________________
१३४८
• नेति नेति भावनाविवरणम् • द्वात्रिंशिका-२०/१४ नेति नेति निरन्तराद् = अन्तररहितात् संस्कारशेषात् = 'उत्पन्नात् ततः = असम्प्रज्ञातसमाधेः, यत उक्तं- "विरामप्रत्ययाभ्यासपूर्वः संस्कारशेषोऽन्यः२” (यो.सू.१-१८) इति । → अभ्यासो हि कर्मसु कौशलमावहति 6 (का.सू.१/३/२४ वृ) इति काव्यालङ्कारसूत्रवृत्तौ वामनोक्तेः । ततः = अभ्यासमाश्रित्य → द्रष्ट्र-दर्शन-दृश्यानि त्यक्त्वा वासनया सह । दर्शनप्रथमाभासमात्मानं केवलं भज ।। - (मैत्रे.२/ २९) → नास्ति, नास्ति विमुक्तोऽस्मि, नकाररहितोऽस्म्यहम् - (मैत्रे.३/१९) इति मैत्रेय्युपनिषदर्शितया, → न वा अरे ! बाह्यो नाऽऽन्तरः सर्वविद्भारूपः - (आर्षे.८) इति आर्षेयोपनिषत्सूचितया, → जीवेश्वरौ मायिकौ विज्ञाय सर्वविशेषं नेति नेति विहाय यदवशिष्यते तदद्वयं ब्रह्म तत्सिद्धयै लक्ष्यत्रयाऽनुसन्धानः कर्तव्यः - (अद्वय.२) इति अद्वयतारकोपनिषत्कथितया, → नाऽहं नेदमिति ध्यायस्तिष्ठ त्वमचलाचलः । आत्मनो जगतश्चान्तर्दृष्ट-दृश्यदशान्तरे ।। दर्शनाख्यं स्वमात्मानं सर्वदा भावयन्भव ।।
6 (महो.६/३६-७) इति महोपनिषत्कारिकोपदर्शितया, → अथात आदेशो नेति नेति, न ह्येतस्मादिति न इत्यन्यत् परमस्ति ( (बृह.२/३/६) इति बृहदारण्यकोपनिषदुक्त्या, → यावद् यावद् मुनिश्रेष्ठ ! स्वयं संत्यज्यतेऽखिलम् । तावत् तावत् पराऽऽलोकः परमात्मैव शिष्यते ।। यावत् सर्वं न संत्यक्तं तावदात्मा न लभ्यते । सर्ववस्तुपरित्यागे शेष आत्मेति कथ्यते ।। आत्मावलोकनार्थं तु तस्मात् सर्वं परित्यजेत् । सर्वं संत्यज्य दूरेण यच्छिष्टं तन्मयो भव ।।
6 (अन्न. १/४४-४६) इति अन्नपूर्णोपनिषत्प्रदर्शितया, → सङ्कल्पमात्रमिदमुत्सृज निर्विकल्पमाश्रित्य मामकपदं हृदि भावयस्व (वरा.२/४५) इति, → प्रत्यग्ज्ञानशिखिध्वस्ते मिथ्याज्ञाने सहेतुके। नेति नेतीति रूपत्वादशरीरो भवत्ययम् ।। (वरा.२/६८) इति च वराहोपनिषत्प्रज्ञापितया रीत्या 'नेति नेति' अन्तररहितात् = व्यवधानशून्यात् विवेकख्यातिप्रयुक्तात् संस्कारशेषात् = सम्प्रज्ञातसमाधेः संस्कारशेषरूपात् उत्पन्नात् = प्रकटीभूताद् असम्प्रज्ञातसमाधेः, अस्य चाग्रे कैवल्यमुपतिष्ठत इत्यनेनाऽन्वयः । प्रकृते वेदान्त-पातञ्जलदर्शनयोरभिप्रायैक्यप्रायं वर्तते । यच्च मैत्रेय्युनिषदि अन्नपूर्णोपनिषदि वराहोपनिषदि च → मा भव ग्राह्यभावात्मा ग्राहकात्मा च मा भव । भावनामखिलां त्यक्त्वा यच्छिष्टं तन्मयो भव ।। - (मै.२/८८, अन्न.५/१०४, वरा.४/१९) इत्युक्तं तदसम्प्रज्ञातसमाधेरवश्यप्रापणीयत्वमभिव्यनक्तीत्यवधेयम् ।
__ असम्प्रज्ञातसमाधिप्रादुर्भावे योगसूत्रसंवादमाह- 'विरामेति । अस्य राजमार्तण्डवृत्तिलेश एवम् → विरम्यतेऽनेनेति विरामः = वितर्कादिचिन्तात्यागः विरामश्चासौ प्रत्ययश्चेति विरामप्रत्ययः । तस्य अभ्यासः = पौनःपुन्येन चेतसि निवेशनम् । तत्र या काचिद् वृत्तिरुल्लसति तस्या 'नेति नेतीति नैरन्तर्येण पर्युदसनं तत्पूर्वः सम्प्रज्ञातसमाधेः संस्कारशेषः अन्यः = तद्विलक्षणोऽयमसम्प्रज्ञात इत्यर्थः । न तत्र નહિ આ પ્રમાણે નિરંતર ઉત્પન્ન સંસ્કારશેષ સ્વરૂપ અસંપ્રજ્ઞાતસમાધિના નિમિત્તે કૈવલ્ય પ્રગટ થાય છે. કારણ કે યોગસૂત્રમાં જણાવેલ છે કે “વિરામપ્રત્યયના અભ્યાસપૂર્વક સંપ્રજ્ઞાત સમાધિના સંસ્કારશેષ
१. मुद्रितप्रतौ 'उत्पन्ना' इत्यशुद्धः पाठः । २. हस्तप्रतौ '...शेषादन्य' इत्यशुद्धः पाठः । योगसूत्रानुसारेण शुद्धः पाठोऽत्र योजितः। Jain Education International
For Private & Personal Use Only
www.jainelibrary.org