________________
१३४४
• ऋतम्भराया धर्ममेघसमाधिरूपता • द्वात्रिंशिका-२०/१२ ततः = अध्यात्मप्रसादात् ऋतम्भरा प्रज्ञा भवति। ऋतं सत्यमेव बिर्भति, न कदाचिदपि विपर्ययेणाऽऽच्छाद्यते या सा ऋतम्भरा । तदुक्तं- “ऋतम्भरा तत्र प्रज्ञा" (यो.सू.१-४८) । सा च श्रुतानुमितितः = आगमाऽनुमानाभ्यां सामान्यविषयाभ्यां •विशेषविषयत्वेन अधिका । यदाह"श्रुतानुमानप्रज्ञाभ्यामन्यविषया विशेषाऽर्थत्वादिति" (यो.सू.१-४९) ।।१२।।
ऋतम्भराया अध्यात्मप्रसादकार्यत्वे योगसूत्रसंवादमाह- 'ऋतम्भरे'ति । 'तत्र = अध्यात्मप्रसादे जायमाना आत्मसाक्षात्काररूपा प्रज्ञा ऋतम्भरे'ति (भा.ग.१/४८) भावागणेशः । 'तत्र = वैशारद्ये सति या प्रज्ञा निर्विचारसमाधिजन्या तस्या ऋतम्भरेति संज्ञा भवति; ऋतं = अविकल्पितं सत्यं बिभर्तीति व्युत्पत्तेरि'ति (म.प्र.१/८) मणिप्रभाकृत्। 'तत्र = विवेकख्यातौ सत्यां ऋतं = सत्यमात्मानं बिभर्ति = प्रकाशयतीति ऋतम्भरा प्रज्ञा = धर्ममेघः समाधिर्जायते इत्यर्थः' (यो.सुधा.१/४८) इति तु योगसुधाकरे सदाशिवेन्द्रः । समाहितचित्ते जायमाना या प्रज्ञा सैव ऋतम्भरोच्यत इति सूत्रार्थः । 'लौकिकज्ञानेऽविद्यालेशसम्पर्काऽवश्यम्भावात्, योगकाले प्रकृष्टा प्रज्ञा भवतीति (यो.वा.१/४८) योगवार्तिके विज्ञानभिक्षुः । 'तस्माच्च प्रज्ञाऽऽलोकात् सर्वं यथावत् पश्यन् योगी प्रकृष्टं योगं प्राप्नोती'ति (रा.मा.१/४८) राजमार्तण्डे भोजः।
ऋतम्भरायाः प्रज्ञान्तराद् वैलक्षण्यं समर्थयितुं योगसूत्रसंवादमाह- 'श्रुते'ति । ‘सा तु योगसामान्यजा प्रज्ञा श्रवण-मननाभ्यामतिरिक्तविषया, विशेषाऽर्थत्वात् = विशेषविषयत्वादित्यर्थः । शब्दानुमाने हि सामान्यमात्रविषयके भवतः, सामान्यपुरस्कारेणैव सङ्केतग्रहात् व्याप्तिग्रहाच्च । न तु सङ्केतग्राह्याऽनवच्छेदकविशेषग्राहके, योगजप्रज्ञा तु तद्ग्राहिके'ति (यो.सू.१/४९ भा.ग.वृ.) भावागणेशवृत्तिलेशः । एतेन आगमाऽनुमानगृहीतार्थविषयभावनाप्रकर्षलब्धजन्मा ऋतम्भरा ह्यागमानुमानविषयमेव गोचरयेत् । न खल्वन्यविषयाऽनुभवजन्मा संस्कारः शक्तोऽन्यत्र ज्ञानं जनयितुम्, अतिप्रसङ्गादिति निरस्तम्, यतो बुद्धिसत्त्वं हि प्रकाशस्वभावं सर्वार्थदर्शनसमर्थमपि तमसाऽऽवृतं यत्रैव रजसोद्घाट्यते तत्रैव गृह्णाति । यदा त्वभ्यासवैराग्याभ्यामपास्तरजस्तमोमलमनवद्यवैशारद्यमुद्द्योतते तदाऽस्याऽतिपतितसमस्तमानमेयसीम्नः प्रकाशानन्त्ये સત્યને જ ધારણ કરે તે પ્રજ્ઞા ઋતંભરા કહેવાય. મતલબ કે ઋતંભરા પ્રજ્ઞા ક્યારેય પણ વિપર્યાસથી = ભ્રમથી આવરાતી નથી. તેથી તો યોગસૂત્રમાં જણાવેલ છે કે “શુદ્ધ અંતઃકરણનો પ્રવાહ અસંકિલન્ટ અને સ્થિર થતાં ઋતંભરા પ્રજ્ઞા પ્રગટે છે.”
તંભરા પ્રજ્ઞાને ઓળખીએ છે. सा. । सहा सत्यने पा२९॥ ४२नारी ते म२॥ Hu भागमथी मने अनुमान प्रभारथी यढियाती છે. કારણ કે આગમ પ્રમાણ અને અનુમાન પ્રમાણનો વિષય સામાન્ય પદાર્થ છે. જ્યારે ઋતંભરા પ્રજ્ઞાનો વિષય વિશેષ પદાર્થ છે. આમ સામાન્યરૂપે પદાર્થને ગ્રહણ કરનારા આગમ અને અનુમાન પ્રમાણ કરતાં વિશેષરૂપે પદાર્થને ગ્રહણ કરનારી ઋતંભરા પ્રજ્ઞા ચઢિયાતી છે. કારણ કે યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે “શ્રુતપ્રજ્ઞા અને અનુમાનપ્રજ્ઞા કરતાં ઋતંભરા પ્રજ્ઞા અન્ય વિષયનું અવગાહન કરે छे. ॥२९॥ 3 ते विशेषविषयछ.' (२०/१२) ...... चिह्नद्वयमध्यवर्ती पाठो हस्तादर्श नास्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org