SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ • संस्कारत्रैविध्यविचारः . १३४५ तज्जन्मा तत्त्वसंस्कारः संस्कारान्तरबाधकः । असम्प्रज्ञातनामा स्यात् समाधिस्तन्निरोधतः ॥१३॥ तज्जन्मेति । तत ऋतम्भराप्रज्ञाया जन्म = उत्पत्तिर्यस्य स तथा (=तज्जन्मा) तत्त्वसंस्कारः = परमार्थविषयः संस्कारः संस्कारान्तरस्य = स्वेतरस्य व्युत्थानजस्य समाधिजस्य वा संस्कारस्य बाधकः (=संस्कारान्तरदाधकः) तनिष्ठकार्यकरणशक्तिभगवृदिति यावत् । तदुक्तं- "तज्जः सति किं नाम यन्न गोचरः ? इति व्यक्तमुक्तं तत्त्ववैशारद्यां वाचस्पतिमिश्रेण ।।२०/१२।। ऋतम्भराऽभिधानायाः समाधिप्रज्ञायाः फलमाह- 'तज्जन्मे'ति । ऋतम्भराभिधानसमाधिप्रज्ञाप्रतिलम्भे हि योगिनः ऋतम्भराकृतः परमार्थविषयः नवो नवः संस्कारो जायते । स च व्युत्थानजस्य = प्रागुक्त(द्वा.द्वा.११/३० पृ.८२५) क्षिप्त-मूढचित्तभूमिलक्षणव्युत्थानदशाजनितस्य समाधिजस्य वा = सवितर्कनिर्वितर्कादिसम्प्रज्ञातयोगजनितस्य वा संस्कारस्य बाधकः = तन्निष्ठकार्यकरणशक्तिभङ्गकृत् = व्युत्थानप्राथमिकसम्प्रज्ञातसमाधिजनितसंस्कारनिष्ठा या स्वकार्यकरणप्रवणा शक्तिः तस्याः व्याघातकारी भवति, स्वकार्यात्तामवसादयति, कर्तव्यशून्यां करोतीति यावत् । ___ अयमत्राशयः - चित्तस्य हि कार्यद्वयम्, शब्दाधुपभोगो विवेकख्यातिश्च । तत्र क्लेशकर्माऽऽशयसहितं शब्दाधुपभोगे प्रवर्तते । प्रज्ञाप्रभवसंस्कारोन्मूलितनिखिलक्लेशकर्माऽशयस्य तु चेतसोऽवसितप्रायाधिकारभावस्य विवेकख्यातिमात्रमवशिष्यते कार्यम् । तस्मात् समाधिसंस्काराः चित्तस्य न भोगाऽधिकारहेतवः, प्रत्युत तत्परिपन्थिनः इति । स्वकार्यलक्षणाद् भोगादवसादयन्ति, असमर्थं कुर्वन्तीत्यर्थः। कस्मात् ? ख्यातिपर्यवसानं हि चित्तचेष्टितम् । तावद्धि भोगाय चित्तं चेष्टते न यावद् विवेकख्यातिमनुभवति । सञ्जातविवेकख्यातिनस्तु क्लेशनिवृत्तौ न भोगाधिकारः (यो.सू.१/५० त.वै.) इति तत्त्ववैशारद्यां वाचस्पतिमिश्रः । ___ अत्र योगसूत्रसंवादमाह- 'तज्ज' इति । अस्य राजमार्तण्डव्याख्या एवम् → तया प्रज्ञया जनितो यः संस्कारः सोऽन्यान् व्युत्थानजान् समाधिजांश्च संस्कारान् प्रतिबध्नाति = स्वकार्यकरणाऽक्षमान् विशेषार्थ :- अध्यात्म' शनी अर्थ प्रस्तुतमा शुद्ध सत्वगुप्रधान मंत:४२९॥ छ. दोमi 'प्रसाद' શબ્દનો અર્થ પ્રસન્નતા થાય છે. પરંતુ અહીં અસંક્લિષ્ટ સ્થિર વૃત્તિપ્રવાહની યોગ્યતા = પ્રસાદ એમ સમજવું. તેથી અધ્યાત્મપ્રસાદ = શુદ્ધ સત્ત્વગુણ જેમાં પ્રધાન છે એવા અંતઃકરણની અસંક્લિષ્ટ અને સ્થિર એવી વૃત્તિના પ્રવાહની યોગ્યતા. પાતંજલ યોગદર્શનની પરિભાષાની આ વિલક્ષણતા છે. (૨૦૧૨) હ અસંપ્રજ્ઞાત સમાધિની ઓળખાણ છે ગાથાર્થ - ઋતંભરા પ્રજ્ઞાથી ઉત્પન્ન થતો તત્ત્વસંસ્કાર અન્ય સંસ્કારોનો બાધક બને છે. તેના પ્રતિરોધથી અસંપ્રજ્ઞાત નામની સમાધિ પ્રગટે છે. (૨૦/૧૩) ટીકાર્થ :- ઋતંભરા પ્રજ્ઞાથી જેની ઉત્પત્તિ થાય છે તે પરમાર્થવિષયક તાત્ત્વિક સંસ્કાર પોતાનાથી ભિન્ન એવા વ્યુત્થાનજન્ય સંસ્કારનો અથવા સમાધિજન્ય સંસ્કારનો બાધક બને છે. મતલબ કે તે પારમાર્થિક સંસ્કાર વ્યુત્થાનજન્ય સંસ્કારમાં કે સમાધિજન્ય સંસ્કારમાં રહેલી કાર્યજનન શક્તિનો ભંગ કરે છે. આવું પ્રસ્તુતમાં તાત્પર્ય છે. તેથી જ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “ઋતંભરાજન્ય સંસ્કાર અન્ય સંસ્કારનો For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy