________________
• समाधिप्रज्ञाकालीनसमापत्तिवर्णनम् • त्यर्थो गौरिति ज्ञानं" इत्याकारेण । इत्थं 'परैर्भेदैश्चतुर्विधा इयं भवति ।
तथाहि- “महास्मृतिपरिशुद्धौ २स्वरूपशून्येवाऽर्थमात्रनिर्भासा निर्वितर्का" (यो.सू.१-४३) । यदाह-“उक्तलक्षणविपरीता निर्वितर्केति" (यो.सू.१/४४) । लक्षक इति (यो.सू. १/४२ ना.भ.वृ.) नागोजीभट्टः ।
मणिप्रभाकृत्तु → ‘गौः' इत्युक्ते शब्दार्थज्ञानानि त्रीण्यभिन्नानि भासन्ते । तत्र (१) गौरिति शब्द इत्येको विकल्पः । अयं हि ‘गौः' इत्युपात्तयोः अर्थ-ज्ञानयोः शब्दाऽभेदविषयकः । (२) तथा 'गौः' इत्यर्थ एको विकल्पः । तत्र 'गौः' इत्युपात्तयोः शब्द-ज्ञानयोः अर्थाऽभेदविषयकः । (३) एवं 'गौः' इति ज्ञानमित्येको विकल्पः । अयन्तु 'गौः' इत्युपात्तयोः शब्दाऽर्थयोः ज्ञानाऽभेदगोचरः । त एते विकल्पाः, असदभेदगोचरत्वात् । एवं 'घटः, पट' इत्यादयो विकल्पा ज्ञेयाः । तत्र शब्द-ज्ञानाभ्यामभेदेन विकल्पिते स्थूले गवाद्यर्थे समाहितचित्तस्य योगिनः समाधिजन्यसाक्षात्कारो यथा कल्पितार्थमेव गृह्णाति तथा सा समाधिप्रज्ञा शब्दाऽर्थ-ज्ञानानां विकल्पैः सङ्कीर्णा तैस्तुल्या भवति, विकल्पत्वाऽविशेषात् सा सङ्कीर्णा सवितर्का समापत्तिरित्यर्थः + (यो.सू. १/४२ म.प्र.पृ.४९) इत्याह ।
योगसूत्रभाष्ये व्यासस्तु → गौरिति शब्दो गौरित्यर्थो गौरिति ज्ञानमित्यविभागेन विभक्तानामपि ग्रहणं दृष्टम् । विभज्यमानाश्चाऽन्ये शब्दधर्माः, अन्येऽर्थधर्माः, अन्ये ज्ञानधर्मा इत्येतेषां विभक्तः पन्थाः । तत्र समापन्नस्य योगिनो यो गवाद्यर्थः समाधिप्रज्ञायां समारूढः स चेच्छब्दार्थज्ञानविकल्पाऽनुविद्ध उपावर्तते सा सङ्कीर्णा समापत्तिः सवितर्केत्युच्यते + (यो.सू.भा.१।४२) इत्याह । __निर्वितर्कसमापत्तिं दर्शयितुं योगसूत्रमाह- ‘महे'ति । राजमार्तण्डे भोजस्तु → शब्दार्थस्मृतिप्रविलये सति प्रत्युदितस्पष्टग्राह्याऽऽकारप्रतिभासितया न्यग्भूतज्ञानांऽशत्वेन स्वरूपशून्येव निर्वितर्का समापत्तिः 6 (यो.सू. १/४३ रा.मा.) इत्येवं सङ्क्षपेण व्याख्यातवान् ।
योगसूत्रभाष्ये व्यासस्तु → यदा पुनः शब्द-सङ्केतस्मृतिपरिशुद्धौ श्रुताऽनुमानज्ञानविकल्पशून्यायां समाधिप्रज्ञायां स्वरूपमात्रेणाऽवस्थितोऽर्थस्तत्स्वरूपाऽऽकारमात्रतयैवाऽवच्छिद्यते सा च निर्वितर्का समापत्तिः । तत्परं प्रत्यक्षम् । तच्च श्रुताऽनुमानयोर्बीजम् । ततः श्रुताऽनुमाने प्रभवतः । न च श्रुताऽनुमानज्ञानसहभूतं तद्दर्शनम् । तस्मादसङ्कीर्णं प्रमाणान्तरेण योगिनो निर्वितर्कसमाधिजं दर्शनमिति । निर्वितर्कायाः समापत्तेरस्याः सूत्रेण लक्षणं द्योत्यते- या शब्द-सङ्केत-श्रुताऽनुमान-ज्ञान-विकल्प-स्मृतिपरिशुद्धौ ग्राह्यस्वरूपोपरक्ता प्रज्ञा स्वमिव प्रज्ञारूपं ग्रहणात्मकं त्यक्त्वा पदार्थमात्रस्वरूपा ग्राह्यस्वरूपाऽऽपन्नेव भवति सा ભાસે છે. આ રીતે પાધિક ભેદોથી અથવા અવાજોર ભેદથી ચાર પ્રકારની સવિતર્ક સમાપત્તિ થાય છે.
હ નિર્વિતર્ક સમાપત્તિ હ. तथाहि. । तेम ४ महास्मृति परिशुद्ध थतi ) १३५शून्य होय तेवी अनिमासमात्रस्१३५ સમાપત્તિ નિર્વિતર્ક સમાપત્તિ સમાધિ સમજવી. કારણકે યોગસૂત્રમાં જણાવેલ છે કે “સવિતર્ક સમાપત્તિથી વિપરીત હોય તેને નિર્વિતર્ક સમાપત્તિ જાણવી.' १. हस्तादर्श 'परिभे...' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ ‘स्वरूपशून्ये वार्थ...' इत्येवमस्थानच्छिन्नः पाठो भ्रमोत्पादकः ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org