________________
१३४०
• निर्वितर्कसमाधेरविद्यासम्पर्कविरहः •
द्वात्रिंशिका - २०/११
यथा च स्थूलभूतादिविषया सवितर्का तथा सूक्ष्मतन्मात्रेन्द्रियादिकमर्थं शब्दाऽर्थविकल्पसहितत्वेन देशकालधर्माऽवच्छेदेन च गृह्णन्ती सविचारा भण्यते', धर्मिमात्रतया च तं गृह्णन्ती निर्विचारेति । यत उक्तं- “ एतयैव सविचारा निर्विचारा च सूक्ष्मविषया व्याख्याता" (यो . सू. १४४)। सूक्ष्मविषयत्वं चाऽलिङ्गपर्यवसानं (यो.सू.१-४५) न क्वचिल्लीयते, न वा किंचिल्लिङ्गति निर्वितर्का समापत्तिः ← (यो.सू. १/४३ भाष्य ) इत्यादिकमाचष्टे ।
भावागणेशस्तु पूर्वसूत्रे यो विकल्प उक्तस्तत्र शब्दसङ्केतस्मृतिरेव बीजम् । श्रवण-मनननिदिध्यासनैर्हि समापत्तिर्जायते । तत्र श्रवणं सङ्केतस्मरणकार्यम् । सङ्केतश्च शब्दाऽर्थयोर्विकल्पिताऽभेदमात्र इत्यतः सङ्केतस्मृतिजन्ये शाब्दबोधेऽपि तयोरभेद उपनीतत्वाद् भासते । ततश्च श्रवणकार्ये मनने निदिध्यासने प्राथमिकसाक्षात्कारे च भासते, उपनयसाम्यात् । यदा तु ध्येयाऽऽवेशवशात् तस्या विकल्परूपायाः सङ्केतस्मृतेः परिशुद्धिः अपगमो भवति समापत्तिश्च स्वरूपशून्येव जायमाना भवति, तदा शब्द-ज्ञानयोरस्फुरणेनाऽभेदाऽऽरोपाऽसम्भवात् । अर्थमात्रनिर्भासा ध्येयाऽर्थमात्राऽवगाहिनी विकल्पशून्या स्थूलसमापत्तिर्निर्वितर्कसंज्ञेत्यर्थः । इयं समापत्तिः परं प्रत्यक्षमुच्यते, अविद्यालेशेनाऽप्यसम्पर्कात् ← ( यो. सू. १ / ४३ भा.ग. वृत्ति) इत्येवं विशदतरं व्याख्यानयति ।
'यथेत्यादि पूर्वं ( द्वा. द्वा.२०/४ पृ. १३२९) विभावितार्थमेव । तथापि प्रकृते योगसूत्रसंवादमाह ‘एतयैवे’ति । अस्य राजमार्तण्डवृत्तिस्त्वेवम् → एतयैव = सवितर्कया निर्वितर्कया च समापत्त्या सविचारा निर्विचारा च व्याख्याता । कीदृशी ? सूक्ष्मविषया = सूक्ष्मः तन्मात्रेन्द्रियादिः विषयो यस्याः सा तथोक्ता । एतेन पूर्वस्याः स्थूलविषयत्वं प्रतिपादितं भवति । सा हि महाभूतेन्द्रियाऽऽलम्बना । शब्दाऽर्थ-विषयत्वेन शब्दाऽर्थविकल्पसहितत्वेन देश - कालधर्माद्यवच्छिन्नः सूक्ष्मोऽर्थः प्रतिभाति यस्यां सा सविचारा। देशकालधर्मादिरहितो धर्मिमात्रतया सूक्ष्मोऽर्थस्तन्मात्रेन्द्रियरूपः प्रतिभाति यस्यां सा निर्विचारा ← (यो. सू. १ । ४४ रा.मा.) इति ।
=
अस्या एव सूक्ष्मविषयायाः किंपर्यन्तः सूक्ष्मविषयः ? इत्याशङ्कायां योगसूत्रसंवादमाह - 'सूक्ष्मे 'ति । प्रकृतसूत्रं राजमार्तण्डानुसारेण व्याख्यानयति- ' न क्वचिद् लीयते' इति । यद्यपि हस्तादर्शे मुद्रितप्रतौ * સવિચાર-નિર્વિચાર સમાપત્તિ
यथा । म स्थूल सेवा पंचमहाभूत वगेरेने जवसंजीने थती समापत्ति सवितर्ड दुहेवाय छे તેમ સૂક્ષ્મ એવા શબ્દાદિ પાંચ તન્માત્ર, ઈન્દ્રિય વગેરે અર્થને શબ્દાર્થવિકલ્પસહિતરૂપે અને દેશકાલધર્મઅવચ્છેદથી (= દૈશિક અને કાલિક વિશેષણતાથી વિશિષ્ટ સ્વરૂપે) ગ્રહણ કરતી સમાપત્તિ નિર્વિચાર સમાપત્તિ કહેવાય છે. કારણ કે પતંજલિ મહર્ષિએ યોગસૂત્ર ગ્રંથમાં જણાવેલ છે કે સવિતર્ક અને નિર્વિતર્ક સમાપત્તિ દ્વારા જ ક્રમશઃ સૂક્ષ્મવિષયક સવિચાર અને નિર્વિચાર સમાપત્તિની વ્યાખ્યા થઈ ગઈ. સવિચારનિર્વિચાર સમાપત્તિમાં સૂક્ષ્મવિષયત્વ અલિંગ પ્રધાનતત્ત્વ સુધી સમજી લેવું. - જે ક્યાંય લીન
=
१. हस्तादर्शे 'भणंति' इत्यशुद्धः पाठः । २ मुद्रितप्रतौ 'तं' नास्ति । ३. मुद्रितप्रतौ हस्तप्रतौ च सर्वत्र 'द्विद्यते ' इत्यशुद्धः
पाठो विद्यते । परं राजमार्तण्डानुसारेणास्माभिः 'ल्लीयते' इति शुद्धः पाठः संयोजितः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org