________________
. अध्यात्मप्रसादप्रकाशनम् .
१३४३ अध्यात्म निर्विचारत्ववैशारद्ये प्रसीदति । ऋतम्भरा ततः प्रज्ञा श्रुताऽनुमितितोऽधिका ।।१२।।
अध्यात्ममिति। निर्विचारत्वस्य चरमसमापत्तिलक्षणस्य वैशारद्ये प्रकृष्टाऽभ्यासवशेन नैर्मल्ये (=निर्विचारत्ववैशारये) अध्यात्म = शुद्धसत्त्वं प्रसीदति क्लेशवासनारहितस्थितिप्रवाहयोग्यं भवति। यदुक्तं- “निर्विचारत्ववैशारोऽध्यात्मप्रसादः” (यो.सू.१-४७) । __ इतरासां = सवितर्क-निर्वितर्क-सविचाराऽऽख्यानां समापत्तीनां निर्विचारफलत्वात् = निर्विचारसम्प्रज्ञातयोगफलकत्वात् साम्प्रतं निर्विचारायाः समापत्त्याः फलं = कार्यं आह- 'अध्यात्ममिति। सवितर्का स्थूलविषयामपेक्ष्य निर्वितर्कायाः प्राधान्यम् । ततोऽपि सूक्ष्मविषयायाः सविचारायाः, ततोऽपि निर्विकल्परूपाया निर्विचारायाः । तस्याः चरमसमापत्त्याः प्रकृष्टाऽभ्यासवशेन = दीर्घकाल-नैरन्तर्य-सत्काराऽऽसेवनप्रभावेन नैर्मल्ये सति शुद्धसत्त्वं = रजस्तमोगुणाऽनभिभूतशुद्धसत्त्वप्रधानचित्तलक्षणं अध्यात्म क्लेशवासनारहितस्थितिप्रवाहयोग्यं = वक्ष्यमाणाऽविद्याऽस्मिता-राग-द्वेषाऽभिनिवेशलक्षणक्लेशाशयशून्यस्थिरधाराहँ भवति = समुपजायते । क्लेशविक्षेपोपनिपाते तु समापत्त्यसम्भव एव । प्रकृते → यस्य चित्तं प्रविक्षिप्तं क्लेशाद्यैरसमाहितम् । स किं गुहानिविष्टोऽपि न साधुर्दुष्टजन्तुवत् ।। - (अव.श.५४) इति अवदानशतकवचनमप्यनुसन्धेयम् । ग्रन्थकृद् अत्र योगसूत्रसंवादमाह 'निर्विचारत्वेति ।
___ साम्प्रतं योगसूत्रे 'निर्विचारवैशारद्येऽध्यात्मप्रसादः' इति पाठो लभ्यते । अत्र व्यासकृतं भाष्यं एवम् → अशुद्ध्यावरणमलाऽपेतस्य प्रकाशाऽऽत्मनो बुद्धिसत्त्वस्य रजस्तमोभ्यामनभिभूतः स्वच्छ: स्थितिप्रवाहो वैशारद्यम् । यदा निर्विचारस्य समाधेः वैशारद्यमिदं जायते तदा योगिनो भवत्यध्यात्मप्रसादो भूतार्थविषयः क्रमाऽननुरोधी स्फुटः प्रज्ञाऽऽलोकः - (यो.सू.१/४७ भा.) इति । भावागणेशस्तु → ध्येयगताऽशेषविशेषप्रतिबिम्बोद्ग्राहिणी निश्चलैकाग्रता चित्तस्य वैशारद्यम् । निर्विचारसमापत्तेरेव वैशारद्ये सति अध्यात्मप्रसादो भवति । आत्मनि = बुद्धौ वर्तते इति अध्यात्मम् । तादृशप्रसादः = नैर्मल्यं भवति, येन प्रसादेन पुरुषादिसाक्षात्कारस्तद्योगं विनाऽपि भवति - (यो.सू.१/४७ भा.ग.) इति व्याचष्टे ।
योगसारसङ्ग्रहे विज्ञानभिक्षुस्तु → दृष्टं फलं सम्प्रज्ञातस्य वृत्तिनिरोधेन वृत्त्युत्थदुःखभोगनिवृत्तिः, अदृष्टञ्च फलं सम्प्रज्ञातस्य पूर्वोक्तद्वारैः ध्येयसाक्षात्कारः, 'क्षीणवृत्तेरभिजातस्येव मणेः ग्रहीतृ-ग्रहणग्राह्येषु तत्स्थ-तदञ्जनता समापत्तिः' (यो.सू.१/४१) इति सूत्रात् । ततश्चाऽविद्याक्लेशनिवृत्त्या मोक्षः । तथा सत्यां कामनायां भूतेन्द्रियप्रकृतिजयोत्थः स्वेच्छाभोगश्च भवति - (यो.सा.सं.पृ.५) इत्याचष्टे ।
ગાથાર્થ - નિર્વિચારત્વની વિશારદતા થતાં અધ્યાત્મપ્રસાદ સંપન્ન થાય છે. તેનાથી ઋતંભરા પ્રજ્ઞા 42 थाय छे. ते ॥ श्रुत मने अनुमिति २di यढियाती छे. (२०/१२)
ટીકાર્થ :- સવિતર્ક, નિર્વિતર્ક, સવિચાર અને નિર્વિચાર – આ ચાર સમાપત્તિમાંથી છેલ્લી નિર્વિચાર, સમાપત્તિનો અભ્યાસ પ્રકૃષ્ટ થતાં તેના આધારે તે નિર્વિચાર સમાપત્તિ નિર્મળ = વિશદ બને છે. તેના કારણે અધ્યાત્મ = શુદ્ધ સત્ત્વ = શુદ્ધ સત્ત્વપ્રધાન અંતઃકરણ પ્રસાદસંપન્ન બને છે. મતલબ કે ચિત્ત ક્લેશ-વાસનાથી શૂન્ય અને સ્થિર એવા પ્રવાહને યોગ્ય બને છે. કારણ કે યોગસૂત્રમાં જણાવેલ છે કે નિર્વિચાર સમાધિ નિર્મળ થતાં અધ્યાત્મપ્રસાદ (=શુદ્ધ અન્તઃકરણ અસંફિલષ્ટ સ્થિરપ્રવાહને યોગ્ય) થાય છે. શુદ્ધ અંતઃકરણના અસંફિલષ્ટ સ્થિરપ્રવાહને લીધે ઋતંભરા પ્રજ્ઞા પ્રગટે છે. ઋત = સત્ય.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org