SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ १३३४ • परवैराग्यजनकधर्ममेघसमाधेः प्रकृष्टसास्मितसमाधिरूपता • द्वात्रिंशिका-२०/८ अत्रैव कृततोषा ये परमात्माऽनवेक्षिणः । चित्ते गते ते प्रकृतिलया हि प्रकृतौ लयम् ।।८।। ____ अत्रैवेति । अत्रैव = सास्मितसमाधावेव ये कृततोषाः परमात्माऽनवेक्षिणः परमपुरुषाऽदर्शिनः, ते हि चित्ते प्रकृतौ लयं गते सति प्रकृतिलया उच्यन्ते ।।८।। मभूमिका। अत्राऽस्मिताशब्देन विविक्तचेतनाकारमात्रतोपलक्ष्यते । तेनाऽदीनभावेन य ऐश्वरः चेतनतत्त्वसाक्षात्कारः तस्याऽपि सङ्ग्रहः । तदनुगतः = अस्मितानुगतः । अस्यैव पराकाष्ठा धर्ममेघसमाधिरित्युच्यते, यस्योदये ज्ञानेऽप्यलम्प्रत्ययरूपपरवैराग्यं जायते । तत्र पूर्वं जीवात्मविषयाऽस्मिता । ततस्ततोऽपि सूक्ष्मा परमात्मविषया - (यो.सू. ११७ ना.भ.वृ.पृ.२२) इत्यादिकमाचष्टे । इत्थञ्चास्मितापदार्थे योगसूत्रव्याख्यातॄणां विविधा विप्रतिपत्तिरवसेया ।।२०/७।। राजमार्तण्डानुसारेण प्रकृतिलयान् योगिनो ग्रन्थकृदुपदर्शयति- 'अत्रे'ति । सास्मितसमाधौ सम्प्रज्ञातान्तिमभेदे एव ये योगिनः कृततोषाः = सम्परितुष्टाः सन्तः परमपुरुषाऽदर्शिनः = क्लेश-कर्मविपाकाऽऽशयाऽपरामृष्टपरमेश्वराऽनवेक्षिणो भवन्ति ते हि चित्ते = अन्तःकरणे स्वकारणीभूतायां प्रकृतौ लयं = तिरोभावं गते = प्राप्ते सति प्रकृतिलयाः प्रधानलीना वा उच्यन्ते पातञ्जलैः । तदुक्तं राजमार्तण्डे → अस्मिन्नेव समाधौ ये कृतपरितोषाः परं परमात्मानं पुरुषं न पश्यन्ति तेषां चेतसि स्वकारणे लयमुपागते प्रकृतिलया इत्युच्यन्ते + (यो.सू. ११७ रा.मा.पृ.२१) इति । → प्रकृतिलयाश्चाऽव्यक्त-महदऽहङ्कार-पञ्चतन्मात्राणामन्यतममात्मत्वेन प्रतिपन्नास्तदुपासनया तद्वासितान्तःकरणाः पिण्डपातानन्तरमव्यक्तादीनामन्यतमे लीनाः - (यो.सू. १।१९ वा.पृ.६०) इति योगवार्तिके विज्ञानभिक्षुः । स एव योगसारसङ्ग्रहे तु → ये तु प्रकृत्युपासनया तच्छवलपरमेश्वरोपासनया वा ब्रह्माण्डं भित्त्वा महत्तत्त्वपर्यन्ताऽऽवरणान्यतीत्य प्रकृत्यावरणं गता ईश्वरकोटयस्ते प्रकृतिलया उच्यन्ते ( (यो.सा.सं.पृष्ठ १९) इत्याचष्टे । → अव्यक्त-महदऽहङ्कार-पञ्चतन्मात्रेषु प्रकृतिष्वात्मत्वभावनया लीनाः = प्रकृतिलयाः - (यो.सू. १।१९ म.प्र.) इति तु मणिप्रभाकृत् । योगसुधाकरकृदादीनामप्येवमेवाऽभिप्रायः ।।२०/८ ।। ભાસે છે તે અસ્મિતા કહેવાય છે. સાસ્મિત સંપ્રજ્ઞાત સમાધિમાં અંતઃકરણ અસ્તિત્વમાત્ર સ્વરૂપે ભાસે छ. तेथी तभi सास्मितत्व संगत थाय छे. (२०/७) હ પ્રકૃતિલય યોગીઓની ઓળખાણ હ ગાથાર્થ :- આ સામિત સમાધિમાં જ આનંદ કરનાર, અને પરમાત્માને નહિ જોનારા યોગીઓ પ્રકૃતિમાં ચિત્ત લીન થાય ત્યારે પ્રકૃતિલય કહેવાય છે. (૨૦૮). ટીકાર્ય - સામિત સમાધિમાં જ જેઓને પરિતોષ થયેલ છે તેવા યોગી પુરુષો પરમ પુરુષ તત્ત્વને જોતા નથી. ચિત્ત જ્યારે પ્રકૃતિમાં લીન થાય ત્યારે તે યોગીઓ ખરેખર પ્રકૃતિલય અથવા प्रतिलीन उपाय छे. (२०८) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004942
Book TitleDwatrinshada Dwatrinshika Prakran Part 5
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages334
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy