________________
• योगगोचरराजमार्ग-वर्तन्योः विचारः •
१३३७ समाधिः, ततो ग्रहणनिष्ठः, ततोऽस्मितोपरागेण ग्रहीतृनिष्ठः, केवलस्य पुरुषस्य ग्रहीतुर्भाव्यत्वाऽसम्भवादिति बोध्यम् ।।१०।।
केवलस्य पुरुषस्य ग्रहीतुः ग्राह्य-ग्रहणविनिर्मोकेण प्रथममेव भाव्यत्वाऽसम्भवात् । ग्राह्य-ग्रहणप्रवेशमृते चित्तस्याऽऽदावेव परमसूक्ष्मप्रवेशस्य प्रायशोऽसम्भवादिति भावः । अत एव गरुडपुराणे → योगाऽऽरम्भे मूर्तहरिममूर्त्तमथ चिन्तयेत् । स्थूले विनिर्जितं चित्तं ततः सूक्ष्मे शनैर्नयेत् ।। - (ग.पु. १।२२९।२५) इत्युक्तम् । अतः स्थूलादिसाक्षात्कारेण तत्र तत्र दोषदृष्ट्या उत्तरोत्तरभूम्यारोहो राजमार्गः । यस्य तु कदाचिदीश्वरप्रसादादावेवोत्तरभूम्यारोहो भवति, तेन च पूर्वभूमिकाऽभ्यासस्तत्सिद्धिकामनां विना न कार्यः, उत्तरभूमिकाऽऽरोहस्य फलस्य जातत्वादिति (यो.सं.प्र.९) योगसारसग्रहे विज्ञानभिक्षुः । तदुक्तं योगसूत्रभाष्यकृताऽपि → ईश्वरप्रसादादर्जितोत्तरभूमिकस्य नाधरभूमिषु विनियोगः, तदर्थस्याऽन्यत एव सिद्धेः 6 (यो.सू.भा.) इति।
प्रकृतसमापत्तिनिरूपणे योगसूत्रभाष्यकारस्तु → अभिजातमणिकल्पस्य चेतसो ग्रहीतृ-ग्रहण-ग्राह्येषु या तत्स्थ-तदजनता = तेषु स्थितस्य तदाऽऽकारतापत्तिः सा समापत्तिरित्युच्यते - (यो.सू. ११४१ भाष्य) इत्याह ।
भावागणेशस्तु → क्षीणवृत्तेः = निरुद्धध्येयाऽतिरिक्तवृत्तेः निष्पन्नसम्प्रज्ञातयोगस्येति यावत् । एतच्च हेतुगर्भविशेषणम् । समापत्तिरिति च साक्षात्कारपरिभाषा । तथा च यतः चित्तं स्वत एव सर्वाऽर्थग्रहणसमर्थं विषयाऽन्तरव्यासङ्गदोषादेव तत्प्रतिबद्धम् । अतो वृत्त्यन्तरनिरोधरूपे प्रतिबन्धाऽपगमे सति ग्रहीत्रादिषु ध्येयेषु समापत्तिः = साक्षात्काररूपवृत्तिः चित्तस्य स्वत एव भवति । सा च तत्स्थतदजनतारूपा तेषु ग्रहीत्रादिषु स्थितस्य चित्तस्याऽशेषविशेषैः सम्यक्तदाऽऽकारतारूपेत्यर्थः । अत्र दृष्टान्तः - अभिजातस्येव मणेरिति । यथाऽभिजातस्य = स्वभावतो निर्मलस्य मणेः बाह्यमलाऽपगमे सनिकृष्टवस्त्वाकारता तद्वदित्यर्थः + (यो.सू.१।४१ भा.ग.वृ.) इत्याचष्टे । अधिकं तु मत्कृतकल्याणकन्दलीतो (षोडशकटीका २।१५ पृ.६०) विज्ञेयम् ।।२०/१०।। પદાર્થને ભાવનાનો વિષય બનાવી શકાતો નથી. આ વાત ધ્યાનમાં રાખવી.(૨૦/૧૦)
વિશેષાર્થ :- સમાપત્તિ એટલે તથારૂપ પરિણામની પ્રાપ્તિ થાય તેવા પ્રકારનો પરિણામ પ્રગટે તે સમાપત્તિ કહેવાય. સ્ફટિકની બાજુમાં લાલ ગુલાબ રાખવામાં આવે તો તેનાથી સ્ફટિકમાં લાલાશ જણાય. કાળું ફલ રાખવામાં આવે તો સ્ફટિકમાં કાળાશ દેખાય. તે જ રીતે સ્ફટિક જેવા સ્વચ્છ અંતઃકરણમાં જેની ભાવના કરવામાં આવે તેવો પરિણામ ઉપલબ્ધ થાય છે. જે વિષયમાં એકાગ્રતા આવે તેનાથી अंत:४२५॥ २॥ य छ, तन्मय बनी य छ, तद्रू५ २६ 14 छे. तत्स्थता = विषयमा मेयता. તદેજનતા = તન્મયતા. પુરુષને વિશે એકાગ્ર બનીને અંતઃકરણ પુરુષની ભાવના કરવા દ્વારા પુરુષમય બની જાય તે ગ્રહીતૃસમાપત્તિ કહેવાય. શુદ્ધ પુરુષ તો ભાવનાનો વિષય બની શકતો નથી. માટે અસ્મિતાના ઉપરાગથી = સંબંધથી પુરુષને પાતજલ વિદ્વાનો ભાવનાવિષય માને છે. બાકીની વિગત ટીકાર્યમાં સ્પષ્ટ छ (२०/१०)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org