SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ १३३६ • ग्राह्य-ग्रहण-ग्रहीतृक्रमेण समापत्तिः • द्वात्रिंशिका-२०/१० मणेरिवेति । मणेरिव = स्फटिकादिरत्नस्येव अभिजातस्य = जात्यस्य क्षीणवृत्तेः = क्षीणमलस्य असंशयं = निश्चितं तात्स्थ्यात् = 'तत्रैकाग्रत्वात्, तदञ्जनत्वाच्च = तन्मयत्वात्। न्यग्भूते चित्ते विषयस्य भाव्यमानस्यैकत्वोत्कर्षात् समापत्तिः प्रकीर्तिता । तदुक्तं- "क्षीणवृत्तेरभिजातस्येव मणेर्ग्रहीतृ-ग्रहण-ग्राह्येषु तत्स्थ-तदञ्जनता समापत्तिः” (यो.सू.१-४१)। यथा हि निर्मलस्फटिकमणेस्तद्रूपाश्रयवशात् तद्रूपतापत्तिरेवं निर्मलचित्तसत्त्वस्य तत्तद्भावनीयवस्तूपरागात्तद्रूपतापत्तिः। यद्यपि ग्रहीतृ-ग्रहण-ग्राह्येत्युक्तं तथापि भूमिकाक्रमवशेन व्यत्ययो बोध्यः। यतः प्रथमं ग्राह्यनिष्ठः साम्प्रतं समापत्तिमेव निरूपयति- 'मणे'रिति । तत्र = ग्राह्य-ग्रहण-ग्रहीतृषु एकाग्रत्वात् = विजातीयप्रत्ययव्यवधानशून्याऽऽलम्बनत्वात्, तन्मयत्वात् = तदेकीकरणात् । न्यग्भूते = क्षीणप्राये उपसर्जनीभूते वा चित्ते = अन्तःकरणे भाव्यमानस्य विषयस्य = भावनागोचरस्य एकत्वोत्कर्षात् = तादात्म्यबुद्धिसमुत्कर्षात् समापत्तिः प्रकीर्तिता पातञ्जलैः । योगसूत्रसंवादमाह- 'क्षीणे'ति । अत्र राजमार्तण्डव्याख्या एवम् → क्षीणा वृत्तयो यस्य तत् क्षीणवृत्ति, तस्य ग्रहीतृ-ग्रहण-ग्राह्येषु आत्मेन्द्रिय-विषयेषु तत्स्थतदञ्जनता समापत्तिर्भवति । तत्स्थत्वं = तत्रैकाग्रता, तदजनता = तन्मयत्वम् । क्षीणभूते चित्ते विषयस्य भाव्यमानस्योत्कर्षः तथाविधा समापत्तिः = तद्रूपः परिणामो भवतीत्यर्थः । दृष्टान्तमाह- अभिजातस्येव मणेर्यथाऽभिजातस्य निर्मलस्य स्फटिकमणेस्तत्तदुपाधिवशात् तत्तद्रूपाऽऽपत्तिः एवं निर्मलस्य चित्तस्य तत्तद्भावनीयवस्तूपरागात्तत्तद्रूपापत्तिः । यद्यपि 'ग्रहीतृ-ग्रहण-ग्राह्येषु' इत्युक्तं तथापि भूमिकाक्रमवशात् ग्राह्य-ग्रहण-ग्रहीतृषु इति बोध्यम् । यतः प्रथम ग्राह्यनिष्ठ एव समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितामात्ररूपो ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वाऽसम्भवात् । ततश्च स्थूल-सूक्ष्मग्राह्योपरक्तं चित्तं तत्र समापन्नं भवति । एवं ग्रहणे ग्रहीतरि च समापन्नं तद्रूपपरिणामत्वमापन्नं बोद्धव्यम् + (यो.सू. १/४१ रा.मा.व.पृ.४७) इति । तथा तहनताना २९ो समापत्ति ४३वायेदी छे. (२०/१०) હ સમાપતિની સમજણ હ ટીકાર્ય :- નિશ્ચિતપણે જેનો મેલ ક્ષીણ થયેલ છે તેવા શ્રેષ્ઠ સ્ફટિકાદિ રત્નની જેમ તેમાં એકાગ્રતા થવાથી અને તન્મયતા થવાથી તિરોભૂત થયેલ ચિત્તમાં ભાવનાવિષયભૂત પદાર્થની એકતા મુખ્ય થવાના કારણે સમાપત્તિ કહેવાયેલી છે. યોગસૂત્રમાં જણાવેલ છે કે – “મેલ ક્ષીણ થયેલ હોય તેવા શ્રેષ્ઠ મણિની જેમ ગ્રહીતા, ગ્રહણ અને ગ્રાહ્યમાં તસ્થતા અને તÉજનતા = તન્મયતા સમાપત્તિ જાણવી.' ૯ જેમ નિર્મળ સ્ફટિક મણિમાં રૂપાધારભૂત લાલગુલાબ વગેરે પદાર્થના કારણે રક્તિમા આવે છે તેમ નિર્મળ સત્ત્વપ્રધાન અંતઃકરણમાં તે તે ભાવનાના વિષયભૂત પદાર્થના સંનિધાનના લીધે તદ્રુપતા = ભાવ્યતુલ્યતા આવે છે. જો કે યોગસૂત્રમાં “પ્રહીતા, ગ્રહણ અને ગ્રાહ્ય” આવો ક્રમ જણાવેલ છે. તો પણ સાધકની ભૂમિકાના ક્રમ મુજબ ઊલટું સમજી લેવું. કારણ કે પહેલાં ગ્રાહ્મનિષ્ઠ સમાપત્તિ થાય પછી ગ્રહણનિષ્ઠ સમાપત્તિ અને ત્યાર બાદ અસ્મિતાના ઉપરાગથી ગ્રહીતાવિષયક સમાપત્તિ થાય. કારણ કે કેવળ પુરુષ સ્વરૂપ ગ્રહીતા १. मुद्रितप्रतौ 'तत्रेका...' इत्यशुद्धः पाठः । २. हस्तादर्श ....वोत्कर्षे' इति पाठः । ३. हस्तादर्श 'तत्र ख्या...' इति Jain Talion International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy