SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ • विशिष्टाऽविशिष्ट - लिङ्गमात्राऽलिङ्गविवरणम् • गमयतीत्यलिंगं प्रधानं तत्पर्यन्तमित्यर्थः । गुणानां हि परिणामे चत्वारि पर्वाणि विशिष्टलिङ्गमविशिष्टलिङ्गं लिङ्गमात्रमलिङ्गं चेति । विशिष्टलिङ्गं भूतानि, अविशिष्टलिङ्गं तन्मात्रेन्द्रियाणि, च सर्वत्र 'न क्वचिद् विद्यत' इति पाठः । स चाऽशुद्धः । राजमार्तण्डानुसारेणात्र 'न क्वचिल्लीयत' इत्येव शुद्धः पाठः । इत्थमेवाऽलिङ्गपदार्थसङ्गतेः । महदऽहङ्कार - महाभूतादीनि त्रयोविंशतिः तत्त्वानि अन्ततो गत्वा प्रकृतौ लीयन्ते परं प्रकृतिः प्रधानाऽलिङ्गाद्यपराभिधाना नैव क्वचिदपि तत्त्वे लीयत इति अलिङ्गमुच्यते । व्युत्पत्त्यन्तरमाह - ' न वेति । तन्मात्रादयः स्वकारणं अहङ्कारं गमयति, अहङ्कारश्च महत्तत्त्वं स्वकारणतया गमयति, महत्तत्त्वञ्च स्वकारणतया प्रधानं गमयति । परं प्रधानं न किञ्चिदपि गमयति, तस्य नित्यत्वात् । अतः तद् अलिङ्गमुच्यते इति भावः । तत्पर्यन्तं प्रधानाऽपराभिधानाऽलिङ्गपर्यवसानं सूक्ष्मविषयत्वमित्यर्थः । राजमार्तण्डानुसारेणेदमेव भावयति - गुणानां सत्त्वादीनां हि परिणामे चत्वारि पर्वाणि = चत्वारोऽवस्थाविशेषाः । तदुक्तं योगसूत्रे - 'विशेषाऽविशेष - लिङ्मात्राऽलिङ्गानि गुणपर्वाणि' (यो.सू.२ ।१९) इति। ‘सत्त्वादिगुणात्मको वंशः, तस्य विशेषादीनि पर्वाणि पत्र - शाखा - बीजाऽङ्कुरवदभेदात् नात्यन्तं भिन्नानीत्यर्थः। तत्र विशेषाः षोडश विकाराः एकादशेन्द्रिय- पञ्चमहाभूतरूपाः । अविशेषाश्च पञ्चतन्मात्राऽहङ्काररूपाः षट्, लिङ्मात्रं महत्तत्त्वं अलिङ्गञ्च साम्यावस्थितिः' (यो. सू. २।१९ भा.) इति तद्वृत्तौ भावागणेशो व्याचष्टे । विशिष्टलिङ्गं भूतानि पृथिव्यादीनि पञ्च गन्धादिपञ्चतन्मात्रविशिष्टत्वात्, शब्दादिपञ्चतन्मात्राणामेव पृथिव्याद्युपादानत्वात् । तथाहि पार्थिवः परमाणुर्गन्धतन्मात्रादितरतन्मात्राङ्गकाज्जायते । आप्यस्तु गन्धतन्मात्रवर्जिताद्रसतन्मात्रादितरतन्मात्राङ्गकात् । तैजसस्तु गन्धरसतन्मात्रद्वयवर्जिताद् रूपतन्मात्रादितरतन्मात्राऽङ्गकात् । वायव्यस्तु पूर्वहीनात् स्पर्शतन्मात्राच्छब्दतन्मात्राऽङ्गकात् । नाभसः परमाणुः त्वेकस्मादेव शब्दतन्मात्राज्जायते इति पातञ्जलानां प्रक्रिया । अविशिष्टलिङ्गं = अविशेषलिङ्गं तन्मात्रेन्द्रियाणि । 'तन्मात्रेन्द्रियाणी 'ति पाठः प्रामादिकः, राजमार्तण्डकृन्मते ( रा. मा. २ ।१९ ) अविशेषाः तन्मात्रान्तःकरणानि, विशेषाश्च महाभूतेन्द्रियाणि । योगसूत्रभाष्यकृन्मते (यो. सू. भा. २ । १९ ) तु पञ्चतन्मात्राऽस्मितयोः विशेषत्वम् । पञ्चतन्मात्राऽहङ्काररूपाः षडऽविशेषाः ← (यो.सू. २।१९ ना.) इति नागोजीभट्टः । लिङ्गमात्रं प्रकृतिलिङ्गमात्रं बुद्धिः (= પ્રતિલોમ પરિણામથી તિરોભૂત) ન થાય તે અલિંગ કહેવાય. અથવા જે કોઈને પણ જણાવે નહિ તે અલિંગ કહેવાય. અર્થાત્ પ્રધાનતત્ત્વ = खलिंग. * ચાર પર્વનું નિરૂપણ गुणानां । सत्त्वगुश, रभेगुए। जने तमोगुशना परिणाममां यार पर्वो पातं४स योगदर्शनमां जतावेस छे. (१) विशिष्ट सिंग, (२) अविशिष्ट लिंग, (3) सिंगमात्र जने (४) खसिंग. પૃથ્વી વગેરે ભૂતતત્ત્વ વિશિષ્ટલિંગ કહેવાય. શબ્દાદિ તન્માત્ર અને ઈન્દ્રિયો (રાજમાર્તંડકારમતે અંતઃકરણ) અવિશિષ્ટ લિંગ જાણવા. બુદ્ધિ લિંગમાત્ર ગણાય. તથા પ્રધાન = અલિંગ. ઉપરોક્ત સમાપત્તિઓ સંપ્રજ્ઞાત સમાપત્તિ સ્વરૂપ જ જાણવી. કારણ કે યોગસૂત્ર ગ્રન્થમાં જણાવેલ છે કે → ‘ઉપરોક્ત સમાપત્તિઓ જ સબીજ સમાધિ છે.' – આલંબન લઈને જે પ્રવર્તે તે સબીજ સમાધિ કહેવાય.મતલબ બીજ Jain Education International For Private & Personal Use Only = = = १३४१ = www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy