________________
• विदेहविचरणम् •
१३३१ सानन्द इति । सानन्दः समाधिर्भवत्युक्तहेतुतः । अत्रैव समाधौ बद्धवृत्तयो विदेहा भण्यन्ते देहाऽहङ्कारविगमाद् बहिर्विषयाऽऽवेशनिवृत्तेः 'प्रधानमुपदर्शिनः = प्रधानपुरुषतत्त्वाविभावकाः।।६।। विज्ञानभिक्षुस्तु → तत्रैवाऽऽलम्बने सूक्ष्माकारसाक्षात्कारानन्तरं तामपि दृष्टिं त्यक्त्वा चतुर्विंशतितत्त्वाऽनुगते सुखरूपपुरुषार्थे धारणादित्रयेण यः पूर्ववदशेषविशेषतः सुखाऽऽकारसाक्षात्कारः स आनन्द इत्युच्यते, ज्ञान-ज्ञेययोरभेदोपचारात् । यद्यपि प्रकृतेस्त्रिगुणात्मकत्वेन सुखवद् दुःख-मोहावपि सर्वत्र स्तः तथापि सुखरागेणैव संसारात् आत्मदर्शनप्रतिबन्धाच्च तदेव मुख्यतोऽशेषविशेषतो योगेन द्रष्टव्यम्, यथा तत्र दोषदर्शनेन दुःखदृष्ट्या वैराग्यं स्यादित्याशयेनाऽऽनन्दमात्रे योग उपदिष्ट इति मन्तव्यम् + (यो.सा. सं.पृ.११) इत्याचष्टे ।
अत्रैव सानन्दाख्ये समाधौ = सम्प्रज्ञातयोगे बद्धवृत्तयो = प्रतिबद्धचित्तवृत्तयः योगिनः विदेहा इति भण्यन्ते, देहाऽहङ्कारविगमात् = विगतदेहाऽहङ्कारत्वात् । इत्थं बहिर्विषयावेशनिवृत्तेः = शुद्धान्तःकरणाद् बहिःचित्तवृत्तिप्रचारविगमात् ते हि केवलं प्रधानं = प्रकृतिकार्यभूताऽन्तःकरणसत्त्वमात्रं उपदर्शिनो भवन्ति, तत्त्वान्तरं नैव पश्यन्ति । अत एव प्रधानपुरुषतत्त्वाऽविभावकाः = मुख्ये मोक्षपुरुषार्थे मुख्यं यत् पुरुषतत्त्वं तस्याऽनालोचकाः ते भवन्ति । तदुक्तं राजमार्तण्डे → अस्मिन्नेव समाधौ ये बद्धधृत(?वृत्त)यस्तत्त्वान्तरं प्रधानपुरुषरूपं न पश्यन्ति ते विगतदेहाहङ्कारत्वाद् विदेहशब्दवाच्याः । इयं ग्रहणसमापत्तिः - (यो.सू. ११७ रा.मा.पृ.२१) इति । → देहनैरपेक्ष्येणैव बुद्धिवृत्तिमन्तः सिद्धाः = विदेहाः - (यो.सू. ३) इति योगसूत्रभाष्यकारो विभूतिपादे व्याचष्टे । → विदेहाः = स्थूलदेहनिरपेक्षेण लिङ्गदेहेनाऽखिलव्यवहारक्षमा हिरण्यगर्भादयः । ते हि भूतेन्द्रियतन्मात्राऽहङ्कारमहतामन्यतमदात्मत्वेन प्रतिपद्य तदुपासनया तद्वासिताऽन्तःकरणाः पिण्डपाताऽनन्तरं तदन्यतमे लीनाः संस्कारमात्रशेषमनसः स्थूलदेहरहिता अवृत्तिकत्वात्कैवल्यमिवाऽनुभवन्ति, प्राप्तावधयस्तु पुनः संसारे विशन्ति + (यो.सू. १।१९) इति तु नागोजीभट्टः । → भूतेन्द्रियाणामन्यतमस्मिन् विकारेऽनात्मन्यात्मत्वभावनया देहपाताऽनन्तरं भूतेन्द्रियेषु लीनाः षाट्कोशिकदेहशून्याः = विदेहाः + (यो.सू. १।१९ म.प्र.) इति मणिप्रभायां रामानन्दः ।
मज्झिमनिकाये लघुहस्तिपदोपमसूत्रे → सो चक्खुना रूपं दिस्वा न निमित्तग्गाही होति नानुब्यञ्जनग्गाही । यत्वाधिकरणमेनं चक्खुन्द्रियं असंवुतं विहरन्तं अभिज्झादोमनस्सा पापका अकुसला धम्मा अन्वास्सवेय्युं तस्स संवराय पटिपज्जति, रक्खति चक्खुन्द्रियं, चक्खुन्द्रिये संवरं आपज्जति । सोतेन सई सुत्वा..... घानेन गन्धं घायित्वा... जिव्हाय रसं सायित्वा.... कायेन फोढब्बं फुसित्वा... मनसा દેહમાં અહંકારબુદ્ધિ દૂર થયેલી હોય છે. તેઓ પ્રધાનને જોનારા હોય છે. (૨૦)
ટીકાર્થ - પાંચમી ગાથામાં જણાવેલ હેતુની અપેક્ષાએ સાનંદ સમાધિ થાય છે. આ સાનંદ સ...જ્ઞાત સમાધિ યોગમાં જ જેણે ચિત્તવૃત્તિને બાંધેલી છે તેવા યોગીઓ વિદેહ કહેવાય છે. કારણ કે તેમને દેહમાંથી અહંકારબુદ્ધિ દૂર થયેલી હોય છે. આ રીતે બાહ્ય વિષયનો આવેશ = પક્કડ રવાના થવાથી તેઓ પ્રધાનતત્ત્વને = प्रकृतितत्पने होना होय छे. तेसो भुण्य पुरुषतत्वना स्व३५ने ता नथी. (२०/६) १. हस्तादर्श 'प्रधानमुपदर्शिनः' इति पदं द्विरुक्तम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org