SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ १३४२ पुरुषसौक्ष्म्याभावमीमांसा द्वात्रिंशिका - २०/११ लिङ्गमात्रं बुद्धिः, अलिङ्गं च प्रधानमिति । एताश्च समापत्तयः संप्रज्ञातरूपा एव । यदाह“ता एव सबीजः समाधिरिति " ( यो. सू. १-४६) सह बीजेन आलम्बनेन वर्तत इति सबीज: सम्प्रज्ञात इत्यर्थः ।। ११ ।। इतरासां समापत्तीनां निर्विचारफलत्वान्निर्विचारायाः फलमाह • = = महत्तत्त्वं, अलिङ्गं च प्रधानम्, कस्यापि लिङ्गत्वाभावात् । ततः परं सूक्ष्ममुपादानं नास्ति, पुरुषस्य सत्त्वेऽप्यनुपादानत्वात्। पुरुषो हि भोगाऽपवर्गार्थी सन् पुरुषार्थनिमित्तके सर्गे निमित्तमात्रं भवति । तस्मात् सूक्ष्म-ग्राह्यसमापत्तिः प्रधानपर्यन्तेति सिद्धमिति (म. प्र. १/४५) मणिप्रभाकृत् । नन्वस्ति पुरुषः सूक्ष्मः इति चेत् ? सत्यम्, यथा लिङ्गात् परमलिङ्गस्य सौक्ष्म्यं न चैवं पुरुषस्य किन्तु लिङ्गस्याऽन्वयिकारणं पुरुषो न भवति, हेतुस्तु भवतीति । अतः प्रधाने सौक्ष्म्यं निरतिशयं व्याख्यातमिति (यो.सू.१ ।४५ भा.) योगसूत्रभाष्ये व्यासः । पुरुषस्तु न परिणामिकारणं किन्त्व- धिष्ठानकारणं, तेषां संसर्गे निमित्तकारणञ्चेति न तस्येदृशसौक्ष्म्यमिति भावः इति नागोजीभट्टः । = एतासां चतसृणां समापत्तीनां प्रकृते प्रयोजनमाविष्कर्तुं योगसूत्रसंवादमाह - 'ता एवे 'ति । ता एवोक्तलक्षणाः समापत्तयः सह बीजेन आलम्बनेन वर्तते इति सबीजः सम्प्रज्ञातः समाधिरित्युच्यते, सर्वासां सालम्बनत्वादिति राजमार्तण्डे भोजः । ताश्चतस्रः समापत्तयो बहिर्वस्तुबीजा इति समाधिरपि सबीजः इति योगसूत्रभाष्यकारः । विवेकख्यात्यभावेन बन्धबीजसत्त्वात् सबीजत्वं द्रष्टव्यमिति मणिप्रभाकृत् । सर्वे च ते सम्प्रज्ञातयोगाः सालम्बनयोगा इति सबीजयोगा इति चोच्यन्ते, ध्येयरूपाऽऽलम्बनयोगात्, तदाऽपि वृत्तिबीजसंस्कारोत्पत्तेश्चेति योगसारसङ्ग्रहे (यो. सा. सं. १६) विज्ञानभिक्षुः । जैनदर्शनानुसारेण त्वेतासां समापत्तीनां पर्यायोपरक्ताऽनुपरक्तस्थूल सूक्ष्मद्रव्यभावनारूपाणां शुक्लध्यानजीवाऽनुगतानां चित्तैकाग्यकारिणीनामुपशान्तमोहापेक्षया सबीजत्वं, क्षीणमोहापेक्षया तु निर्बीजत्वमपि स्यादिति त्वार्हतसिद्धान्तरहस्यं (यो.सू.१।४६ विव.) योगसूत्रविवरणे ग्रन्थकृताऽऽविष्कृतमिति ध्येयम् ।।२० / ११ ।। કે સંપ્રજ્ઞાત યોગ એ જ સબીજ સમાધિ છે. (૨૦/૧૧) વિશેષાર્થ :- શબ્દ, અર્થ, જ્ઞાન વગેરે પરસ્પર અધ્યસ્ત સ્વરૂપે સવિતર્ક સમાપત્તિમાં ભાસે છે. નિર્વિતર્ક સમાપત્તિમાં કેવલ અર્થનો પ્રતિભાસ હોય છે. શબ્દ, જ્ઞાન વગેરેનો પ્રતિભાસ તેમાં નથી હોતો. ‘અહીં વર્તમાનકાળમાં ઈન્દ્રિય રહેલી છે' ઈત્યાદિ રૂપે શબ્દાર્થવિકલ્પયુક્ત સ્વરૂપે તથા દૈશિક વિશેષણતા અને કાલિકવિશેષણતા સ્વરૂપ ધર્મવિશેષના ઉલ્લેખથી સૂક્ષ્મ અર્થને અવલંબીને પ્રગટતી એકાગ્રતાપૂર્ણ-તન્મયતાવાળી સમાપત્તિ સવિચા૨સમાધિ કહેવાય છે. તથા દેશ-કાળ-શબ્દ વગેરેનો ઉલ્લેખ કર્યા વિના ઈન્દ્રિયાદિ સૂક્ષ્મ વિષય માત્રને ગ્રહણ કરતી સમાપત્તિ નિર્વિચાર સમાધિ તરીકે સમજવી. બાકીની વિગત ટીકાર્થમાં સ્પષ્ટ છે. (૨૦/૧૧) * નિર્વિચાર સંપ્રજ્ઞાત સમાધિનું ફળ પામીએ સવિતર્ક-નિર્વિતર્ક-સવિચાર નામની અન્ય સમાપત્તિઓનું ફળ નિર્વિચાર સંપ્રજ્ઞાત સમાધિ છે. તે કારણે નિર્વિચાર સંપ્રજ્ઞાત સમાધિનું ફળ ગ્રંથકારશ્રી દર્શાવે છે. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy