________________
१३३२ • सत्त्वविभावनम् .
द्वात्रिंशिका-२०/७ सत्त्वं रजस्तमोलेशाऽनाक्रान्तं यत्र भाव्यते । स सास्मितोऽत्र चिच्छक्ति-सत्त्वयोर्मुख्य-गौणता ।।७।।
सत्त्वमिति। यत्र रजस्तमोलेशेनाऽनाक्रान्तं (=रजस्तमोलेशाऽनाक्रान्तं) सत्त्वं भाव्यते, स सास्मितः समाधिः । अत्र चिच्छक्ति-सत्त्वयोर्मुख्य-गौणता, भाव्यस्य शुद्धसत्त्वस्य न्यग्भावाच्चिति'शक्तेश्च उद्रेकात् । सत्तामात्रावशेषत्वाच्चात्र सास्मितत्वोपपत्तिः । धम्मं विज्ञाय न निमित्तग्गाही होति नानुब्यञ्जनग्गाही । यत्वाधिकरणमेनं मनिन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति मनिन्द्रियं, मनिन्द्रिये संवरं आपज्जति । सो इमिना अरियेन इन्द्रियसंवरेन समन्नागतो अज्झत्तं अब्यासेकसुखं पटिसंवेदेति - (म.नि. १/३/७/२९५, पृ.२४१) इत्येवं यदिन्द्रियसंवरहेतुकाऽऽध्यात्मिक-सुखसंवेदनमुक्तं तदपीहाऽनुयोज्यं यथातन्त्रं स्व-परतन्त्ररहस्यविशारदैः ।।२०/६।।
राजमार्तण्डाऽनुसारेण सास्मितसमाधिं व्याख्यानयति- ‘सत्त्वमिति । यत्र समाधौ रजस्तमोलेशेनाऽनाक्रान्तं सत्त्वं = सत्त्वप्रधानमन्तःकरणं भाव्यते = भावनाविषयीक्रियते । यद्यपि पातञ्जलदर्शने प्रकृतेः तत्कार्याणाञ्च त्रिगुणात्मकतैव तथापि रजस्तमोलवाऽनाक्रान्तत्वेन रूपेण शुद्धसत्त्वं यत्र समाधौ भाव्यते इत्यत्राऽभिप्रायान्न कोऽपि दोषः । ___ अत्र = सास्मितसम्प्रज्ञातसमाधौ चिच्छक्ति-सत्त्वयोः = अभिव्यङ्ग्यचितिशक्ति-शुद्धसत्त्वप्रधानान्तःकरणयोः यथाक्रमं मुख्य-गौणता सम्पद्यते, भाव्यस्य = भावनाविषयस्य शुद्धसत्त्वस्य = शुद्धसत्त्वप्रधानान्तःकरणतत्त्वस्य ज्ञायमानत्वेऽपि न्यग्भावात् = भावनायामुपसर्जनीभावात् चितिशक्तेश्च = अभिव्यङ्ग्यचितिशक्तेश्च उद्रेकात् = प्राबल्यात् । अयमाशयः- सास्मितसमाधिनिष्ठो हि योगी शुद्धसत्त्वप्रधानमन्तःकरणमालम्बनीकृत्य भावनायां प्रवर्तते तथापि शुद्धत्वेनाऽनुभूयमानस्याऽप्यन्तःकरणस्य विकल्पकल्लोलमालाऽऽश्रयीभूततया स्वभिन्नत्वावगमेन तत्रोदासीनो भवतीति शुद्धसत्त्वप्रधानमन्तःकरणं स्वयमेवोपसर्जनीभवति तथाऽनुभूयमानायामभिव्यङ्ग्यचितिशक्तौ प्राक् (द्वा.द्वा.११/१६ भाग-३ पृ.७७९) प्रदर्शितस्वरूपायां चित्त्वसाजात्येन स्वतादात्म्याऽवबोधात् दत्ताऽवधानो भवतीत्यभिव्यङ्ग्यचितिशक्तिरत्र समाधौ लब्धप्रसरा मुख्यतामापद्यते । न च तथापि प्रकृतसमाधेः सास्मितत्वाभिधानं कथं सङ्गच्छते ? इति शङ्कनीयम्, यतः सत्तामात्राऽवशेषत्वात् = प्रकृतौ लीयमानस्याऽप्यन्तःकरणस्याऽस्तित्वमात्रस्याऽनुभूयमानत्वात् अत्र समाधौ सास्मितत्वोपपत्तिः
હ સામિત સમાધિને સમજીએ હ. ગાથાર્થઃ- રજોગુણ અને તમોગુણના અંશથી પણ અનાક્રાન્તરૂપે સત્ત્વગુણની ભાવના જ્યાં કરવામાં આવે તે સાસ્મિત સમાધિ કહેવાય. અહીં ચિતશક્તિની મુખ્યતા અને સત્ત્વની ગૌણતા હોય છે. (૨૦/૭)
ટીકાર્ય - જ્યાં રજોગુણ અને તમોગુણના અંશથી અનાક્રાન્ત સ્વરૂપે સત્ત્વગુણની ભાવના કરવામાં આવે છે તે સાસ્મિત સંપ્રજ્ઞાત સમાધિ કહેવાય છે. આ સામિત સમાધિમાં ચિતશક્તિની મુખ્યતા અને સત્ત્વગુણની = સત્ત્વગુણપ્રધાન મનની ગૌણતા હોય છે. કારણ કે અહીં ભાવનાના વિષયભૂત શુદ્ધ સત્ત્વનો તિરોભાવ થાય છે અને અભિવ્યંગ્ય ચિતશક્તિનો ઉદ્રક = ઉછાળો થાય છે. આ સમાધિમાં १. हस्तादर्श 'चित्तै' इत्यशुद्धः पाठः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org