________________
• निर्बीजसमाधिविवरणम् •
द्वात्रिंशिका - २०/१३
'संस्कारोऽन्यसंस्कारप्रतिबन्धी ” ( यो. सू. १ - ५० ) । तस्य निरोधतः सर्वासां चित्तवृत्तीनां स्वकारणे प्रविलयात् (= तन्निरोधतः) संस्कारमात्रोदितवृत्तिलक्षणो असम्प्रज्ञातनामा समाधिः स्यात् । तदुक्तं“तस्याऽपि निरोधे सर्वनिरोधान्निर्बीजः समाधिरिति ” ( यो. सू. १-५१) ।।१३।। करोतीत्यर्थः । यतः तत्त्वरूपतयाऽनया जनिताः संस्कारा निरालम्बनत्वात् अतत्त्वरूपप्रज्ञाजनितान् संस्कारान् बाधितुं शक्नुवन्ति । अतस्तामेव प्रज्ञामभ्यसेदित्युक्तं भवति ← (यो.सू.१/५० रा.मा.) इति ।
एवं सम्प्रज्ञातसमाधिं विस्तरेणाऽभिधायाऽधुनाऽसम्प्रज्ञातसमाधिं वक्तुकाम आह- तस्य = सम्प्रज्ञातयोगस्य तज्जन्यतत्त्वसंस्कारस्य वा परेण वैराग्येण ज्ञानप्रसादमात्रलक्षणेन संस्कारोपजननद्वारा निरोधतः = उच्छेदतः सर्वासां क्लिष्टाऽक्लिष्टानां चित्तवृत्तीनां स्वकारणे सत्त्वादिगुणेषु प्रविलयात् अपुनर्भावेन तिरोभावात् संस्कारमात्रोदितवृत्तिलक्षणः = निरोधचित्तकृतसंस्कारमात्रलब्धवृत्तिकः असम्प्रज्ञातनामा समाधिः स्यात् । प्रकृते ये शुद्धवासना भूयो न जन्माऽनर्थभागिनः । ज्ञातज्ञेयास्त उच्यन्ते जीवन्मुक्ता महाधियः ।। ← (महो. २ / ४० ) इति महोपनिषद्वचनमपि यथातन्त्रमनुयोज्यम् ।
प्रकृते योगसूत्रसंवादमाह - 'तस्यापी 'ति । राजमार्तण्डव्याख्या एवम्
तस्याऽपि सम्प्रज्ञातस्य निरोधे
प्रविलये सति सर्वासां चित्तवृत्तीनां स्वकारणे विलयाद् या या संस्कारमात्राद् वृत्तिरुदेति तस्याः तस्याः 'नेति नेती'ति केवलं पर्युदसनाद् निर्बीजः समाधिराविर्भवति यस्मिन् सति पुरुषः स्वरूपनिष्ठः शुद्धो भवति ← (यो. सू. १/५१ रा.मा.) इति । तस्याप प्रज्ञाकृतस्य संस्कारस्य निरोधः, न केवलं प्रज्ञाया इत्यपिशब्दार्थः । सर्वस्योत्पद्यमानस्य संस्कारप्रज्ञाप्रवाहस्य निरोधात् कारणाऽभावेन कार्याऽनुत्पादात् सोऽयं निर्बीजः समाधिः' (यो.सू. १/५१ त. वै.) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः ।
१३४६
=
=
7
=
प्रकृते
मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः । मैत्र्यादिवासनानाम्नीर्गृहाणाऽमलवासनाः ।। ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि । अन्तः शान्तः समस्नेहो भव चिन्मात्रवासनः ।। तामप्यथ परित्यज्य मनो- बुद्धिसमन्विताम् । शेषस्थिरसमाधानो मयि त्वं भव मारुते ! ।।
← (मु.उप.२/६९-७१) इति मुक्तिकोपनिषत्कारिका अपि यथातन्त्रमसम्प्रज्ञातयोगप्रवर्त्तकतयाऽनुयोज्याः सूक्ष्मेक्षिकया योगविशारदैः ।
પ્રતિબંધ કરે છે.’ તે તાત્ત્વિક સંસ્કારનો પ્રતિરોધ થવાથી તમામ ચિત્તવૃત્તિઓનો પોતાના કારણમાં વિલય થાય છે. તેના કારણે સંસ્કાર માત્રથી ઉદિત વૃત્તિ સ્વરૂપ અસંપ્રજ્ઞાત નામની સમાધિ થાય છે. તેથી જ યોગસૂત્રમાં જણાવેલ છે કે ‘સંપ્રજ્ઞાત સમાધિનો અને ઋતંભરાપ્રજ્ઞાજન્ય સંસ્કારનો પ્રકૃષ્ટ રીતે વિલય થવાથી નિર્બીજ સમાધિ થાય છે.' (૨૦/૧૩)
विशेषार्थ :- सामान्यथी संस्कार भए अझरना होय छे. (१) व्युत्थान४न्य संस्कार क्षिप्त, भूढ વગેરે ચિત્તની અવસ્થામાં ઉત્પન્ન થયેલા સંસ્કાર વ્યુત્થાનજન્યસંસ્કાર કહેવાય. (૨) સવિતર્ક-નિર્વિતર્ક
१. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'संस्कारः संस्कार...' इत्यशुद्धः पाठः । योगसूत्रानुसारेण 'संस्कारोऽन्यसंस्कार....' इति शुद्ध: पाठोऽस्माभिर्योजितः । २ मुद्रितप्रती 'सर्व ( वृत्ति) निरोधी नि (धान्नि) र्बीज..' इति पाठः ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org