________________
• जात्या कस्याऽप्यनुष्ठाननैयत्याऽयोगः •
द्वात्रिंशिका - १४/३२
अनेकस्वरूपाऽभ्युपगमे ह्यपुनर्बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायां प्रशान्तवाहितां सम्पा दयतीति । तदुक्तं- “अपुनर्बन्धकस्यैवं सम्यग्नीत्योपपद्यते । तत्तत्तन्त्रोक्तमखिलमवस्थाभेदसंश्रयात् ।। " ( योगबिंदु . २५१ ) इति ।। ३२ ।।
१०००
← ( ) इत्युक्तिः स्मर्तव्या । यद्वा निवृत्ताऽसद्ग्रहत्वेन अनभिनिवेशेन ग्रन्थिभेदतः प्रशमसुखस्य अनन्तानुबन्धिकषाय-मिथ्यात्वमोहोच्छेदप्रसूतशमानन्दस्य कारणं भवतीत्यर्थः कार्यः । एतेन अणभिनिवेसो उ कयाइ होइ सम्मत्तहेऊ वि ← ( श्रा. प्र. ८५) इति श्रावकप्रज्ञप्तिवचनमपि व्याख्यातम् । अत एव असदभिनिवेशकरणे तु अनालोचिताऽप्रतिक्रान्तस्य गृहीतप्रव्रज्यस्याऽपि पतनमेव भवति, भूताऽऽर्यिकावत् । तदुक्तं पुष्पचूलिकोपाङ्गे सा भूता अज्जा अणोहट्टिया', अणिवारिया, सच्छंदमई, अभिक्खणं अभिक्खणं हत्थे धोवति, जाव निसीहियं चेतेति । ततो णं सा भूया अज्जा बहूहिं चउत्थ- छठ्ठ... जाव बहूइं वासाइं सामण्णपरियागं पाउणित्ता तस्स ठाणस्स अणालोइयपडिक्कंता कालमासे कालं किच्चा सोहम्मे कप्पे सिरिवडिंसए विमाणे उववायसभाए देवसयणिज्जंसि जाव ओगाहणाए सिरिदेवित्ताए उववण्णा ← (पु. चू. पृ. ३८ / अध्य. १ ) इति । न हि सति सम्यक्त्वे देवीत्वेनोपपातः सम्भवति । ततश्च सम्यक्त्वाद्यर्थिना कदाग्रह-मायादिपरित्यागे तन्त्रान्तरीय-सद्योगनिन्दादिपरिहारे च सततं यतितव्यमित्येतावता ध्वन्यते । न हि जात्या किञ्चित्कस्यचित् सर्वदा सर्वत्र सर्वथैव प्रतिनियतं सम्भवति । न हि कस्याऽपि पैतृकी गङ्गा । अत्र चार्थे तमे णामं एगे जोई । जोई णामं एगे त ← (स्था.४/३) इति स्थानाङ्गसूत्रतात्पर्यमपि यथातन्त्रमनुसन्धेयम् ।
अपुनर्बन्धकस्य
ग्रन्थकृत् प्रकृत एव योगबिन्दुसंवादमावेदयति- 'अपुनर्बन्धकस्येति । तद्वृत्तिस्त्वेवम् उक्तरूपस्य एवं = उक्तरूपेण सम्यग्नीत्या स्वाशयशुद्धिप्रयुक्तरूपया उपपद्यते = घटते । किम् ? इत्याहतत्तत्तन्त्रोक्तं = कापिल-सौगतादिशास्त्रप्रणीतं मुमुक्षुजनयोग्यमनुष्ठानं अखिलं = समस्तम् । कुतः ? इत्याहअवस्थाभेदसंश्रयात् = अपुनर्बन्धकस्यानेकस्वरूपाऽङ्गीकरणात् । अनेकस्वरूपाभ्युपगमे ह्यपुनर्बन्धकस्य किमप्यनुष्ठानं कस्यामप्यवस्थायामवतरति ← (यो.बि.वृ.२५१) इति ।
वैदिकतन्त्रावस्थितोऽपुनर्बन्धकः यान्यनवद्यानि कर्माणि तानि सेवितव्यानि, नो इतराणि । यान्यस्माकं सुचरितानि तानि त्वयोपास्यानि, नो इतराणि ← ( तै. उप . १ ।११।२ ) इति पूर्वोक्त(पृ.८५७) तैत्तिरीयोपनिषद्वचनाऽनुस्मरणेन परस्वानां च हरणं परदाराभिमर्शनम् । सुहृदामतिशङ्का च त्रयो
=
=
કહેવાનો આશય એ છે કે અપુનર્બંધક જીવની અવસ્થા વિવિધ પ્રકારની સ્વીકારાયેલ હોવાના લીધે કોઈ પણ અનુષ્ઠાન તેની કોઈને કોઈ આત્મદશામાં પ્રશાન્તવાહિતાનું સંપાદન કરે છે. માટે તો યોગબિંદુ ગ્રંથમાં જણાવેલ છે કે → ‘આ રીતે તે તે વિવિધ દર્શનશાસ્ત્રમાં જણાવેલ તમામ આરાધના અલગ-અલગ અવસ્થાને આશ્રયીને અપુનર્બંધક જીવમાં સારી રીતે સંગત થઈ શકે છે.' ← (१४/३२)
१. अणोहट्टियत्ति यो बलाद् हस्तादौ गृहीत्वा प्रवर्तमानं निवारयति सोऽपघट्टिकः, तदभावादनपघट्टिका ( पुष्पिता - सुभद्रकथासूत्र - ९२ - अभयदेवीया वृत्तिः )
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org