________________
• विरामप्रत्ययाभ्यासमीमांसा •
१३४९ कैवल्यं = आत्मनः स्वप्रतिष्ठत्वलक्षणं उपतिष्ठते = आविर्भवति ।।१४।। किञ्चिद् वेद्यं सम्प्रज्ञायत इति असम्प्रज्ञातो निर्बीजः समाधिः - (यो.सू.१/१८ रा.मा.पृ.२३) इति । 'विरामः = वृत्तीनामभावः, तस्य प्रत्ययः = कारणं, तस्य अभ्यासः = तदनुष्ठानपौनःपुन्यं तदेव पूर्वं यस्य स तथोक्तः' (त.वै.१/१८ पृ.५८) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । न चाऽपरवैराग्याऽभ्यासस्यैव कथं न सम्प्रज्ञाते इवाऽसम्प्रज्ञाते कारणता नाश्रीयते इति शङ्कनीयम्, यतः कार्यसरूपं कारणं युज्यते, न विरूपम् । विरूपञ्चापरं वैराग्यं सालम्बनं निरालम्बनसमाधिना कार्येण । तस्माद् निरालम्बनादेव ज्ञानप्रसादमात्रात्तस्योत्पत्तिः युक्ता ।
इदमेवाभिप्रेत्य योगसूत्रभाष्ये → सालम्बनो ह्यभ्यासः तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते । स चाऽर्थशून्यः । तदभ्यासपूर्वं चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः + (यो.सू.भा.१/१८ पृ.५८) इत्युक्तं व्यासेन । “निर्वस्तुकः = नास्ति वस्तु चिन्तनीयं यत्रेत्यर्थः' (यो.वा.१/१८) इति योगवार्तिककारः । → न किञ्चित् सम्प्रज्ञायतेऽस्मिन्निति व्युत्पत्त्या असम्प्रज्ञातयोगः सर्ववृत्तिनिरोधः । तदा संस्कारमात्रशेष चित्तं तिष्ठति, अन्यथा व्युत्थानाऽनुपपत्तेः । तस्य च लक्षणं तत्त्वज्ञानसंस्काराऽदाहकत्वे सति सर्ववृत्तिनिरोधत्वम् । प्रलयादिकालीननिरोधव्यावर्तनाय सत्यन्तम् + (यो.सा.सं.पृ.५) इति तु योगसारसङ्ग्रहे विज्ञानभिक्षुः । 'असम्प्रज्ञाते ह्युत्थानार्थं वृत्तिसंस्कारमानं तिष्ठति, न तु वृत्तिः । मोक्षे तू चित्तस्याऽत्यन्तविलयात्संस्कारोऽपि न तिष्ठतीति विशेषः' (यो.सू.१/१८) इति भावागणेशः । →
प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् । असम्प्रज्ञातनामाऽयं समाधिोगिनां प्रियः ।। प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकतम् । अतद्व्यावृत्तिरूपोऽसौ समाधिMनिभावितः ।। ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् । साक्षाद्विधिमुखो ह्येष समाधिः परमर्द्धिकः ।।
- (मु.२/५४-५६) इति मुक्तिकोपनिषत्कारिका अप्यत्राऽवश्यमनुस्मर्तव्याः नानातन्त्रमतबुभुत्सुभिः । प्रकृते → निरन्तराभ्यासवशात् तदित्थं पक्वं मनो ब्रह्मणि लीयते यदा । तदा समाधिः सविकल्पवर्जितः स्वतोऽद्वयाऽऽनन्दरसाऽनुभावकः ।। 6 (वि.चू. ८) इति शङ्कराचार्यकृतविवेकचूडामणिवचनमपि वेदान्ततन्त्राऽनुसारेणाऽनुयोज्यमवहितमानसैः । अवधूतगीतायामपि → साकारं च निराकारं नेति नेतीति सर्वदा । भेदाऽभेदविनिमुक्तो वर्तते केवलः शिवः ।। - (अव.गी.१/६२) इत्येवं, मुक्तिकोपनिषदि रामगीतायां च → दर्शनाऽदर्शने हित्वा स्वयं केवलरूपतः । य आस्ते कपिशार्दूल ! ब्रह्म स ब्रह्मवित् स्वयम् ।। - (मु.२/६४, रा.गी. ) इत्येवमसम्प्रज्ञातसमाधिस्सूचित इत्यवधेयम् ।
निर्बीजाऽपराऽभिधानाऽसम्प्रज्ञातफलमाह- आत्मनः स्वप्रतिष्ठत्वलक्षणं = स्वरूपावस्थानात्मकं कैवल्यं आविर्भवति = प्रकटीभवति । तदुक्तं शाण्डिल्योपनिषदि → ज्ञेयवस्तुपरिज्ञानाद् विलयं याति मानसम्। मानसे विलयं याते कैवल्यमवशिष्यते ।। - (शां.१/४०) इति । અસંપ્રજ્ઞાતસમાધિ છે.” આત્મા નિજસ્વરૂપમાં રહે તે પાતંજલદર્શનમાં કૈવલ્ય કહેવાય છે. (૨૦/૧૪)
વિશેષાર્થ :- સંસારના વિરામનું = સમાપ્તિનું કારણ વિતર્ક-વિચાર આદિ સ્વરૂપ તમામ ચિંતાઓનો
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org