत्साक्षित्वेन चेतनम् । ध्यायेद् दृश्यानुविद्धोऽयं समाधिस्सविकल्पकः ।। असङ्गस्सच्चिदानन्दः स्वप्रभो द्वैतवर्जितः । अस्मीति शब्दविद्धोऽयं समाधिस्सविकल्पकः ।। स्वानुभूतिरसावेशादृश्य- शब्दानुपेक्षितुः । निर्विकल्पसमाधिः स्यान्निवातस्थितदीपवत् ।। ← (रा.गी.८/४-७,दृग्दृ.२३ - २६) यस्तु शब्दानुविद्धस्स्यात् सम्प्रज्ञाताऽभिधश्च सः। निर्विकल्पस्तथा प्रोक्तोऽसम्प्रज्ञाताभिधो महान् ।। ( रा. गी. ८/१० दृ. दृ. १२३ ) ← इति रामगीता- दृग्दृश्यविवेकयोः वचनान्यपि समवतारितानि द्रष्टव्यानि । सरस्वतीरहस्योपनिषदि यत्किञ्चिच्छब्दभेदेनैवम्प्रायमुक्तमिति ध्येयम् । ग्रन्थकृद् अत्र योगबिन्दुसंवादमाह - 'समाधि' रिति । योगबिन्दुश्लोके 'एष एव ' इत्यनेन अध्यात्मादियोगो विवक्षितः । श्लोकस्याऽस्य सम्पूर्णा वृत्तिस्त्वेवम् समाधिरेष एव अध्यात्मादिः योगः अन्यैः तीर्थान्तरीयैः सम्प्रज्ञातः = सम्प्रज्ञातनामा अभिधीयते । कुतः ? इत्याह- सम्यक् = यथावत् प्रकर्षरूपेण सवितर्कनिश्चयात्मकेन वृत्त्यर्थज्ञानतः वृत्तीनां = नर-नारकाद्यात्मपर्यायाणां अर्थानां द्वीपाऽचलजलधिप्रभृतीनां ज्ञानतः = विकल्पात् तथा तेन प्रकारेण । यतः सम्यक् प्रकृष्टं वृत्त्यर्थज्ञानं तत्प्रकारमत्राऽस्ति ततोऽसौ समाधिः सम्प्रज्ञात इत्युच्यते ← (यो . बि . ४१९ वृ.) इति । स्याद्वादकल्पलतायां ग्रन्थकृता तु→ अत्र चतुर्विधोऽपि संप्रज्ञातसमाधिः शुक्लध्यानस्याऽऽद्यपदद्वयं प्रायो नातिशेते । षोडशकादिविषयोपवर्णनं च तत्राऽप्रामाणिकस्वप्रक्रियामात्रम्, तत्र मानाभावात्, आत्मविषयकस्यैव ध्यानस्य हेतुत्वाच्च । वितर्कश्चात्र विशिष्ट श्रुतसंस्काररूपः, विचारश्च योगान्तरसंक्रमरूपो ग्राह्यः, विशिष्टज्ञाने सविकल्पकनिर्विकल्पव्यवस्थाऽयोगात्, परिभाषामात्रस्य निरालम्बनत्वात् पृथक्त्वानभिधानेन चात्र न्यूनत्वम् । ← (शा.वा.स.१/२१ पृ.८३ ) इत्युक्तमित्यवधेयम् । शुक्लध्यानानुविद्धक्षपक श्रेणिरपि तत्त्वतो निरतिशय♦ સંપ્રજ્ઞાત સમાધિનો ધ્યાનમાં સમવતાર : ટીકાર્થ ઃ- સંપ્રજ્ઞાત અને અસંપ્રજ્ઞાત નામના બે યોગના પ્રકારોની અંદર સંપ્રજ્ઞાત યોગનો પરમાર્થથી ધ્યાનવિશેષમાં સમવતાર થાય છે. કારણ કે ધ્યાન તો સ્થિર અધ્યવસાયસ્વરૂપ છે. મતલબ કે અધ્યાત્મથી માંડીને ધ્યાન સુધીના યોગમાં પ્રકૃષ્ટતા મુજબ સંપ્રજ્ઞાત યોગ વિશ્રાન્ત થાય છે. કેમ કે યોગબિંદુમાં શ્રી હરિભદ્રસૂરીશ્વરજી મહારાજે કહેલ છે કે ‘આ અધ્યાત્માદિ યોગ જ અન્ય દર્શનીઓ વડે સંપ્રજ્ઞાત યોગ કહેવાય છે. કારણ કે યથાર્થપણે પ્રકૃષ્ટ રીતે વૃત્તિઓ પર્યાયો અને પદાર્થોનો તે પ્રકારે બેમાં १. हस्तादर्शे 'संप्रज्ञाता' इत्यशुद्धः पाठः । = = Jain Education International = = = For Private & Personal Use Only · = = www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy