SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ १००१ • लघुनोऽपि शुद्धस्य महत्ता • ॥ इति अपुनर्बन्धकद्वात्रिंशिका ।।१४।। दोषाः क्षयाऽऽवहाः।। - (वा.रा.८७/२४) इति च वाल्मीकिरामायणवचनानुसारेणाऽनवद्य-सदाचारसेवनादिना मोक्षमार्गमभिसर्पति । सौगतदर्शनस्थितोऽपुनर्बन्धकः → ‘पापं न कयिरा वचसा मनसा कायेन वा किञ्चन सब्बलोके । कामे पहाय सतिमा सम्पजानो दुक्खं न सेवेथ अनत्थसंहित'न्ति ।। - (सं.नि.नन्दनवर्ग११।२।१०/२०) इति संयुत्तनिकायवचनमनुसृत्य → सव्वपावस्स अकरणं कुसलस्स उपसम्पदा । सचित्तपरियोदपनं एतं बुद्धान सासनं ।। 6 (ध.प.१४/५) इति च धम्मपदवचनमनुस्मृत्य यथाशक्ति पापपरिहारेणापवर्गमार्गमभिसर्पति । एतेन → ये केचि अकुसला धम्मा सब्बे ते अधोभागङ्गमनीया, ये केचि कुसला धम्मा सब्बे ते उपरिभागङ्गमनीया - (म.नि. सल्लेखसूत्र-१/१/८/८६) इति मज्झिमनिकायवचनं, → सव्वे वण्णा अधम्मट्ठा पतन्ति निरयं अधो । सव्वे वण्णा विसुज्झन्ति चरित्वा धम्ममुत्तमं ।। 6 (जा.२२/५४१/४३९) इति च सूत्रपिटकान्तर्गत-जातकवचनमपि व्याख्यातम्, कुशलानुष्ठानेनाऽपुनर्बन्धकस्याऽनेकतन्त्रव्यवस्थितस्याऽऽध्यात्मिकापेक्षयोर्ध्वगामित्वसम्भवात् । कुशलानुष्ठानगोचरदृढश्रद्धादिजनकं मज्झिमनिकायगतं सल्लेखसूत्रमत्र कात्स्न्येन विभावनीयं नानातन्त्रतात्पर्यान्वेषणपरैर्यथागमम् । अतिग्रन्थविस्तरभयान्नेह तद् दर्श्यते । एतावताऽनिर्विण्ण आसन्नमुक्तिपदोऽपुनर्बन्धकः स्वोचितसदाचारशास्त्रज्ञानबलेनाऽपवर्गमार्गमभिगच्छत्येवेति स्थितम् । प्रकृते → यो यमर्थं प्रार्थयते, तदर्थं यतते तथा। सोऽवश्यं तमवाप्नोति न चेच्छ्रान्तो निवर्तते ।। (यो.वा.निर्वाणप्रक.१०३/२२) इति योगवाशिष्ठवचनमपि यथातन्त्रमनुयोज्यम् । ___एतेन → अवेद्यसंवेद्यपदवर्तितया दोषशत-सहस्राऽऽविलेऽपुनर्बन्धके इत्थं गुणकदम्बकनिरूपणं कथं सङ्गच्छते ? - इति शङ्काऽपि निराकृता, तस्याऽवेद्यसंवेद्यपदमलाऽऽविलत्वेऽप्याऽऽसन्नमुक्तिगामितयोप लब्धशुद्धगुणानां स्वयमेव गुणज्ञचित्तेषु प्रतिभासनात् । प्रकृते → शुद्धाः प्रसिद्धिमायान्ति लघवोऽपीह केचन । तमस्यपि विलोक्यन्ते दन्तिदन्ता न दन्तिनः ।। ( ) इति सूक्त्यनुसारेण विभावनीयं गुणग्रहणरसिकैरिति शम् ।।१४/३२।। भवबीजादिमीमांसा-प्रत्ययत्रिकगर्भितः । अपुनर्बन्धकः प्रोक्तः स्वान्यतन्त्रानुवेधतः ।।१।। इति मुनियशोविजयविरचितायां नयलतायां अपुनर्बन्धकद्वात्रिंशिकाविवरणम् ।।१४।। વિશેષાર્થ - અપુનબંધક જીવમાં મલિન ગાઢ કદાગ્રહ હોતો નથી. તથા તેનામાં સઅભિનિવેશ હોવાનો અર્થ એ છે કે સારી વાતને, સ્વભૂમિકાને યોગ્ય એવા તત્ત્વને તે મજબૂત રીતે પકડી શકે છે. તથા તેની અવસ્થા જુદા-જુદા પ્રકારની હોય છે. કયારેક તે જગતની બાહ્ય પુદ્ગલરચનાની ક્ષણભંગુરતાથી હૃદયને ભાવિત કરે છે તો કયારેક તે ત્રિકાળધ્રુવ શુદ્ધ આત્મદ્રવ્ય ઉપર પોતાની નજરને ઉપાદેયપણે કેન્દ્રિત કરે છે. આથી તેવી વિવિધ આત્મદશામાં ક્ષણિકવાદી બૌદ્ધ કે છુવાત્મવાદી સાંખ્યા વગેરે દર્શનોમાં જણાવેલી વિવિધ સાધનાપદ્ધતિ તેના ચિત્તને શાંત-પ્રશાંત-ઉપશાંત બનાવે છે. આ રીતે સ્વભૂમિકાયોગ્ય મોક્ષમાર્ગ અપુનબંધક સાધક આગળ વધતો જાય છે. (૧૪૩૨) Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.004941
Book TitleDwatrinshada Dwatrinshika Prakran Part 4
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay of Jayaghoshsuri
PublisherAndheri Jain Sangh
Publication Year2002
Total Pages378
LanguageGujarati, Sanskrit
ClassificationBook_Gujarati
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy